श्री नारायणाय नमः । ===================================================== Filename : DvaadashaStotras.txt Name of the Text: Dvaadasha Stotras Category : Stuti Details : Language/Script : Samskrta (Devanaagari) Author : Shri Madhvaachaarya Published on : 10 August 2024 Last updated on : - © Copyrights 2022-24 Achyuta Bhakti Deets ===================================================== Dvaadasha Stotras ॥ द्वादश स्तोत्राणि ॥ अथ प्रथमस्तोत्रम् (श्रीस्तुतिः) विश्वस्थितिप्रळयसर्गमहाविभूति वृत्तिप्रकाशनियमावृति बन्धमोक्षाः । यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ १ ॥ ब्रह्मेशशक्ररविधर्मशशाङ्कपूर्व गीर्वाणसन्ततिरियं यदपाङ्गलेशम् । आश्रित्य विश्वविजयं विसृजत्यचिन्त्या श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ २ ॥ धर्मार्थकामसुमतिप्रचयाद्यशेषसन्मङ्गलं विदधते यदपाङ्गलेशम् । आश्रित्य तत्प्रणतसत्प्रणता अपीड्या श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ३ ॥ षड्वर्गनिग्रहनिरस्तसमस्तदोषा ध्यायन्ति विष्णुमृषयो यदपाङ्गलेशम् । आश्रित्य यानपि समेत्य न याति दुःखं श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ४ ॥ शेषाहिवैरिशिवशक्रमनुप्रधान चित्रोरुकर्मरचनं यदपाङ्गलेशम् । आश्रित्य विश्वमखिलं विदधाति धाता श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ५ ॥ शक्रोग्रदीधितिहिमाकरसूर्यसूनु पूर्वं निहत्य निखिलं यदपाङ्गलेशम् । आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ ६ ॥ तत्पादपङ्कजमहासनतामवाप शर्वादिवन्द्यचरणो यदपाङ्गलेशम् । आश्रित्य नागपतिः अन्यसुरैर्दुरापां श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ ७ ॥ नागारिरुग्रबलपौरुष आप विष्णुवाहत्वमुत्तमजवो यदपाङ्गलेशम् । आश्रित्य शक्रमुखदेवगणैः अचिन्त्यं श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ ८ ॥ आनन्दतीर्थमुनिसन्मुखपंकजोत्थं साक्षाद्रमाहरिमनः प्रियं उत्तमार्थम् । भक्त्या पठति अजितमात्मनि सन्निधाय यः स्तोत्रमेतभियाति तयोरभीष्टम् ॥ ९ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यकृता श्रीस्तुतिः समाप्ता ॥ ===================================================== अथ द्वितीयस्तोत्रम् वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् । इन्दिरापतिमाद्यादि वरदेश वरप्रदम् ॥ १ ॥ नमामि निखिलाधीश किरीटाघृष्टपीठवत् । हृत्तमः शमनेऽर्काभं श्रीपतेः पादपङ्कजम् ॥ २ ॥ जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः । स्वर्णमञ्जीरसंवीतं आरूढं जगदम्बया ॥ ३ ॥ उदरं चिन्त्यं ईशस्य तनुत्वेऽपि अखिलम्भरम् । वलित्रयाङ्कितं नित्यं आरूढं श्रियैकया ॥ ४ ॥ स्मरणीयमुरो विष्णोरिन्दिरावासमुत्तमैः । अनन्तं अन्तवदिव भुजयोरन्तरङ्गतम् ॥ ५ ॥ शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः । पीनवृत्ता जगद्रक्षा केवलोद्योगिनोऽनिशम् ॥ ६ ॥ सन्ततं चिन्तयेत्कण्ठं भास्वत्कौस्तुभभासकम् । वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः ॥ ७ ॥ स्मरेत यामिनीनाथ सहस्रामितकान्तिमत् । भवतापापनोदीड्यं श्रीपतेः मुखपङ्कजम् ॥ ८ ॥ पूर्णानन्यसुखोद्भासिं अन्दस्मितमधीशितुः । गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥ ९ ॥ स्मरामि भवसन्ताप हानिदामृतसागरम् । पूर्णानन्दस्य रामस्य सानुरागावलोकनम् ॥ १० ॥ ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् । भ्रूभङ्गं पारमेष्ठ्यादि पददायि विमुक्तिदम् ॥ ११ ॥ सन्ततं चिन्तयेऽनन्तमन्तकाले विशेषतः । नैवोदापुः गृणन्तोऽन्तं यद्गुणानां अजादयः ॥ १२ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु द्वितीयस्तोत्रं सम्पूर्णम् ॥ ===================================================== अथ तृतीयस्तोत्रम् शङ्खचक्रगदापद्मशार्ङ्गखड्गधरं सदा । नमामि पितरं नित्य वासुदेवं जगत् पतिम् ॥ १ ॥ सच्चिदानन्दरूपं तमनामयमनन्तरम् । एकमेकान्तमभयं विष्णुं विश्वहृदि स्थितम् ॥ २ ॥ नानास्वभावमत्यन्तस्वभावेन विचारितम् । अविशेषमनाद्यन्तं प्रणमामि सनातनम् ॥ ३ ॥ कुन्देन्दुसन्निभं वन्दे सुधारसनिभं विभुम् । ज्ञानमुद्रापुस्तकारिशङ्खाक्षायुधधारिणम् ॥ ४ ॥ आनन्दमजरं नित्यमात्मेशममितद्युतिम् । वन्दे विश्वस्य पितरं विष्णुं विश्वेश्वरं सदा ॥ ५ ॥ अमन्दानन्दसन्दोहसन्तोषितजगत्रयम् । नारायणमणीयांसं वन्दे देवं सदातनम् ॥ ६ ॥ सूर्यमण्डलमद्ध्यस्थं वराभयकरोद्यतम् । सूर्यामितद्युतिं वन्दे नारायणमनामयम् ॥ ७ ॥ विश्वं विश्वाकरं वन्दे विश्वस्य प्रपितामहम् । नानारूपमजं नित्यं विश्वात्मानं प्रजापतिम् ॥ ८ ॥ कालाकालविचारादिप्रकालितसदातनम् । पुरुषं प्रकृतिस्थं च वन्दे विष्णुमजोत्तमम् ॥ ९ ॥ ब्रह्मणः पितरं वन्दे शङ्करस्य पितामहम् । श्रियः पतिमजं नित्यमिन्द्रादिप्रपितामहम् ॥ १० ॥ प्रतिप्रति स्थितं विष्णुं नित्यामृतमनामयम् । शङ्कचक्रधरं वन्दे वराभयकरोद्यतम् ॥ ११ ॥ प्रतापप्रविशेषेण दूरीकृतविदूषणम् । विदारितारिमत्यन्तप्रसन्नं प्रणमाम्यहम् ॥ १२ ॥ अप्रमेयमजं नित्यं विशालममृतं परम् । कृतनित्यालयं लोके नमस्यामि जगत् पतिम् ॥ १३ ॥ सुनित्यसुखमक्षय्यं शुद्धं शान्तं निरञ्जनम् । लोकालोकविचाराढ्यं नमस्यामि श्रियःपतिम् ॥ १४ ॥ अमन्दानन्दसन्दोहसान्द्रमिन्द्रानुजं परम् । नित्यावदातमेकान्तं प्रमाणातीतमक्षयम् । लोकालोकपतिं दिव्यं नमस्यामि रमापतिम् ॥ १५ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं द्वादशस्तोत्रेषु तृतीयस्तोत्रम् सम्पूर्णम् ॥ ===================================================== अथ चतुर्थस्तोत्रम् (हरिस्तुतिः) कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम् । हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥ १ ॥ न ततोऽस्त्यपरं जगदीड्यतमं (जगतीड्यतमं) परमात्परतः पुरुषोत्तमतः । तदलं बहुलोकविचिन्तनया प्रवणं कुरु मानसमीशपदे ॥ २ ॥ यततोऽपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति । स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत्किमपाक्रियते ॥ ३ ॥ शृणुतामलसत्यवचः परमं शपथेरितं उच्छ्रितबाहुयुगम् । न हरेः परमो न हरेः सदृशः परमः स तु सर्व चिदात्मगणात् ॥ ४ ॥ यदि नाम परो न भवेत हरिः कथमस्य वशे जगदेतदभूत् । यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥ ५ ॥ न च कर्मविमामल कालगुणप्रभृतीशमचित्तनु तद्धि यतः । चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥ ६ ॥ व्यवहारभिदाऽपि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम् । बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत्स्वयमेव हरिः ॥ ७ ॥ चतुराननपूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा । नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥ ८ ॥ आनन्दतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा । कृतं हर्यष्टकं भक्त्या पठतः प्रीयते हरिः ॥ ९ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु चतुर्थस्तोत्रम् सम्पूर्णम् ॥ [हरिस्तुतिः समाप्ता ।] Shri Nrsimha Nakha Stuti ===================================================== अथ पञ्चमस्तोत्रम् (श्रीनृसिंहनखरस्तुतिः) ॐ ॥ रामोऽखिलानन्दतनुः स एव भीमोऽतिपापेषु दुरन्तवीर्यः । कामः स एवाजितकामिनीषु सोमः स एवाऽत्मपदाश्रितेषु ॥ पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटाकुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः । श्रीमत्कण्ठीरवास्यप्रततसुनखरा दारितारातिदूर प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता भूरिभागैः ॥ १ ॥ लक्ष्मीकान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः । यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुरत्खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यकृता श्रीनृसिंहनखरस्तुतिः समाप्ता ॥ ===================================================== अथ षष्ठस्तोत्रम् वन्दिताशेषवन्द्योरुवृन्दारकं चन्दनाचर्चितोदारपीनांसकम् । इन्दिराचञ्चलापाङ्गनीराजितं मन्दरोद्धारिवृत्तोद्भुजाभोगिनम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ १ ॥ सृष्टिसंहारलीलाविलासाततं पुष्टषाड्गुण्यसद्विग्रहोल्लासिनम् । दुष्टनिःशेषसंहारकर्मोद्यतं हृष्टपुष्टातिशिष्ट (अनुशिष्ट) प्रजासंश्रयम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ २ ॥ उन्नतप्रार्थिताशेषसंसाधकं सन्नतालौकिकानन्ददश्रीपदम् । भिन्नकर्माशयप्राणिसम्प्रेरकं तन्न किं नेति विद्वत्सु मीमांसितम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ३ ॥ विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितीशेश्वरैश्चार्च्चितम् । अप्रतर्क्योरुसंविद्गुणं निर्मलं सप्रकाशाजरानन्दरूपं परम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ४ ॥ अत्ययो यस्य (येन) केनापि न क्वापि हि प्रत्ययो यद्गुणेषूत्तमानां परः । सत्यसङ्कल्प एको वरेण्यो वशी मत्यनूनैः सदा वेदवादोदितः । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ५ ॥ पश्यतां दुःखसन्ताननिर्मूलनं दृश्यतां दृश्यतामित्यजेशार्चितम् । नश्यतां दूरगं सर्वदाप्याऽत्मगं वश्यतां स्वेच्छया सज्जनेष्वागतम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ६ ॥ अग्रजं यः ससर्जाजमग्र्याकृतिं विग्रहो यस्य सर्वे गुणा एव हि । उग्र आद्योऽपि यस्यात्मजाग्र्यात्मजः सद्गृहीतः सदा यः परं दैवतम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ७ ॥ अच्युतो यो गुणैर्नित्यमेवाखिलैः प्रच्युतोऽशेषदोषैः सदा पूर्तितः । उच्यते सर्ववेदोरुवादैरजः स्वर्चितो ब्रह्मरुद्रेन्द्रपूर्वैः सदा । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ८ ॥ धार्यते येन विश्वं सदाजादिकं वार्यतेऽशेषदुःखं निजध्यायिनाम् । पार्यते सर्वमन्यैर्नयत्पार्यते कार्यते चाखिलं सर्वभूतैः सदा । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ९ ॥ सर्वपापानियत्संस्मृतेः सङ्क्षयं सर्वदा यान्ति भक्त्या विशुद्धात्मनाम् । शर्वगुर्वादिगीर्वाण संस्थानदः कुर्वते कर्म यत्प्रीतये सज्जनाः । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ १० ॥ अक्षयं कर्म यस्मिन् परे स्वर्पितं प्रक्षयं यान्ति दुःखानि यन्नामतः । अक्षरो योऽजरः सर्वदैवामृतः कुक्षिगं यस्य विश्वं सदाऽजादिकम् । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ ११ ॥ नन्दितीर्थोरुसन्नामिनो नन्दिनः सन्दधानाः सदानन्ददेवे मतिम् । मन्दहासारुणा पाङ्गदत्तोन्नतिं वन्दिताशेषदेवादिवृन्दं सदा । प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनं प्रीणयामो वासुदेवम् ॥ १२ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु षष्ठस्तोत्रम् सम्पूर्णम् ॥ ===================================================== अथ सप्तमस्तोत्रम् देवकिनन्दन नन्दकुमारा वृन्दावनाञ्चन गोकुलचन्द्र ॥ १ ॥ कन्दफलाशन सुन्दररूपा नन्दितगोकुल वन्दितपाद ॥ २ ॥ इन्द्रसुतावक नन्दकहस्ता चन्दनचर्च्चित सुन्दरिनाथ ॥ ३ ॥ इन्दीवरोदरदळनयनाऽऽ मन्दरधारा गोविन्द वन्दे ॥ ४ ॥ मत्स्यकरूप लयोदविहारिन् वेदविनेत्र चतुर्मुखवन्द्य ॥ ५ ॥ कूर्मस्वरूपक मन्दरधारिन् लोकविधारक देववरेण्य ॥ ६ ॥ सूकररूपक दानवशत्रो भूमिविधारक यज्ञावराङ्ग ॥ ७ ॥ देव नृसिंह हिरण्यकशत्रो सर्व भयान्तक दैवतबन्धो ॥ ८ ॥ वामन वामन माणववेष दैत्यवरान्तक कारणभूत ॥ ९ ॥ रामभृगूद्वह सूर्जितदीप्ते क्षत्रकुलान्तक शम्भुवरेण्य ॥ १० ॥ राघव राघव राक्षसशत्रो मारुतिवल्लभ जानकिकान्त ॥ ११ ॥ देवकिनन्दन सुन्दररूप रुक्मिणिवल्लभ पाण्डवबन्धो ॥ १२ ॥ दैत्यविमोहक नित्यसुखादे देवविबोधक बुद्धस्वरूप ॥ १३ ॥ दुष्टकुलान्तक कल्किस्वरूपा धर्मविवर्धन मूलयुगादे ॥ १४ ॥ आनन्दतीर्थकृता हरिगाथा पापहरा शुभनित्यसुखार्था ॥ १५ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु सप्तमस्तोत्रम् सम्पूर्णम् ॥ ===================================================== अथ अष्टमस्तोत्रं अतिमततमोगिरिसमितिविभेदन पितामहभूतिद गुणगणनिलय । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १ ॥ विधिभवमुखसुरसततसुवन्दितरमामनोवल्लभ भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ २ ॥ अगणितगुणगणमयशरीर हे विगतगुणेतर भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ३ ॥ अपरिमितसुखनिधिविमलसुदेह हे विगत सुखेतर भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ४ ॥ प्रचलितलयजलविहरण शाश्वतसुखमयमीन हे भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ५ ॥ सुरदितिजसुबलविलुळितमन्दरधर पर कूर्म हे भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ६ ॥ सगिरिवरधरातळवह सुसूकरपरमविबोध हे भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ७ ॥ अतिबलदितिसुत हृदय विभेदन जयनृहरेऽमल भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ८ ॥ बलिमुखदितिसुतविजयविनाशन जगदवनाजित भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ९ ॥ अविजितकुनृपतिसमितिविखण्डन रमावर वीरप भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १० ॥ खरतरनिशिचरदहन परामृत रघुवर मानद भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ ११ ॥ सुललिततनुवर वरद महाबल यदुवर पार्थप भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १२ ॥ दितिसुतविमोहन विमलविबोधन परगुणबुद्ध हे भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १३ ॥ कलिमलहुतवह सुभग महोत्सव शरणद कल्कीश भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १४ ॥ अखिलजनिविलय परसुखकारण परपुरुषोत्तम भव मम शरणम् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १५ ॥ इति तव नुतिवरसततरतेर्भव सुशरणमुरुसुखतीर्थमुनेः भगवन् । शुभतम कथाशय परमसदोदित जगदेककारण रामरमारमण ॥ १६ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु अष्टमस्तोत्रं सम्पूर्णम् ॥ ===================================================== अथ नवमस्तोत्रम् केशव केशव शासक वन्दे पाशधरार्चित शूरपरेश । नारायणामलतारण वन्दे कारणकारण पूर्ण वरेण्य ॥ १ ॥ माधव माधव शोधक वन्दे बाधक बोधक शुद्धसमाधे । गोविन्द गोविन्द पुरन्दर वन्दे स्कन्दसनन्दनवन्दितपाद ॥ २ ॥ विष्णु सृजिष्णु ग्रसिष्णो विवन्दे कृष्ण सदुष्णवधिष्णो सुधृष्णो । मधुसूदन दानवसादन वन्दे दैवतमोदन वेदितपाद ॥ ३ ॥ त्रिविक्रम निष्क्रम विक्रम वन्दे सुक्रम सङ्क्रमहुङ्कृतवक्त्र । वामन वामन भामन वन्दे सामन सीमन शामन सानो ॥ ४ ॥ श्रीधर श्रीधर शन्धर वन्दे भूर्द्धर वार्द्धर कन्धरधारिन् । हृषीकेश सुकेश परेश विवन्दे शरणेश कलेश बलेश सुखेश ॥ ५ ॥ पद्मनाभ शुभोद्भव वन्दे सम्भृतलोकभराभर भूरे । दामोदर दूरतरान्तर वन्दे दारितपारक पार परस्मात् ॥ ६ ॥ आनन्दसुतीर्थ मुनीन्द्रकृता हरिगीतिरियं परमादरतः । परलोकविलोकन सूर्यनिभा हरिभक्ति विवर्धन शौण्डतमा ॥ ७ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु नवमस्तोत्रं सम्पूर्णम् ॥ ===================================================== अथ दशमस्तोत्रम् अवन श्रीपतिरप्रतिरधिकेशादिभवादे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १ ॥ सुरवन्द्याधिप सद्वरभरिताशेषगुणालम् । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ २ ॥ सकलध्वान्तविनाशन (विनाशक) परमानन्दसुधाहो । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ३ ॥ त्रिजगत्पोत सदार्चितचरणाशापतिधातो । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ४ ॥ त्रिगुणातीतविधारक परितो देहि सुभक्तिम् । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ५ ॥ शरणं कारणभावन भव मे तात सदाऽलम् । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ६ ॥ मरणप्राणद पालक जगदीशाव सुभक्तिम् । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ७ ॥ तरुणादित्यसवर्णकचरणाब्जामल कीर्ते । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ८ ॥ सलिलप्रोत्थसरागकमणिवर्णोच्चनखादे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ९ ॥ कजतूणीनिभपावनवरजङ्घामितशक्ते । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १० ॥ इबहस्तप्रभशोभनपरमोरुस्थरमाळे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ ११ ॥ असनोत्फुल्लसुपुष्पकसमवर्णावरणान्ते । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १२ ॥ शतमोदोद्भवसुन्दरिवरपद्मोत्थितनाभे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १३ ॥ जगदागूहकपल्लवसमकुक्षे शरणादे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १४ ॥ जगदम्बामलसुन्दरिगृहवक्षोवर योगिन् । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १५ ॥ दितिजान्तप्रद चक्रधरगदायुग्वरबाहो । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १६ ॥ परमज्ञानमहानिधिवदन श्रीरमणेन्दो । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १७ ॥ निखिलाघौघविनाशन (विनाशक) परसौख्यप्रददृष्टे । करुणापूर्णवरप्रदचरितं ज्ञापय मे ते ॥ १८ ॥ परमानन्दसुतीर्थसुमुनिराजो हरिगाथाम् । कृतवान्नित्यसुपूर्णकपरमानन्दपदैषिन् ॥ १९ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु दशमस्तोत्रं सम्पूर्णम् ॥ ===================================================== अथ एकादशस्तोत्रम् उदीर्णमजरं दिव्यं अमृतस्यन्द्यधीशितुः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ १ ॥ सर्ववेदपदोद्गीतमिन्दिराधारमुत्तमम् । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ २ ॥ सर्वदेवादिदेवस्य विदारितमहत्तमः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ३ ॥ उदारमादरान्नित्यं अनिन्द्यं सुन्दरीपतेः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ४ ॥ इन्दीवरोदरनिभं सुपूर्णं वादिमोहनम् । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ५ ॥ दातृसर्वामरैश्वर्यविमुक्त्यादेरहो वरम् । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ६ ॥ दूराद्दुरतरं यत्तु तदेवान्तिकमन्तिकात् । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ७ ॥ पूर्णसर्वगुणैकार्णमनाद्यन्तं सुरेशितुः । आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ ८ ॥ आनन्दतीर्थमुनिना हरेरानन्दरूपिणः । कृतं स्तोत्रमिदं पुण्यं पठन्नानन्दमाप्नुयात् ॥ ९ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं द्वादशस्तोत्रेषु एकादशस्तोत्रं सम्पूर्णम् ॥ ===================================================== अथ द्वादशस्तोत्रम् आनन्दमुकुन्द अरविन्दनयन । आनन्दतीर्थपरानन्दवरद ॥ १ ॥ सुन्दरीमन्दिरगोविन्द वन्दे । आनन्दतीर्थपरानन्दवरद ॥ २ ॥ चन्द्रकमन्दिरनन्दक वन्दे । आनन्दतीर्थपरानन्दवरद ॥ ३ ॥ चन्द्रसुरेन्द्रसुवन्दित वन्दे । आनन्दतीर्थपरानन्दवरद ॥ ४ ॥ वृन्दारवृन्दसुवन्दित वन्दे । आनन्दतीर्थपरानन्दवरद ॥ ५ ॥ मन्दिरस्यन्दनस्यन्दक वन्दे । आनन्दतीर्थपरानन्दवरद ॥ ६ ॥ इन्दिराऽनन्दक सुन्दर वन्दे । आनन्दतीर्थपरानन्दवरद ॥ ७ ॥ मन्दारस्यन्दितमन्दिर वन्दे । आनन्दतीर्थपरानन्दवरद ॥ ८ ॥ आनन्दचन्द्रिकास्यन्दक वन्दे । आनन्दतीर्थपरानन्दवरद ॥ ९ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु द्वादशं स्तोत्रंसम्पूर्णम् ॥ ॥ श्रीभारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥ ************************************************************** This document has been provided by Achyuta Bhakti Deets. Visit https://bhaktideets.org or https://elib.bhaktideets.org for more Shaastra related content. © Copyrights 2022-24 Achyuta Bhakti Deets श्री हरये नमः । श्रीकृष्णार्पणमस्तु ॥