श्री नारायणाय नमः । ===================================================== Filename : KrshnaamrtaMahaarnava.txt Name of the Text: Krshnaamrta Mahaarnava Category : Aachaaryakrta grantha Details : Language/Script : Samskrta (Devanaagari) Author : Shri Madhvacharya Published on : DD Month YYYY Last updated on : - © Copyrights 2022-24 Achyuta Bhakti Deets ===================================================== Krshnaamrta Mahaarnava कृष्णामृतमहार्णवः अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श्रुतः । यो ददात्यमृतत्वं हि स मां रक्षतु केशवः ॥ १ ॥ तापत्रयेण सन्तप्तं यदेतदखिलं जगत् । वक्ष्यामि शान्तये तस्य कृष्णामृतमहार्णवम् ॥ २ ॥ ते नराः पशवो लोके किं तेषां जीवने फलम् । यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः ॥ ३ ॥ संसारेस्मिन् महाघोरे जन्मरोगभयाकुले । अयमेको महाभागः पूज्यते यदधोक्षजः ॥ ४ ॥ स नाम सुकृती लोके कुलं तेनाभ्यलङ्कृतम् । आधारः सर्वभूतानां येन विष्णुः प्रसादितः ॥ ५ ॥ यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । तद्विशिष्टफलं नॄणां सदैवाराधनं हरेः ॥ ६ ॥ कलौ कलिमलध्वंसिसर्वपापहरं हरिम् । येर्चयन्ति सदा नित्यं तेपि वन्द्या यथा हरिः ॥ ७ ॥ नास्ति श्रेयस्तमं नॄणां विष्णोराराधनान्मुने । युगेस्मिंस्तामसे लोके सततं पूज्यते नृभिः ॥ ८ ॥ अर्चिते देवदेवेशे शङ्खचक्रगदाधरे । अर्चिताः सर्वदेवाः स्युर्यतः सर्वगतो हरिः ॥ ९ ॥ स्वर्चिते सर्वलोकेशे सुरासुरनमस्कृते । केशवे कंसकेशिघ्ने न याति नरकं नरः ॥ १० ॥ सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः । मुक्तिभागी निरातङ्की विष्णुलोके चिरं वसेत् ॥ ११ ॥ शङ्करः— सकृदभ्यर्चितो येन देवदेवो जनार्दनः । यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम् ॥ १२ ॥ सकृदभ्यर्चितो येन हेलयापि नमस्कृतः । स याति परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ १३ ॥ नारदः समस्तलोकनाथस्य देवदेवस्य शांर्गिणः । साक्षाद्भगवतो विष्णोः पूजनं जन्मनः फलम् ॥ १४ ॥ पुलस्त्यः भक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितः पुरुषोत्तमः । हरिर्ददाति हि फलं सर्वयज्ञैश्च दुर्लभम् ॥ १५ ॥ विधिना देवदेवेशः शङ्खचक्रधरो हरिः । फलं ददाति सुलभं सलिलेनापि पूजितः ॥ १६ ॥ नरके पच्यमानस्तु यमेन परिभाषितः । किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ १७ ॥ धर्मः द्रव्याणामप्यभावे तु सलिलेनापि पूजितः । यो ददाति स्वकं स्थानं स त्वया किं न पूजितः ॥ १८ ॥ नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः । स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः ॥ १९ ॥ ब्रह्मा गर्भस्थिता मृता वापि मुषितास्ते सुदूषिताः । न प्राप्ता यैर्हरेर्दीक्षा सर्वदुःखविमोचनी ॥ २० ॥ मार्कण्डेयः सकृदभ्यर्चितो येन देवदेवो जनार्दनः । यत्कृतं तत्कृतं तेन सम्प्राप्तं परमं पदम् ॥ २१ ॥ धर्मार्थकाममोक्षाणां नान्योपायस्तु विद्यते । सत्यं ब्रवीमि देवेश हृषीकेशार्चनादृते ॥ २२ ॥ तस्य यज्ञवराहस्य विष्णोरमिततेजसः । प्रणामं ये प्रकुर्वन्ति तेषामपि नमो नमः ॥ २३ ॥ मरीचिः अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज । न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥ २४ ॥ अत्रिः— परः पराणां पुरुषस्तुष्टो यस्य जनार्दनः । स चाप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥ २५ ॥ अङ्गिराः— यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः । तमाराधय गोविन्दं स्थानमग्य्रं यदीच्छसि ॥ २६ ॥ पुलस्त्यः— परं ब्रह्म परं धाम योसौ ब्रह्म सनातनम् । तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम् ॥ २७ ॥ ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् । प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥ २८ ॥ प्राप्नोत्याराधिते विष्णौ मनसा यद्यदिच्छति । त्रैलोक्यान्तर्गतं स्थानं किमु लोकोत्तरोत्तरम् ॥ २९ ॥ ये स्मरन्ति सदा विष्णुं शङ्खचक्रगदाधरम् । सर्वपापविनिर्मुक्ताः परं ब्रह्म विशन्ति ते ॥ ३० ॥ ततोनिरुद्धं देवेशं प्रद्युम्नं च ततः परम् । ततः सङ्कर्षणं देवं वासुदेवं परात्परम् ॥ ३१ ॥ वासुदेवात् परं नास्ति इति वेदान्तनिश्चयः । वासुदेवं प्रविष्टानां पुनरावर्तनं कुतः ॥ ३२ ॥ आत्रेयः— यो यानिछेन्नरः कामान् नारी वा वरवर्णिनी । तान्समाप्नोति विपुलान्समाराध्य जनार्दनम् ॥ ३३ ॥ ब्रह्मा— बाहुभ्यां सागरं तर्तुं क इच्छेत पुमान् भुवि । वासुदेवमनाराध्य को मोक्षं गन्तुमिच्छति ॥ ३४ ॥ कौशिकः— अनाराधितगोवन्दा ये नरा दुःखभागिनः । आराध्य वासुदेवं स्युर्नित्यानन्दैकभागिनः ॥ ३५ ॥ शङ्करः— कृते पापेनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्योक्तं हरिसंस्मरणं परम् ॥ ३६ ॥ नाम्नोस्ति यवती शक्तिः पापनिर्हरणे हरेः । तावत्कर्तुं न शक्नोति पातकं पातकी जनः ॥ ३७ ॥ ब्रह्मा — न ह्यपुण्यवतां लोके मूढानां कुटिलात्मनाम् । भक्तिर्भवति गोविन्दे स्मरणं कीर्तनं तथा ॥ ३८ ॥ तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः । जितेन्द्रियो विशुद्धात्मा यदैव स्मरते हरिम् ॥ ३९ ॥ प्राप्ते कलियुगे घोरे धर्मज्ञानविवर्जिते । न कश्चित्स्मरते देवं कृष्णं कलिमलापहम् ॥ ४० ॥ न कलौ देवदेवस्य जन्मदुखापहारिणः । करोति मर्त्यो मूढात्मा स्मरणं कीर्तनं हरेः ॥ ४१ ॥ ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना । ते प्रयान्ति भयं त्यक्त्वा विष्णुलोकमनामयम् ॥ ४२ ॥ गर्भजन्मजरारोगदुःखसंसारबन्धनैः । न बाध्यते नरो नित्यं वासुदेवमनुस्मरन् ॥ ४३ ॥ यममार्गं महाघोरं नरकाणि यमं तथा । स्वप्नेपि नैव पश्येत यः स्मरेद्गरुडध्वजम् ॥ ४४ ॥ हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः । पादोदकं च निर्माल्यं मस्तके यस्य सोच्युतः ॥ ४५ ॥ गोविन्दस्मरणं पुंसां पापराशिमहाचलम् । असंशयं दहत्याशु तूलराशिमिवानलः॥ ४६ ॥ अगस्त्यः— स्मरणादेव कृष्णस्य पापसङ्घातपञ्जरः । शतधा भेदमायाति गिरिर्वज्रहतो यथा ॥ ४७ ॥ कृष्णे रताः कृष्णमनुस्मरन्ति तद्भावितास्तद्गतमानसाश्च । भिन्नेपि देहे प्रविशन्ति कृष्णं हविर्यथा मन्त्रहुतं हुताशे ॥ ४८ ॥ सा हानिस्तन्महच्छिद्रं सा चान्धजडमूकता । यन्मूहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ ४९ ॥ नारायणो नाम नरो नराणां प्रसिद्धचोरः कथितः पृथिव्याम् । अनेकजन्मार्जितपापसञ्चयं हरत्यशेषं स्मृतमात्र एव ॥ ५० ॥ यस्य संस्मरणादेव वासुदेवस्य चक्रिणः । कोटिजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥ ५१ ॥ किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः । यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ ५२ ॥ ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति । ध्यानेन तेन हतकिल्बिषचेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति ॥ ५३ ॥ हे चित्त चिन्तयस्वेह वासुदेवमहर्निशम् । नूनं यश्चिन्तितः पुंसां हन्ति संसारबन्धनम् ॥ ५४ ॥ आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ५५ ॥ [1] (Mahaabhaarata, Anushaasana Parva, Adhyaaya 186, Shloka 11; Nrsimha Puraana, Adhyaaya 64, Shloka 78; Garuda Puraana, Khanda 1, Adhyaaya 230, Shloka 1) स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ ५६ ॥ वेदेषु यज्ञेषु तपस्सु चैव दानेषु तीर्थेषु व्रतेषु यच्च । इष्टेषु पूर्तेषु च यत्प्रदिष्टं पुण्यं स्मृते तत्खलु वासुदेवे ॥ ५७ ॥ आराध्यैवं नरो विष्णुं मनसा यद्यदिच्छति । फलं प्राप्नोति विपुलं भूरि स्वल्पमथापि वा ॥ ५८ ॥ यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावकः ॥ ५९ ॥ कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् । प्रयाति विलयं सद्यः सकृत्सङ्कीर्तितेच्युते ॥ ६० ॥ अनायासेन चायान्ति मुक्तिं केशवसंश्रिताः । तद्विघाताय जायन्ते शक्राद्याः परिपन्थिनः ॥ ६१ ॥ चतुःसागरमासाद्य जम्बूद्वीपोत्तमे क्वचित् । न पुमान्केशवादन्यः सर्वपापचिकित्सकः ॥ ६२ ॥ यदभ्यर्च्य हरिं भक्त्या कृते वर्षसहस्रकम् । फलं प्राप्नोति विपुलं कलौ सङ्कीर्त्य केशवम् ॥ ६३ ॥ क्षीयते तु यदा धर्मः प्राप्ते घोरे कलौ युगे । तदा न कीर्तयेत्कश्चिन्मुक्तिदं देवमच्युतम् ॥ ६४ ॥ अवशेनापि यन्नामि्न कीर्तिते सर्वपातकैः । पुमान्विमुच्यते सद्यः सिंहत्रस्तमृगैरिव ॥ ६५ ॥ (Vishnu Puraana, Amsha 6, Adhyaaya 8, Shloka 19) नारायणेति मन्त्रोस्ति वागस्ति वशवर्तिनी । तथापि नरके घोरे पतन्तीत्येतदद्भुतम् ॥ ६६ ॥ आर्ता विषण्णाशिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः । सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ६७ ॥ (Addendum of the Vishnu Sahasranaama) कौशिकः — अनाराधितगोविन्दा ये नरा दुःखभागिनः । आराध्य वासुदेवं स्युः सदानन्दैकभोगिनः ॥ ६८ ॥ सकृदुच्चरितं यैस्तु कृष्णेति न विशन्ति ते । गर्भागारगृहं मातुर्यमलोकं च दुस्सहम् ॥ ६९ ॥ क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ ७० ॥ बुद्ध्या बुद्ध्वाभ्यसेदेतत् हरिरित्यक्षरद्वयम् । स्मरणात्कीर्तनाद्यस्य न पुनर्जायते भुवि ॥ ७१ ॥ हे जिह्वे मम निस्नेहे हरिं किं नानुभाषसे । हरिं वदस्व कल्याणि संसारोदधिनौर्हरिः ॥ ७२ ॥ असारे खलु संसारे सारात्सारतरो हरिः । पुण्यहीना न विन्दन्ति सारङ्गाश्च यथा जलम् ॥ ७३ ॥ कुरुक्षेत्रेण किं तस्य किं काश्या पुष्करेण किम् । जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ ७४ ॥ ब्रह्मा — असारे खलु संसारे सारमेकं निरूपितम् । समस्तलोकनाथस्य सारमाराधनं हरेः ॥ ७५ ॥ सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम् । तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥ ७६ ॥ यस्तु विष्णुपरो नित्यं दृढभक्तिर्जितेन्द्रियः । स्वगृहेपि वसन् याति तद्विष्णोः परमं पदम् ॥ ७७ ॥ शङ्करः साधु साधु महाभाग साधु दानवनाशन । यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति ॥ ७८ ॥ निमिषं निमिषार्धं वा मुहूर्तमपि भार्गव । नादग्धाशेषपापानां भक्तिर्भवति केशवे ॥ ७९ ॥ किं तेन मनसा कार्यं यन्न तिष्ठति केशवे । मनो मुक्तिफलावाप्तौ कारणं सुप्रयोजितम् ॥ ८० ॥ रोगो नाम न सा जिह्वा यया न स्तूयते हरिः । गर्तौ नाम न तौ कर्णौ याभ्यां तत्कर्म न श्रुतम् ॥ नूनं तत्कण्ठशालूकमथवाप्युपजिह्विका । रोगो नाम न सा जिह्वा या न वक्ति हरेर्गुणान् ॥ ८२ ॥ भारभूतैः करैः कार्यं किं तस्य नृपशोर्द्विजाः । यैर्हि न क्रियते विष्णोर्गृहसंमार्जनादिकम् ॥ ८३ ॥ चरणौ तौ तु सफलौ केशवालयगामिनौ । ते च नेत्रे महाभागे याभ्यां सन्दृश्यते हरिः॥ ८४ ॥ किं तस्य चरणैः कार्यं वृथासञ्चरणैर्द्विजाः । यैर्हि न व्रजते जन्तुः केशवालयदर्शने॥ ८५ ॥ वेदवेदान्तविदुषां मुनीनां भावितात्मनाम् । ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम्॥ ८६ ॥ विचित्ररत्नपर्यङ्के महाभोगे च भोगिनः । रमन्ते नाकिरामाभिः केशवस्मरणात् फलम्॥ ८७ ॥ अश्वमेधसहस्राणां यः सहस्रं समाचरेत् । नासौ तत्फलमाप्नोति तद्भक्तैर्यदवाप्यते ॥ ८८ ॥ रे रे मनुष्याः पुरुषोत्तमस्य करौ न कस्मान्मुकुलीकुरुध्वम् । क्रियाजुषां को भवतां प्रयासः फलं हि यत्तत्पदमच्युतस्य ॥ ८९ ॥ विष्णोर्विमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणम् । अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ९० ॥ प्रदक्षिणं तु यः कुर्याद्धरिं भक्तिसमन्वितः । हंसयुक्तविमानेन विष्णुलोकं स गच्छति ॥ ९१ ॥ तीर्थकोटिसहस्राणि व्रतकोटिशतानि च । नारायणप्रणामस्य कलां नार्हन्ति षोडशीम्॥ ९२ ॥ उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां जानुभ्यां प्रणामोष्टाङ्ग ईरितः ॥ ९३ ॥ शाठ्येनापि नमस्कारं कुर्वतः शांर्गपाणये । शतजन्मार्जितं पापं नश्यत्येव न संशयः ॥ ९४ ॥ संसारार्णवमग्नानां नराणां पापकर्मणाम् । नान्योद्धर्ता जगन्नाथं मुक्त्वा नारायणं प्रभुम् ॥ ९५ ॥ रेणुकुण्ठितगात्रस्य कणा यावन्ति भारत । तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ ९६ ॥ पावनं विष्णुनैवेद्यं सुभोज्यमृषिभिः स्मृतम् । अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत् ॥ ९७ ॥ कोट्यैन्दवसहस्रैस्तु मासोपोषणकोटिभिः । तत्फलं लभ्यते पुम्भिर्विष्णोर्नैवेद्यभक्षणात् ॥ ९८ ॥ त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः । समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः ॥ ९९ ॥ षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी । विष्णुपादोदकस्यैताः कलां नार्हन्ति षोडशीम् ॥ १०० ॥ गङ्गाप्रयागगयपुष्करनैमिषाणि संसेवितानि बहुशः कुरुजाङ्गलानि । कालेन तीर्थसलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः ॥ १०१ ॥ यानि कानि च तीर्थानि ब्रह्माण्डान्तर्गतानि च । विष्णुपादोदकस्यैताः कलां नार्हन्ति षोडशीम् ॥ १०२ ॥ स्नात्वा पादोदकं विष्णोः पिबन् शिरसि धारयेत् । सर्वपापविनिर्मुक्तो वैष्णवीं सिदि्धमाप्नुयात् ॥ १०३ ॥ यथा पादोदकं पुण्यं निर्माल्यं चानुलेपनम् । नैवेद्यं धूपशेषश्च आरार्तिश्च तथा हरेः ॥ १०४ ॥ तुलस्यास्तु रजोजुष्टनैवेद्यस्य च भक्षणम् । निर्माल्यं शिरसा धार्यं महपातकनाशनम् ॥ १०५ ॥ भक्त्या वा यदि वाभक्त्या चक्राङ्कितशिलां प्रति । दर्शनं स्पर्शनं वापि सर्वपापप्रणाशनम् ॥ १०६ ॥ शालग्रामोद्भवो देवो देवो द्वारवतीभवः । उभयोः स्नानतोयेन ब्रह्महत्यां व्यपोहति ॥ १०७ ॥ शालग्रामशिला यत्र तत्र सन्निहितो हरिः । तत्र स्नानं च दानं च वाराणस्याः शताधिकम् ॥ १०७ ॥ म्लेच्छदेशेशुचौ वापि चक्राङ्को यत्र तिष्ठति । योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे ॥ १०९ ॥ शालग्रामोद्भवो देवो शैलं चक्राङ्कमण्डलम् । यत्रापि नीयते तत्र वाराणस्याः शताधिकम् ॥ ११० ॥ शालग्रामोद्भवो देवो देवो द्वारवतीभवः । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥ १११ ॥ हरिणा मुक्तिदानीह मुक्तिस्थानानि सर्वशः । स यस्य सर्वभावेषु तस्य तैः किं प्रयोजनम्॥ ११२ ॥ हरिर्याति हरिर्याति दस्युव्याजेन यो वदेत् । सोपि सद्गतिमाप्नोति गतिं सुकृतिनो यथा ॥ ११३ ॥ वासुदेवं परित्यज्य योन्यं देवमुपासते । त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हालाहलं विषम् ॥ ११४ ॥ त्यक्त्वामृतं यथा कश्चिदन्यपानं पिबेन्नरः । तथा हरिं परित्यज्य योन्यं दैवमुपासते ॥ ११५ ॥ स्वधर्मं तु परित्यज्य परधर्मं चरेद्यथा । तथा हिरं परित्यज्य योन्यं दैवमुपासते ॥ ११६ ॥ गां च त्यक्त्वा स मूढात्मा गार्दभीं वन्दते यथा । तथा हरिं परित्यज्य चान्यं दैवमुपासते ॥ ११७ ॥ वासुदेवं परित्यज्य योन्यं दैवमुपासते । तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ ११८ ॥ यथा गङ्गोदकं त्यक्त्वा पिबेत् कूपोदकं नरः । तथा हरिं परित्यज्य योन्यं दैवमुपासते ॥ ११९ ॥ स्वमातरं परित्यज्य श्वपाकीं वन्दते यथा । तथा हरिं परित्यज्य योन्यं दैवमुपासते ॥ १२० ॥ यावत्स्वस्थमिदं पिण्डं नीरुजं करणान्वितम् । तावत्कुरुष्वात्महितं पश्चात्तापेन तप्यसे ॥ १२१ ॥ यावत्स्वास्त्थ्यं शरीरेषु करणेषु च पाटवम् । तावदर्चय गोविन्दमायुष्यं सार्थकं कुरु ॥ १२२ ॥ स्मर्यतां तु हृषीकेशो हृषीकेषु दृढेषु च । अदृढेषु हृषीकेषु हृषीकेशं स्मरन्ति के ॥ १२३ ॥ यावच्चिन्तयते जन्तुर्विषयान् विषसन्निभान् । तावच्चेत्स्मरते विष्णुं को न मुच्येत बन्धनात् ॥ १२४ ॥ यावत्प्रलपते जन्तुर्लोकवार्तादिभिः सदा । तावच्चेद्वदते विष्णुं को न मुच्येत बन्धनात् ॥ १२५ ॥ सूतः — ज्ञात्वा विप्रैस्तिथिं सम्यग् दैवज्ञैः समुदीरिताम् । कर्तव्य उपवासस्तु ह्यन्यथा नरकं व्रजेत् ॥ १२६ ॥ क्षये वाप्यथवा वृद्धौ सम्प्राप्ते वा दिनक्षये । उपोष्या द्वादशी पुण्या पूर्वविद्धां परित्यजेत् ॥ १२७ ॥ पूर्वविद्धां प्रकुर्वाणो नरो धर्मान् निकृन्तति । सन्ततेस्तु विनाशाय सम्पदो हरणाय च ॥ १२८ ॥ कलावेधे तु विप्रेन्द्र दशम्यैकादशीं त्यजेत् । सुराया बिन्दुना स्पृष्टं गङ्गाम्भ इव सन्त्यजेत् ॥ १२९ ॥ श्वदृतौ पञ्चगव्यं च दशम्या दूषितां त्यजेत् । एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि ॥ १३० ॥ तस्माद्विप्रा न विद्धा हि कर्तव्यैकादशी क्वचित् । विद्धा हन्ति पुरापुण्यं श्राद्धं च वृषलीपतिः ॥ १३१ ॥ जप्तं दत्तं हुतं स्नातं तथा पूजा कृता हरेः । तत्सर्वं विलयं याति तमः सूर्योदये यथा ॥ १३२ ॥ एकादश्यां यदा ब्रह्मन् दिनक्षयतिथिर्भवेत् । उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम् ॥ १३३ ॥ प्रतिपत्प्रभृतयः सर्वा उदयादुदयाद्रवेः । सम्पूर्णा इति विज्ञेया हरिवासरवर्जिताः ॥ १३४ ॥ अरुणोदयकाले तु दशमी यदि दृश्यते । न तत्रैकादशी कार्या धर्मकामार्थनाशिनी ॥ १३५ ॥ अरुणोदयवेलायां दशमी यदि दृश्यते । पापमूलं तदा ज्ञेयमेकादश्युपवासनम्॥ १३६ ॥ चतस्रो घटिकाः प्रातररुणोदय उच्यते । यतीनां स्नानकालोयं गङ्गाम्भःसदृशं जलम् ॥ १३७ ॥ उदयात्प्राग्यदा विप्रा मुहूर्तद्वयसंयुता । सम्पूर्णैकादशी नाम तत्रैवोपवसेद्गृही ॥ १३८ ॥ उदयात्प्राक्त्रिघटिकाव्यापिन्यैकादशी यदा । सन्दिग्धैकादशी नाम वर्ज्या धर्मार्थकां*िक्ष*भिः ॥ १३९ ॥ पुत्रपौत्रविवद्ध्यर्थं द्वादश्यामुपवासयेत् । तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥ १४० ॥ उदयात्प्राग् द्विघटिकाव्यापिन्यैकादशी यदा । सङ्कीर्णैकादशी नाम वर्ज्या धर्मार्थकां*िक्ष*भिः ॥ १४१ ॥ पुत्रराज्यविवृद्ध्यर्थं द्वादश्यामुपवासनम् । तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥ १४२ ॥ दशमीशेषसंयुक्ता गान्धार्या समुपोषिता । तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥ १४३ ॥ अपीषद्दशमीविद्धा तदा तां परिवर्जयेत् । सुराबिन्दुसमायुक्तां प्रवदन्ति मनीषिणः ॥ १४४ ॥ बह्वागमविरोधेषु ब्राह्मणेषु विवादिषु । उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम् ॥ १४५ ॥ एकादश्यां तु विद्धायां सम्प्राप्ते श्रवणे तथा । उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि ॥ १४६ ॥ उपरागसहस्राणि व्यतीपातायुतानि च । अमालक्षं तु द्वादश्याः कलां नार्हन्ति षोडशीम् ॥ १४७ ॥ शुद्धापि द्वादशी ग्राह्या परतो द्वादशी यदि । विषं तु दशमी ज्ञेयामृतं चैकादशी तिथिः । विषप्रधाना वर्ज्या सामृता ग्राह्या प्रयत्नतः ॥ १४८ ॥ द्वादश्यां भोजनं चैव विद्धायां हर्युपोषणम् । यः कुर्यान्मन्दबुदि्धत्वान्निरयं सोधिगच्छति ॥ १४९ ॥ यानि कानि च वाक्यानि विद्धोपोषपराणि च । धनदार्चापराणि स्युर्वैष्णवी न दशायुता ॥ १५० ॥ अथवा मोहनार्थाय मोहिन्या भगवान् हरिः । अर्थितः कारयामास व्यासरूपी जनार्दनः ॥ १५१ ॥ धनदार्चाविवृध्द्यर्थं महावित्तलयस्य च । असुराणां मोहनार्थं पाषण्डानां विवृद्धये । आत्मस्वरूपाविज्ञप्त्यै स्वलोकाप्राप्तये तथा ॥ १५२ ॥ एवं विद्धां परित्यज्य द्वादश्यामुपवासयेत् । कोटिजन्मार्जितं पापमेकयैव विनश्यति ॥ १५३ ॥ ततः कोटिगुणं चापि निषिद्धस्येतरैर्जनैः । यदनादिकृतं पापं यदूर्ध्वं यत्करिष्यति ॥ १५४ ॥ तत्सर्वं विलयं याति परेषामुपवासनात् । न च तस्मात्प्रियतमः केशवस्य ममापि च ॥ १५५ ॥ एकादश्यां ह्यवेधे तु द्वादशीं न परित्यजेत् । पारणे मरणे चैव तिथिस्तात्कालिकी स्मृता ॥ १५६ ॥ ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो भर्तृमती तथा ॥ १५७ ॥ अभर्तृका तथान्ये च सूतवैदेहिकादयः । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥ १५८ ॥ एकादश्यां तु यो भुङ्क्ते मोहेनावृतचेतसा । शुक्लायामथ कृष्णायां निरयं याति स ध्रुवम् ॥ १५९ ॥ विवेचयति यो मोहाच्छुक्ला कृष्णेति पापकृत् । एकादशीं स वै याति निरयं नात्र संशयः ॥ १६० ॥ यथा गौर्नैव हन्तव्या शुक्ला कृष्णेति भामिनि । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥ १६१ ॥ यानि कानि च वाक्यानि कृष्णैकादशिवर्जने । भरण्यादिनिषेधे च तानि काम्यफलार्थिनाम् ॥ १६२ ॥ कामिनोपि हि सिद्ध्यर्थं कुर्युरेवोपवासनम् । प्रीणनाय हरेर्नित्यं न तु काम्यव्यपेक्षया ॥ १६३ ॥ तस्माच्छुक्लामथो कृष्णां भरण्यादियुतामपि । प्रत्यवायनिषेधार्थमुपवासीत नित्यशः । प्रीणनार्थं हरेश्चापि विष्णुलोकस्य चाप्तये ॥ १६४ ॥ कला वार्धकला वापि परतो द्वादशी यदि । द्वादश द्वादशीर्हन्ति पूर्वेद्युः पारणे कृते ॥ १६५ ॥ अतिरिक्ता द्वादशी चेद्यस्तां नोपोषयेद्यदि । द्वादश द्वादशीर्हन्ति द्वादशी चातिलङ्घिता ॥ १६६ ॥ द्वादश्यामतिरिक्तायां यो भुङ्क्ते पूर्ववासरे । द्वादश द्वादशीर्हन्ति द्वादशीं न परित्यजेत् ॥ १६७ ॥ द्वादशीं श्रवणोपेतां यो नोपोष्यात् सुमन्दधीः । पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति ॥ १६८ ॥ एकादशीमुपोष्याथ द्वादशीमप्युपोषयेत् । न तत्र विधिलोपः स्यादुभयोर्देवता हरिः ॥ १६९ ॥ अल्पायामपि विप्रेन्द्र पारणं तु कथं भवेत् । पारयित्वोदकेनापि भुञ्जानो नैव दुष्यति ॥ १७० ॥ यदाल्पां द्वादशीं दृष्ट्वा निशीथादूर्ध्वमेव तु । आमध्याह्नाः क्रियाः सर्वाः कर्तव्याः शम्भुशासनात् ॥१७१ ॥ व्यासः उषसि द्वे तु कर्तव्ये प्रातर्माध्याह्निकक्रिये । भुजेर्यदापकर्षस्य तदन्तर्न्यायतो भवेत्॥ १७२ ॥ कर्तुं साध्यं यदा नालं द्वादश्यदि्भस्तु पारयेत् । क्रतावल्पाशिवत् पश्चात् भुञ्जीतेत्यपरे जगुः ॥ १७३ ॥ अशितानशिता यस्मादापो विद्वदि्भरीरिताः । अम्भसा केवलेनैव करिष्ये व्रतपारणम् ॥ १७४ ॥ न काशी न गया गङ्गा न रेवा न च पुष्करम् । न चापि कौरवं क्षेत्रं तुल्यं भूप हरेर्दिनात् ॥ १७५ ॥ अश्वमेधसहस्राणि वाजपेयायुतानि च । एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥ १७६ ॥ एकादशीसमुत्थेन वह्निना पातकेन्धनम् । भस्मीभवति राजेन्द्र अपि जन्मशतोद्भवम् ॥ १७७ ॥ नेदृशं पावनं किञ्चिन्नराणां भुवि विद्यते । यादृशं पद्मनाभस्य दिनं पातकहानिदम् ॥ १७८ ॥ तावत्पापानि देहेस्मिन् तिष्ठन्ति मनुजाधिप । यावन्नोपोषयेज्जन्तुः पद्मनाभदिनं शुभम् ॥ १७९ ॥ एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो । एकादश्युपावासेन तत्सर्वं विलयं व्रजेत् ॥ १८० ॥ एकादशीसमं किञ्चित् पवित्रं न हि विद्यते । व्याजेनापि कृता राजन्न दर्शयति भास्करिम् ॥ १८१ ॥ श्रीव्यासः अन्नं निवेदयेन्मह्यं प्राप्तं मद्वासरे शुभे । तस्यापि नरकप्राप्तिः किं पुनर्भोजने कृते ॥ १८२ ॥ स ब्रह्महा स गोघ्नश्च स स्तेनो गुरुतल्पगः । एकादश्यां तु भुञ्जानः पक्षयोरुभयोरपि ॥ १८३ ॥ वरं स्वमातृगमनं वरं गोमांसभक्षणम् । वरं हत्या सुरापानमेकाश्यन्नभक्षणात् ॥ १८४ ॥ एकादशीदिने पुण्ये भुञ्जते ये नराधमाः । अवलोक्य मुखं तेषामादित्यमवलोकयेत् ॥ १८५ ॥ पृथिव्यां यानि पापानि ब्रह्महत्यादिकानि च । अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे ॥ १८६ ॥ रुग्माङ्गदः — अष्टवर्षाधिको यस्तु ह्यशीतिर्न हि पूर्यते । यो भुङ्क्ते मानवः पापी विष्णोरहनि चागते ॥ १८७ ॥ पिता वा यदि वा पुत्रो भार्या वापि सुहृज्जनः । पद्मनाभदिने भुङ्क्ते निग्राह्यो दस्युवद्भवेत् ॥ १८८ ॥ ब्रह्मा उपोष्य द्वादशीं पुण्यां सर्वपापक्षयप्रदाम् । न पश्यन्ति यमं वापि नरकाणि न यातनाम् ॥ १८९ ॥ शङ्करः रटन्तीह पुराणानि भूयो भूयो वरानने । न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ॥ १९० ॥ द्वादशी न प्रमोक्तव्या यावदायुः प्रवर्तते । अर्चनीयो हृषीकेशो विशुद्धेनान्तरात्मना॥ १९१ ॥ भक्त्या ग्राह्यो हृषीकेशो न धनैर्धरणीसुराः । भक्त्या सम्पूजितो विष्णुः फलं धत्ते समीहितम् ॥ १९२ ॥ जलेनापि जगन्नाथः पूजितः क्लेशनाशनः । परितोषं प्रयात्याशु तृषार्तास्तु यथा जलैः॥ १९३ ॥ आसीनस्य शयानस्य तिष्ठतो ब्रजतोपि वा । रमस्व पुण्डरीकाक्ष हृदये मम सर्वदा ॥ १९४ ॥ सर्वगश्चैव सर्वात्मा सर्वावस्थासु चाच्युत । रमस्व पुण्डरीकाक्ष नृसिंह हृदये मम ॥ १९५ ॥ करावलम्बनं देहि श्रीकृष्ण कमलेक्षण । भवपङ्कार्णवे घोरे मज्जतो मम शाश्वत (सर्वदा) ॥ १९६ ॥ त्राहि त्राहि जगन्नाथ वासुदेवाच्युताव्यय । मां समुद्धर गोविन्द दुःखसंसारसागरात् ॥ १९७ ॥ एतत्पुण्यं परं गुह्यं पवित्रं पापनाशनम् । आयुष्यं च यशस्यं च धन्यं दुःस्वप्ननाशनम् ॥ १९८ ॥ कलौ पापं कियन्मात्रं हत्यास्तेयादिसम्भवम् । स्मृते मनसि गोविन्दे दह्यते तूलराशिवत् ॥ १९९ ॥ कलौ केशवभक्तानां न भयं विद्यते क्वचित् । स्मृते सङ्कीर्तिते ध्याते सङ्क्षयं याति पातकम् ॥ २०० ॥ अध्येतव्यमिदं शास्त्रं श्रोतव्यमनसूयया । भक्तेभ्यश्च प्रदातव्यं धार्मिकेभ्यः पुनःपुनः ॥ २०१ ॥ अधीयाना इदं शास्त्रं विष्णोर्माहात्म्यमुत्तमम् । सर्वपापविनिर्मुक्ताः प्राप्नुवन्ति परं पदम् ॥ २०२ ॥ श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च गच्छति ॥ २०३ ॥ तस्मादिदं सदा सेव्यं श्रोतव्यं च सदैव हि । कुतर्कदावदग्धेभ्यो न दातव्यं कथञ्चन ॥ २०४ ॥ संसारविषपानेन ये मृताः प्राणिनो भुवि । अमृताय स्मृतस्तेषां कृष्णामृतमहार्णवः ॥ २०५ ॥ क्लिन्नं पादोदकेनैव यस्य नित्यं कलेवरम् । तीर्थकोटिसहस्रैस्तु स्नातो भवति प्रत्यहम् ॥ २०६ ॥ तीर्थकोटिसहस्रैस्तु सेवितैः किं प्रयोजनम् । तोयं यदि पिबेन्नित्यं शालग्रामशिलाच्युतम् ॥ २०७ ॥ शालग्रामशिलास्पर्शं ये कुर्वन्ति दिनेदिने । वाञ्छन्ति करसंस्पर्शं तेषां देवाः सवासवाः ॥ २०८ ॥ दुःसहो नारको वह्निर्दुःसहा यमकिङ्कराः । विषमश्चान्तकपथः प्रेतत्वं चातिदारुणम् ॥ २०९ ॥ सञ्चित्य मनसाप्येवं पातकाद्विनिवर्तयेत् । स्मरणं कीर्तनं विष्णोः सदैव न परित्यजेत् ॥ २१० ॥ अच्युतानन्तगोविन्दनामोच्चारणभेषजात् । नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ २११ ॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । वेदशास्त्रात्परं नास्ति न दैवं केशवात् परम् ॥ २१२ ॥ सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ २१३ ॥ एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः । कीर्तयन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम् ॥ २१४ ॥ किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः । यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ २१५ ॥ नित्योत्सवो भवत्तेषां नित्यश्रीर्नित्यमङ्गलम् । येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥ २१६ ॥ जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु । स्त्री वाप्यनूनदशकं देहं मानुषमार्जयेत् ॥ २१७ ॥ चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः । अतोवित्वा परं देवं मोक्षाशा का महामुने ॥ २१८ ॥ आचतुदर्शमाद्वर्षात् कर्माणि नियमेन तु । दशावराणां देहानां कारणानि करोत्ययम् । अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति ॥ २१९ ॥ समानां विषमा पूजा विषमाणां समा तथा । क्रियते येन देवोपि स्वपदाद्भ्रश्यते हि सः ॥ २२० ॥ (इति पाद्मे) वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी । एतानि मान्यस्थानानि गरीयो ह्युत्तरोत्तरम् ॥ २२१ ॥ गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः । सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति ॥ २२२ ॥ यथा सुहृत्सु कर्तव्यं पितृमातृसुतेषु च । तथा करोति पूजादि समबुदि्धः स उच्यते ॥ २२३ ॥ तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेपि वा । न चान्यन्नाम विब्रूयात् परान्नारायणादृते ॥ २२४ ॥ नैवेद्यशेषं देवस्य यो भुनक्ति दिने दिने । सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम् ॥ २२५ ॥ ऊर्ध्वपुण्ड्रमृजुं सौम्यं ललाटे यस्य दृश्यते । स चण्डालोपि शुद्धात्मा पूज्य एव न संशयः ॥ २२६ ॥ अशुचिर्वाप्यनाचारो मनसा पापमाचरन् । शुचिरेव भवेन्नित्यमूर्ध्वपुण्ड्राङ्कितो नरः ॥ २२७ ॥ ऊर्ध्वपुण्ड्रविहीनस्य श्मशानसदृशं मुखम् । अवलोक्य मुखं तेषामादित्यमवलोकयेत् ॥ २२८ ॥ यज्ञो दानं तपश्चैव स्वाध्यायः पितृतर्पणम् । व्यर्थं भवति तत्सर्वमूर्ध्वपुण्ड्रं विना कृतम् ॥ २२९ ॥ गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा । तं तं शुद्धं विजानीयान्नात्र कार्या विचारणा ॥ २३० ॥ आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः । वैष्णवोस्मत्कुले जातः स नः सन्तारयिष्यति॥ २३१ ॥ जीवितं विष्णुभक्तस्य वरं पञ्चदिनान्यपि । न तु कल्पसहस्रैस्तु भक्तिहीनस्य केशवे ॥ २३२ ॥ किं तेन जातमात्रेण भूभारेणान्नशत्रुणा । यो जातो नार्चयेद्विष्णुं न स्मरेन्नापि कीर्तयेत् ॥ २३३ ॥ यो ददाति द्विजातिभ्यश्चन्दनं गोपिमर्दितम् । अपि सर्षपमात्रेण पुनात्यासप्तमं कुलम् ॥ २३४ ॥ ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत ॥ २३५ ॥ अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः । एतादृशोपि नाचारं श्रौतं स्मार्तं परित्यजेत् ॥ २३६ ॥ यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति ॥ २३७ ॥ कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे ॥ २३८ ॥ आचारश्चैव साधूनामात्मनस्तुष्टिरेव च । वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ॥ २३९ ॥ निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥ २४० ॥ श्रीमदानन्दतीर्थार्यसहस्रकिरणोत्थिता । गोततिः सततं सेव्या गीर्वाणैः सिदि्धदा भवेत् ॥ २४१ ॥ यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलंब तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ २४२ ॥ यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः । प्रीयतां प्रीत एवालं विष्णुर्मे परमः सुहृत् ॥ २४३ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीकृष्णामृतमहार्णवः समाप्तः ॥ -------------------------------------------------------------- FOOTNOTES -------------------------------------------------------------- Shloka 55: Also quoted by Shri Vedaanta Deshika, in Rahasyatraya Saara, Chapter 24 Shloka 65: Also quoted by Shri Vedaanta Deshika, in Rahasyatraya Saara, Chapter 26 Shloka 67: Also quoted by Shri Vedaanta Deshika, in Rahasyatraya Saara, Chapter 26 Shloka 226: Also quoted by Shri Aparaaka, in his Yaajnavalkya Smrti bhaashya; Shri Vidyaranya in Paraashara Maadhaveeya *********************************************************************** This document has been provided by Achyuta Bhakti Deets. Visit https://bhaktideets.org or https://elib.bhaktideets.org for more Shaastra related content. © Copyrights 2022-24 Achyuta Bhakti Deets श्री हरये नमः । श्रीकृष्णार्पणमस्तु ॥