श्री नारायणाय नमः । ===================================================== Filename : ShriMahaLakshmiStuti.txt Name of the Text: Shri Maha Lakshmi Stuti Category : Shaastra/Stuti (Vishnu Puraana, Amsha 1, Adhyaaya 9, Shlokas 116-131) Details : Language/Script : Samskrta (Devanaagari) Author : Shri Krshna Dvaipaayana Vyaasa Deva/Indra Deva Published on : 1 May 2024 Last updated on : - © Copyrights 2022-24 Achyuta Bhakti Deets ===================================================== Shri Maha Lakshmi Stuti नमस्ते सर्व्वभूतांनां जननीमब्जसम्भवाम् । श्रियमुन्निद्रपह्माक्षी विष्णोर्वक्षः स्थलस्थिताम् ॥ ११६ ॥ त्वं सिद्धिस्त्वं सुधा स्वाहा स्वधा त्वं लोकपावनि । सन्धाय रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ११७ ॥ यज्ञविद्या महाविद्या गुह्मविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ ११८ ॥ आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च । सौम्यासौम्यैर्ज्जगद्रूपैस्त्वयैतद्देवि वि पूरितम् ॥ ११९ ॥ का त्वन्या त्वामृते देवि सर्व्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥ १२० ॥ त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत् त्वयेदानीं समेधितम् ॥ १२१ ॥ दाराः पुत्रास्तथागारं सुहृद्धान्यधनादिकम् । भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥ १२२ ॥ शरीरारोग्यमैश्वर्य्यमरिपक्षक्षयः सुखम् । देवि त्वदूदृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ १२३ ॥ त्वं माता सर्व्वभूतानां देवदवो हरिः पिता । त्वयैतद्विष्णुना चाद्य जगद् व्याप्तं चराचरम् ॥ १२४ ॥ मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् । मा शरीरं कलत्रञ्च त्यजेथाः सर्व्वपावनि ॥ १२५ ॥ मा पुत्रान् मा सुहृद्वर्गं मा पशून् मा विभूषणम् । त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये ॥ १२६ ॥ सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः । त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयामले ॥ १२७ ॥ त्वयावलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः । कुलैश्वर्य्यश्च मुह्मन्ते पुरुषा निर्गुणा अपि ॥ १२८ ॥ स श्लाध्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥ १२९ ॥ सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । पराङ्मुखी जगद्धात्रि यस्य त्वं विष्णुवल्लभे ॥ १३० ॥ न ते वर्णायितुं शक्ता गुणान् जिह्वापि वेधसः । प्रसीद देवि पह्माक्षि मास्मांस्त्याक्षीः कदाचन ॥ १३१ ॥ *********************************************************************** This document has been provided by Achyuta Bhakti Deets. Visit https://bhaktideets.org or https://elib.bhaktideets.org for more Shaastra related content. © Copyrights 2022-24 Achyuta Bhakti Deets श्री हरये नमः । श्रीकृष्णार्पणमस्तु ॥