श्री नारायणाय नमः । ===================================================== Filename : ShriVishnuPuraana-Amsha6.txt Name of the Text: Shri Vishnu Puraana - Amsha 6 Category : Shaastra (Puraana) Details : Language/Script : Samskrta (Devanaagari) Author : Shri Krshna Dvaipaayana Vyaasa Deva Published on : 1 March 2025 Last updated on : - © Copyrights 2022-25 Achyuta Bhakti Deets ===================================================== Shri Vishnu Puraana - Amsha 6 श्रीविष्णुपुराणम् - अंश ६ -------------------------------------------------------------- षष्टांशः (AMSHA 6) -------------------------------------------------------------- अध्यायः १ (Adhyaaya 1) ===================================================== श्रीमैत्रेय उवाच व्याख्याता भवता सर्गवंशमन्वन्तरस्थितः । वंशानुचरितञ्चवै विस्तरेण महामुने ॥ १ ॥ श्रोतुमिच्छाम्यहं त्वत्तो यथावदुपसंहृतिम् । महाप्रलयसंस्थानं कल्पान्ते च महामुने ॥ २ ॥ श्रीपराशर उवाच मैत्रेय श्रुयतां मत्तो यथावदुपसंहृतिः । कल्पान्ते प्राकृते चैव प्रलयो जायते यथा ॥ ३ ॥ अहोरात्रं पितृणान्तु मासोऽब्दस्त्रिदिवौकसाम । चतुर्युगसहस्रे तु ब्रह्मणो द्वे द्विजोत्तम ॥ ४ ॥ कृतं त्रेता द्वापरश्च कलिश्चैव चतुर्युगम् । दिव्यैर्वर्षसहस्रैस्तु तद्द्वादशभिरुच्यते ॥ ५ ॥ चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः । आद्य कृतयुगं मुक्त्वा मैत्रेयान्ते तथा कलिम् ॥ ६ ॥ आद्ये कृतयुगो सर्गा ब्रह्मणा क्रियते यतः क्रियते चोपसंहारस्तथान्ते च कलौ युगे ॥ ७ ॥ श्रीमैत्रेय उवाच कलेः स्वरूपं भगवन् विस्तराद्वक्तुमर्हसि । धर्म्मश्चतुष्पाद्भगवन् यस्मिन्विप्लवमृच्छति ॥ ८ ॥ श्रीपराशर उवाच कलेः स्वरूपं मैत्रेय यद्भवान् प्रष्टुमिच्छति । तन्निबोध समासन्नं वर्त्तते यन्महामुने ॥ ९ ॥ वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् । नसामऋग्यजुर्वेदविनिष्पादनहेतुका ॥ १० ॥ विवाहा न कलौ धर्म्म्या न शिष्यगुरुसंस्थितिः । न दाम्पत्यक्रमो नैव वह्निदैवात्मकः क्रमः ॥ ११ ॥ यत्र तत्र कुले जातो बली सर्व्वेस्वरः कलौ । सर्व्वेभ्य एव वर्णेभ्यो योग्यः कन्यावरोधने ॥ १२ ॥ येन कैनैव योगेन द्विजातिर्दीक्षितः कलौ । यैव सैव च मैत्रेय प्रायश्चित्तक्रिया कलौ ॥ १३ ॥ सर्व्वमेव कलौ शास्त्रं यस्य यद्वचनं द्विज । देवाताश्च कलौ सर्व्वाः सर्व्वः सर्व्वस्य चाश्रमः ॥ १४ ॥ उपवासस्तथायासो वित्तोत्सर्गस्तथा कलौ । धर्म्मो यथाभिरुचितैरनुष्ठानैरनुष्ठितः ॥ १५ ॥ वित्तेन भविता पुंसां स्वल्पेनाढ्यमदः कलौ । स्त्रीणां रूपमदश्चैव केशैरेव भविष्यति ॥ १६ ॥ सुवर्णमणिरत्नादौ वस्त्रे चापि क्षयं गते । कलौ स्त्रियो भविष्यन्ति तदा केशैरलङ्कृताः ॥ १७ ॥ परित्यक्षन्ति भर्त्तारं वित्तहीनं तथा स्त्रियः । भर्त्ता भविष्यति कलौ वित्तवानेव योषिताम् ॥ १८ ॥ योयो ददाति बहुलं सस स्वामी तदा नृणाम् । स्वामित्वहेतुः सम्बन्ध भावी नाभिजनस्तदा ॥ १९ ॥ गृहान्ता द्रव्यसङ्घाता द्रव्यान्ता च तथा मतिः । अर्थाश्चात्मोपभोगान्ता भविष्यन्ति कलौ युगे ॥ २० ॥ स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः । अन्यायावाप्तवित्तेषु पुरुषाश्च स्पृहालवः ॥ २१ ॥ अभ्यर्थितोऽपि सुहृदा स्वार्थहानिं न मानवः । पणार्द्धार्द्धार्द्धमात्रेऽपि करिष्यति तदा द्विज ॥ २२ ॥ समानं पौरुषञ्चतो भावि विप्रेषु वै कलौ । क्षीरप्रदानसम्बन्धि भावि गोषु च गौरवम् ॥ २३ ॥ अनावृष्टिभयप्रायाः प्रजाः क्षुद्भयकातराः । भविष्यन्ति तदा सर्व्वा गगनासक्तदृष्टयः ॥ २४ ॥ कन्दपर्णफलाहारास्तापसा इव मानवाः । आत्मानं पातयिष्यन्ति तदा वृष्ट्यादिदुःखिताः ॥ २५ ॥ दुर्भिक्षमेव सततं तदा क्लेशमनीश्वराः । प्राप्स्यन्ति व्याहतसुखप्रमोदा मानवाः कलौ ॥ २६ ॥ अस्त्रानभोजिनो नाग्निदेवतातिथिपूजनम् । करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ २७ ॥ लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः । बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥ २८ ॥ उभाभ्यामेव पाणिभ्यां शिरः कण्डूयनं स्त्रियः । कुर्व्वन्त्यो गुरुभर्त्तृणामाज्ञां भेत्स्यन्त्यनादृताः ॥ २९ ॥ स्वपोषणपराः क्षुद्रा देहसंस्कारवर्ज्जिताः । परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ ३० ॥ दुःशीला दुष्टशीलेषु कुर्व्वन्त्यः सततं स्पृहाम् । असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ ३१ ॥ वेदादानं करिष्यन्ति वटवश्च तदाव्रताः । गृहस्थाश्च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥ ३२ ॥ वनावासा भविष्यन्ति ग्राम्याहारपरिग्रहाः । भिक्षवश्चाऽपि मित्रादिस्नेहसम्बन्धयन्त्रिताः ॥ ३३ ॥ अरक्षितारो हर्त्तारः शुल्कव्याजेन पार्थिवाः । हारिणो जनवित्तानां संप्राप्ते तु कलौ युगे ॥ ३४ ॥ यो योऽश्वरथनागाढ्यः स स राजा भविष्यति । यश्च यश्चाबलः सर्व्वः स स भृत्यः कलौ युगे ॥ ३५ ॥ वैश्याः कृषिवाणिज्यादि सन्त्यज्य निजकर्म्म यत् । शूद्रवृत्त्या प्रवत्स्यन्ति कारुकर्म्मोपजीविनः ॥ ३६ ॥ भैक्ष्यव्रतास्तथा शूद्रा प्रवज्यालिङ्गिनोऽधमाः । पाषण्डसंश्रयाः वृत्तिमाश्रयिष्यन्त्यसंस्कृताः ॥ ३७ ॥ दुर्भिक्षकरपीडाभिरतीवोपहता जनाः । गवेधुककदन्नाद्यान् देशान् यास्यन्ति दुःखिताः ॥ ३८ ॥ वेदमार्गे प्रलीने च पाषण्डाढ्ये ततो जने । अधर्म्मवृद्धया लोकानां स्वल्पमायुर्भविष्यति ॥ ३९ ॥ अशास्त्रविहित्तं घोरं तप्यमानेषु वै तपः । नरेषु नृपदोषेण बालमृत्युर्भविष्यति ॥ ४० ॥ भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी । नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥ ४१ ॥ पालितोद्भवश्च भविता तदा द्वादशवार्षिकः । नातिजीवति वै कश्चित् कलौ वर्षाणि विंशतिम् ॥ ४२ ॥ अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तः करणाः कलौ । यतस्ततो विनङ्क्ष्यन्ति कालेनाल्पेन मानवाः ॥ ४३ ॥ यदा यदा हि पाषणडवृद्धिर्मैत्रेय लक्ष्यते । तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ ४४ ॥ यदा यदा सतां हानिर्वेदमार्गानुसारिणाम् । प्रारम्भाश्चावसीदन्ति यदा धर्म्मभृतां नृणाम् । तदानुमेयं प्राधान्यं कलेर्मैत्रेय पण्डितैः ॥ ४५ ॥ यदा यदा न यज्ञानामीश्वरः पुरुषोत्तमः । इज्यते पुरुषैर्यज्ञैस्तदा ज्ञेयं कलेर्बलम् ॥ ४६ ॥ न प्रीतिर्वेदवादेषु पाषण्डेषु यदा रतिः । कलेर्वृद्धिस्तदा प्राज्ञैरनुमेया विचक्षणैः ॥ ४७ ॥ कलौ जगत्पतिं विष्णुं सर्व्वस्रष्टारमीश्वरम् । नार्च्चयिष्यन्ति मैत्रेय पाषणडोपहता नराः ॥ ४८ ॥ किं वेदैः किं द्विजैर्देवैः किं शौचेनाम्बुजन्मना । इत्येवं विप्र वक्ष्यन्ति पाषण्डोपहता नराः ॥ ४९ ॥ स्वल्पाम्बुवृष्टिः पर्ज्जन्यः सस्यं स्वल्पफल तथा । फलं तथाल्पसारञ्च विप्र प्राप्ते कलौ युगे ॥ ५० ॥ शाणीप्रायाणि वस्त्राणि शमीप्राया महीरुहाः । शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥ ५१ ॥ अणुप्रायाणि धान्यानि अजाप्रायं तथा पयः । भविष्यति कलौ प्राप्ते उषोरञ्चानुलेपनम् ॥ ५२ ॥ शश्रूश्वशुरभूयिष्ठा गुरवश्च नृणां कलौ । श्यालाद्या हारिभार्याश्च सुहृदो मुनिसत्तम ॥ ५३ ॥ कस्य माता पिता कस्य यदा कर्म्मानुगः पुमान् । इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥ ५४ ॥ वाङ्मनः कायिकैर्दोषैरभिभूताः पुनः पुनः । नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥ ५५ ॥ निःसत्त्वानामशौचानां निःश्रीकाणां तथा नृणाम् । यद्यद्दुःखाय यत् सर्व्वं कलिकाले भविष्यति ॥ ५६ ॥ निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्ज्जिते । तथा प्रविरलो विप्र क्वचिल्लोके निवत्स्यति ॥ ५७ ॥ तत्राल्पेनैव यत्नेन पुण्यस्कन्धमनुत्तमम् । करोति यं कृतयुगे क्रियते तपसा हि सः ॥ ५८ ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे प्रथमोऽध्यायः ॥ अध्यायः २ (Adhyaaya 2) ===================================================== श्रीपराशर उवाच व्यासश्चाह महाबुद्धिर्यदत्रैव हि वस्तुनि । तच्छ्रूयतां महाभाग गदतो मम तत्त्वतः ॥ १ ॥ कस्मिन् कालेऽल्पको धर्म्मो ददाति सुमहत् फलम् । मुनीनामित्यभूद्वादः कैश्चासौ क्रियते सुखम् ॥ २ ॥ सन्देहनिर्णयार्थाय वेदव्यासं महामुनिम् । ययुस्ते संशयं प्रष्टुं मैत्रेय मुनिपुङ्गवाः ॥ ३ ॥ ददृशुस्ते मुनिं तत्र जाह्नवीसलिले द्विजाः । वेदव्यासं महाभागमर्द्धस्त्रातं महामतिम् ॥ ४ ॥ स्नानावसानं तत्तस्य प्रतीक्षन्तो महर्षय । तस्थस्तटे महानद्यास्तरुषण्डमुपाश्रिताः ॥ ५ ॥ मग्नोऽथ जाह्नवीतोयादुत्थायाह सुतो मम । कलिः साधुः कलिः साधुरित्येवं शृण्वतां वचः ॥ ६ ॥ तेषां मुनीनां भूयश्च ममञ्ज स नदीजले । उत्थाय साधु साध्विति शूद्र धन्योऽसि चाब्रवीत् ॥ ७ ॥ स निमग्नः समुत्थाय पुनः प्राह महामुनिः । योषितः साधुधन्यास्तास्ताभ्यो धन्यतरोऽस्ति कः ॥ ८ ॥ ततः स्नात्वा यथान्यायमायान्तं कृतसत्क्रियम् । उपतस्थुर्महाभागं मुनयस्ते सुतं मम ॥ ९ ॥ कृतसंवन्दनाश्चाह कृतासनपरिग्रहान् । किमर्थमागता यूयमिति सत्यवतीसुतः ॥ १० ॥ तमूचुः संशयं प्रष्टुं भवन्तं वयमागताः । अलं तेनास्तु तावन्नः कथ्यतामपरं त्वया ॥ ११ ॥ कलिः साध्विति यत् प्रोक्तं शूद्रः साध्विति योषितः । यदाह भगवान् साधु धन्याश्चेति पुनः पुनः ॥ १२ ॥ तत् सर्व्वं श्रोतुमिच्छामो न चेद्गुह्यं महामुने । तत् कथ्यतां ततो हत्स्थं प्रक्ष्यामस्त्वां प्रयोजनम् ॥ १३ ॥ इत्युक्तो मुनिभिर्व्यासः प्रहस्येदमथाब्रवीत् । श्रूयतां भो मुनिश्रेष्ठा यदुक्तं साधु साध्विति॥ १४ ॥ यत्कृते दशभिर्वर्षेस्त्रेतायां हायनेन यत् । द्वापरे यच्च मासेन अहोरात्रेण तत् कलौ ॥ १५ ॥ तपसो ब्रह्मचर्य्यस्य जपादेश्च फलं द्विजाः । प्राप्नोति पुरुषस्तेन कलिः साध्विति भाषितम् ॥ १६ ॥ ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्च्चयन् । यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्त्य केशवम् ॥ १७ ॥ धर्म्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ । अल्पायासेन धर्म्मज्ञास्तेन तुष्टोऽस्म्यहं कलेः ॥ १८ ॥ व्रतचर्य्यापरैर्ग्राह्यो वेदः पूर्व्वं द्विजातिभिः । ततः स्वधर्म्मसम्प्राप्तैर्यष्टव्यं विधिनाध्वरैः ॥ १९ ॥ वृथा कथा वृथाभोज्यं वृथेज्या च द्विजन्मनाम् । पतनाय तथा भाव्यं तैस्त्वसंयमिभिः सदा ॥ २० ॥ असम्यककरणे दोषस्तेषां सर्वेषु कर्मसु । भोज्यपेयादिकञ्चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ २१ ॥ पारतन्व्यं समस्तेषु तेषां कार्य्येषु वै ततः । जयन्ति ते निजात् लोकान् क्लेशेन महता द्विजाः ॥ २२ ॥ द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् । निजान् जयति वै लोकाञ् शूद्रो धन्यतरस्ततः ॥ २३ ॥ भक्ष्याभक्ष्येषु नास्यास्ति पेयापेयेषु वै यतः । नियमो मुनिशाद्दूर्लास्तेनासौ साध्वितीरितः ॥ २४ ॥ स्वधर्म्मस्याविरोधेन नरैलब्धं धनं सदा । प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ २५ ॥ तस्यार्ज्जने महाक्लेशः पालने च द्विजोत्तमाः । तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम् ॥ २६ ॥ एभिरन्यैस्तथा क्लेशैः पुरुषा द्विजसत्तमाः । निजान् जयन्ति वै लोकान्प्राजापत्यादिकान् क्रमात् ॥ २७ ॥ योषिच्छुश्रूषणं भर्त्तुः कर्म्मणा मनसा गिरा । कुर्व्वतो समवाप्नोति तत्सालोक्यं यतो द्विजाः ॥ २८ ॥ नातिक्लेशेन महता तानेव पुरुषो यथा । तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥ २९ ॥ एतद्वः कथितं विप्रा यन्निमित्तमिहागताः । तत् पृच्छध्वं यथाकामं सर्व्वं वक्ष्यामि वः स्फुटम् ॥ ३० ॥ ततस्ते मुनयः प्रोचुर्यत् प्रष्टव्यं महामुने । अन्यस्मिन्नेव तत् पृष्टे यथावत् कथितं त्वया ॥ ३१ ॥ ततो प्रहस्य तान् प्राह कृष्णद्वैपायनो मुनिः । विस्मयोत्फुल्लनयनांस्तापसांस्तानुपागतान् ॥ ३२ ॥ मयैष भवतां प्रश्नो ज्ञातो दिव्येन चक्षुषा । तता हि वः प्रसङ्गने साधु साध्विति भाषितम् ॥ ३३ ॥ स्वल्पेनैव प्रयत्नेन धर्म्मः सिध्यति वै कलौ । नरैरात्मगुणाम्भोभिः क्षालिताखिलकिल्विषैः ॥ ३४ ॥ शूद्रैश्च द्विजशुश्रूषातत्परैर्मुनिसत्तमाः । तथा स्त्रीभिरनायासं पतिशुश्रूषयैव हि ॥ ३५ ॥ ततस्त्रितयमप्येतन्मम धन्यतमं मतम् । धर्म्मसंसाधने क्लेशो द्विजातीनां कृतादिषु ॥ ३६ ॥ भवद्भिर्यदभिप्रेतं तदेतत् कथितं मया । अपृष्टेनापि धर्म्मज्ञाः किमन्यत् कथ्यतां द्विजाः ॥ ३७ ॥ ततः संपूज्य ते व्यासं प्रशस्य च पुनः पुनः । यथाऽऽगतं द्विजा जग्मुर्व्व्यासोक्तिक्षतसंशयाः ॥ ३८ ॥ भवतोऽपि महाभागरहस्यं कथितं मया । अत्यन्तदुष्टस्य कलेरयमेको महान् गुणः । कीर्त्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥ ३९ ॥ यच्चाहं भवता पृष्टो जगतामुपसंहृतिम् । प्राकृतामान्तरालाञ्च तामप्येष वदामि ते ॥ ४० ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे द्वितीयोऽध्यायः ॥ अध्यायः ३ (Adhyaaya 3) ===================================================== सर्व्वेषामेव भूतानां त्रिविधः प्रितसञ्चरः । नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको मतः ॥ १ ॥ ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसञ्चरः । आत्यन्तिकश्च मोक्षाख्यः प्राकृतो द्विपरार्द्धिकः ॥ २ ॥ श्रीमैत्रेय उवाच परार्द्धसंख्यां भगवन् ममाचक्ष यया तु सः । द्विगुणीकृतया ज्ञयेः प्राकृतः प्रतिसञ्चरः ॥ ३ ॥ श्रीपराशर उवाच स्थानात् स्थानं दशगुणमेकस्माद्गण्यते द्विज । ततोऽष्टादशमे स्थाने परार्द्धमभिधीयते ॥ ४ ॥ परार्द्धद्विगुणं यत्तु प्राकृतः प्रलयो द्विज । तदाऽव्यक्तेऽखिलं व्यक्तं स्वहेतौ लयमेति वै ॥ ५ ॥ निमेषो मानुषो योऽयं मात्रामात्रप्रमाणतः । तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास्तथा कलाः ॥ ६ ॥ नाडिका तु प्रमाणेन कला दश च पञ्च च । उन्मानेनाम्भसः सा तु पलान्यर्द्धत्रयोदश ॥ ७ ॥ हेममाषैः कृतिच्छिद्रश्चतुर्भिश्चतुरङ्गुलैः । मागधेन प्रमाणेन जलप्रस्थस्तु स स्मृतः ॥ ८ ॥ नाडिकाभ्यामथ द्वाभ्यां मुहूर्त्तो द्विजसत्तम । अहोरात्रं मुहूर्त्तास्तु त्रिंशन्मासो दिनैस्तथा ॥ ९ ॥ मासैर्द्वादशभिर्वर्षमहोरात्रन्तु तद्दिवि । त्रिभिर्वर्षशतैर्वर्ष षष्ट्या चैवासुरद्विषाम् ॥ १० ॥ तैस्तु द्वादशसाहस्रैश्चतुर्युगमुदाहृतम् । चतुर्युगसहस्त्रन्तु कथ्यते ब्रह्मणो दिनम् ॥ ११ ॥ स कल्पोऽप्यत्र मनवश्चतुर्द्दश महामुने । तदन्ते चैव मैत्रेय ब्राह्मो नैमित्तिको लयः ॥ १२ ॥ तस्य स्वरूपमत्युग्र मैत्रेय गदतो मम । श्रृणुष्व प्राकृतं भूयस्तव वक्ष्याम्यहं लयम् ॥ १३ ॥ चतुर्युगसहस्रान्ते क्षीणप्राये महीतले । अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ १४ ॥ ततो यान्यल्पसाराणि तानि तत्त्वान्यशेषतः । क्षयं यान्ति मुनिश्रेष्ठपार्थिवान्यत्र पीडनात् ॥ १५ ॥ ततः स भगवान् विष्णु रुद्ररूपधरोऽव्ययः । क्षयाय यतते कर्त्तुमात्मस्थाः सकलाः प्रजाः ॥ १६ ॥ ततः स भगवान् विष्णुर्भानोः सप्तसु रश्मिषु । स्थितः पिबत्यशेषाणि जलानि मुनिसत्तम ॥ १७ ॥ पीत्वाम्भांसि समस्तानि प्राणिभूमिगतानि वै । शोषं नयति मैत्रेयसमस्तं पृथिवीतलम् ॥ १८ ॥ समुद्रान्सरितः शैलनदीप्रस्रवणानि च । पातालेषु च यत्तोय तत् सर्व्वं नयति क्षयम् ॥ १९ ॥ ततस्तस्यानुभावेन तोयाहारोपबृंहिताः । त एव रश्मयः सप्त जायन्ते सप्त भास्कराः ॥ २० ॥ अधश्चोर्ध्वञ्च ते दीप्तास्ततस्सप्त दिवाकराः । दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विज ॥ २१ ॥ दह्यमानन्तु तैर्दीप्तैस्त्रैलोक्यं द्विजभास्करेः । साद्रिनद्यर्णवाभोगं निःस्नेहमति जायते ॥ २२ ॥ ततो निर्दग्धवृक्षाम्बु त्रैलोक्यमखिल द्विज । भवत्येका च वसुधा कूर्म्मपृष्ठोपमाकृतिः ॥ २३ ॥ ततः कालाग्निरुद्रोऽसौ भूत्वा सर्व्वहरो हरिः । शेषनिःश्वाससम्भूतः पातालानि दहत्यधः ॥ २४ ॥ पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् । भूमिमभ्येत्य सकलं बभस्ति वसुधातलम् ॥ २५ ॥ भुवर्लोकं ततः सर्व्वं स्वर्लोकञ्च सुदारुणः । ज्वालामालामहावर्त्तस्तत्रैव परिवर्त्तते ॥ २६ ॥ अम्बरीषमिवाभाति त्रैलोक्यमखिलं तदा । ज्वालावर्त्तपरीवारमुपक्षीणचराचरम् ॥ २७ ॥ ततस्तापपरीतास्तु लोकदूयनिवासिनः । कृताधिकारा गच्छन्ति महर्लोकं महामुने ॥ २८ ॥ तस्मादपि महातापतप्ता लोकास्ततः परम् । गच्छन्ति जनलोकं ते दशावृत्त्या परैषिणः ॥ २९ ॥ ततो दग्ध्वा जगत् सर्व्वं रुद्ररूपी जनार्द्दनः । मुखनिःश्वासजान् मेघान् करोति मुनिसत्तम ॥ ३० ॥ ततो गजकुलप्रख्यास्तडित्वन्तो निनादिनः । उत्तिष्ठन्ति तदा व्योम्रि घोराः संवर्त्तका घनाः ॥ ३१ ॥ केचिन्नीलोतूपलश्यामाः केचित्कुमुदसन्निभाः । धूमवर्णा घनाः केचित्केचित्पीताः पयोधराः ॥ ३२ ॥ केचिद्रासभवर्णाभा लाक्षारसनिभास्तथा । केचिद्वैडूर्य्यसङ्काशा इन्द्रनीलनिभाः परे ॥ ३३ ॥ शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिबास्तथा । इन्द्रगोपनिभाः केचिन्मनःशिलानिभास्तथा ॥ ३४ ॥ चाषपत्रनिभाः केचिदुत्तिष्ठन्ति घना घनाः । केचित् पुरवरावकाराः केचित् पर्व्वतसन्निभाः ॥ ३५ ॥ कूटागारनिभाश्चान्ये केचित् स्थूलनिभा घनाः । महारावा महाकायाः पूरयन्ति नभस्तलम् ॥ ३६ ॥ वर्षन्तस्ते महासारैस्तमग्निमतिभैरवम् । शमयन्त्यखिलं विप्र त्रैलोक्यान्तरविस्तृतम् ॥ ३७ ॥ नष्टे चाग्नौ च सततं वर्षमाणा ह्यहर्निशम् । प्लावयन्ति जगत्सर्वमम्भोभिर्मुनिसत्तम ॥ ३८ ॥ धाराभिरक्षमात्राभिः प्लावयित्वाखिलं भुवम् । भुवर्लोकं तथैवोर्द्ध्व प्लावयन्ति दिवं द्विज ॥ ३९ ॥ अन्धरारीकृते लोके नष्टे स्थावरजङ्गमे । वर्षन्ति ते महामेघा वर्षाणामधिकं शतम् ॥ ४० ॥ एवं भवति कल्पान्ते समस्तं मुनिसत्तम । वासुदेवस्य माहात्म्यान्नित्यस्य परमात्मनः ॥ ४१ ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे तृतीयोऽध्यायः ॥ अध्यायः ४ (Adhyaaya 4) ===================================================== सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि महामुने । एकार्णवं भवत्येव त्रैलोक्यमखिलं ततः ॥ १ ॥ मुखनिःश्वासजो विष्णोर्वायुस्ताञ्जलदांस्ततः । नाशयित्वा तु मैत्रेयवर्षाणामधिकं शतम् ॥ २ ॥ सर्व्वभूतमयोऽचिन्त्यो भगवान् बूतभावनः । अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ ३ ॥ एकार्णावे ततस्तस्मिन् शेषशय्यास्थितः प्रभुः । ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ॥ ४ ॥ जनलोकगतैः सिद्धेः सनकाद्यैरभिष्टुतः । ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुबिः ॥ ५ ॥ आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । आत्मानं वासुदेवाख्यं चिन्तयन्परमेश्वरः ॥ ६ ॥ एष नैमित्तिको नाम मैत्रेय प्रतिसञ्चरः । निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ ७ ॥ यदा जागर्त्ति विश्वात्मा स तदा चेष्टते जगत् । निमीलत्येतदखिलं योगशय्याशयेऽच्युते ॥ ८ ॥ पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत् । एकार्णावाप्लुते लोके तावती रात्रिष्यते ॥ ९ ॥ ततः प्रबुद्धो रात्र्यन्ते पुनस्सृष्टिं करोत्यजः । ब्रह्मस्वरूपधृग्विष्णुर्यथा ते कथितं पुरा ॥ १० ॥ इत्येष कल्पसंहारोऽवान्तरप्रलयो द्विज । नैमित्तिकस्ते कथितः प्राकृतः शृण्वतः परम् ॥ ११ ॥ अनावृष्ट्याग्निसम्पर्कात् कृते सङ्क्षालने मुने । समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ १२ ॥ महदादेर्विकारस्य विशेषान्तस्य सङ्क्षये । कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसञ्चरे ॥ १३ ॥ आपो ग्रसन्ति वै पूर्व्वं भूमेर्गन्धात्मकं गुणम् । आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ १४ ॥ प्रनष्टे गन्धतन्मात्रेऽभवत् पृथ्वी जलात्मिका । रसाज्जलं समुद्रभूतं तस्माज्जातं रसात्मकम् ॥ १५ ॥ आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः । सर्व्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च । सलिलेनैवोर्म्मिमता लोका व्याप्ताः समन्ततः ॥ १६ ॥ अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः । नश्यन्त्यापस्ततस्ताश्च रसतन्मात्रसङ्क्षयात् ॥ १७ ॥ ततश्चापो हृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै । अग्न्यवस्थे तु सलिले तेजसा सर्व्वतो वृते ॥ १८ ॥ स चाग्निः सर्व्वतो व्याप्य आदत्ते तज्जल तदा । सर्व्वमापूर्य्य तेजोभिस्तदा जगदिदं शनैः ॥ १९ ॥ अर्च्चिर्भिः संवृते तस्मिन् तिर्य्यगूर्ध्वमधस्तथा । ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥ २० ॥ प्रलीने च ततस्तस्मिन् वायुभूतेऽखिलात्मनि । प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः ॥ २१ ॥ प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् । निरालोके तदा लोके वाय्ववस्थे च तेजसि ॥ २२ ॥ ततस्तु मूलमासाद्य वायुस्सम्भवमात्मनः । ऊध्वञ्चाधश्च तिर्य्यक्च दोधवीति दिशो दश ॥ २३ ॥ वायोरपि गुणं स्पर्शमाकाशो ग्रसते पुनः । प्रशाम्यति ततो वायुः खं तु तिष्ठत्यनावृतम् ॥ २४ ॥ अरूपमरसमस्पर्शमगन्धं न च मूर्त्तिमत् । सर्व्वमापूरयच्चैनत् सुमहत् सम्प्रकाशते ॥ २५ ॥ परिमण्डल तत्सुषिरमाकाशं शब्दलक्षणम् । शब्दमात्रं तदाकाशं सर्व्वमावृत्य तिष्ठति ॥ २६ ॥ ततश्शब्दगुणं तस्य भूतादिर्ग्रसते पुनः । भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै ॥ २७ ॥ अभिमानात्मको ह्येष भूतादिस्तामस्स्मृतः । भूतादिं ग्रसते चापि महान् वै बुद्धिलक्षणः । उर्व्वी महांश्च जगतः प्रान्तेऽन्तर्बाह्यतस्तथा ॥ २८ ॥ एवं सप्त महाबुद्धे क्रमात्प्रकृतयस्स्मृताः । प्रत्याहारे तु तास्सर्व्वाः प्रविशन्ति परस्परम् ॥ २९ ॥ येनेदमावृतं सर्व्वमण्डमप्सु प्रलीयते । सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ॥ ३० ॥ उदकावरणं यत्तु ज्योतिषा पीयते तु तत् । ज्योतिर्वायौ लयं याति यात्याकाशे समीरणः ॥ ३१ ॥ आकाशञ्चैव भूतादिर्ग्रसते तं तदा महान् । महान्तमेभिस्सहितं प्रकृतिर्ग्रसते द्विज ॥ ३२ ॥ गुणसाम्यमनुद्रिक्तमन्यूनञ्च महामुने । प्रोच्यते प्रकृतिर्हेतुः प्रधानं काराण परम् ॥ ३३ ॥ इत्येषा प्रकृतिः सर्व्वा व्यक्ताव्यक्तस्वरूपिणी । व्यक्तस्वरूपमव्यक्ते तस्मिन् मैत्रेयलीयते ॥ ३४ ॥ एकश्शुद्धोऽक्षरो नित्यस्सर्वव्यापी तथा पुमान् । सोऽप्यंशस्सर्वभूतस्य मैत्रेय परमात्मनः ॥ ३५ ॥ न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः । सत्तामात्रात्मके ज्ञये ज्ञानात्मन्यात्मनः परे ॥ ३६ ॥ तद्ब्रह्म परमं धाम परमात्मा स चेश्वरः । स विष्णुः सर्वमेवेदं यतो नावर्त्तते यतिः ॥ ३७ ॥ प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ॥ ३८ ॥ परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुर्नाम्ना स वेदेषु वेदान्तेषु च गीयते ॥ ३९ ॥ प्रवृत्तञ्च निवृत्तञ्च द्विविधं कर्म्म वैदिकम् । ताभ्यामुभाभ्यां पुरुषैस्सर्वमूर्त्तिस्स इज्यते ॥ ४० ॥ ऋग्यजुस्सामभिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ । यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः ॥ ४१ ॥ ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्त्तिः स चेज्यते । निवृत्ते योगिभिर्मार्गे विष्णुर्मुक्तिफलप्रदः ॥ ४२ ॥ ह्रस्वदीर्घप्लुतैर्यत्तु किञ्चिद्वस्त्वभिधीयते । यच्च वाचामविषयं तत्सर्वं विष्णुरव्ययः ॥ ४३ ॥ व्यक्तस्स एव चाव्यक्तस्स एव पुरुषोऽव्ययः । परमात्मा स विश्वात्मा विश्वरूपधरो हरिः ॥ ४४ ॥ व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिस्सम्प्रलीयते । पुरुषश्चापि मैत्रेय व्यापिन्यव्याहतात्मनि ॥ ४५ ॥ द्विपरार्द्धात्मकः कालः कथितो यो मया तव । तदहस्तस्य मैत्रेयविष्णोरीशस्य कथ्यते ॥ ४६ ॥ व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा । तत्र स्थिते निशा चान्या तत्प्रमाणा महामुने ॥ ४७ ॥ नैवाहस्तस्य न निशा नित्यस्य परमात्मनः । उपचारस्तथाप्येष तस्येशस्य द्विजोच्यते ॥ ४८ ॥ इत्येष तव मैत्रेयकथितः प्राकृतो लयः । आत्यन्तिकमितो ब्रह्मन्निबोध प्रतिसञ्चरम् ॥ ४९ ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे चतुर्थोऽध्यायः ॥ अध्यायः ५ (Adhyaaya 5) ===================================================== श्रीपराशर उवाच आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ १ ॥ आध्यात्मिकोपि द्विविधश्शरीरो मानसस्तथा । शरीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः ॥ २ ॥ शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥ ३ ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ ४ ॥ कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ॥ ५ ॥ मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा । इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ ६ ॥ मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश्च नृणां जायते चाधिभौतिकः ॥ ७ ॥ शीतवा तोष्णवर्षांबुवैद्युतादिसमुद्भवः । तापो द्विजवरश्रेष्ठैः कथ्यते चाधिदैविकः ॥ ८ ॥ गर्भजन्मजराज्ञानमृत्युनारकजं तथा । दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ॥ ९ ॥ सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते । उल्वसंवेष्टितो भुग्नपृष्ठग्रीवास्थिसंहतिः ॥ १० ॥ अत्यन्तकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः । अत्यन्ततापैरत्यर्थं वर्द्धमानातिवेदनः ॥ ११ ॥ प्रसारणाकुञ्चनादेर्नाङ्गानां प्रभुरात्मनः । शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥ १२ ॥ निरुच्छ्वासः सचैतन्यस्स्मरञ्जन्मशतान्यथ । आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ १३ ॥ जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः । प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ १४ ॥ अधोमुखो वै क्रियते प्रबलैस्सूतिमारुतैः । क्लेशान्निष्क्रांतिमाप्नोति जठरान्मातुरातुरः ॥ १५ ॥ मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना । विज्ञानभ्रंशमाप्नोति जातश्च मुनिसत्तम ॥ १६ ॥ कङ्कटैरिव तुन्नाङ्ग क्रकचैरिव दारितः । पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ १७ ॥ कण्डूयनेऽपि चाशक्तः परिवर्त्तेऽप्यनीश्वरः । स्नानपानादिकाहारमप्याप्नोति परेच्छया ॥ १८ ॥ अशुचिप्रस्तरे सुप्तः कीटदंशादिभिस्तथा । भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ १९ ॥ जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च । बालभावे यदाप्नोति ह्याधिभौतादिकानि च ॥ २० ॥ अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः । न जानाति कुतः कोहं क्वाहं गन्ता किमात्मनः ॥ २१ ॥ केन बन्धेन बद्धोहं कारणं किमकारणम् । किं कार्यं किमकार्यं वा किं वाच्यं किं च नोच्यते ॥ २२ ॥ को धर्मः कश्च वाऽधर्मः कस्मिन्वर्त्तेऽथ वा कथम् । किं कर्त्तव्यमकर्त्तव्यं किं वा किंगुणदोषवत् ॥ २३ ॥ एवं पशुसमैर्मुढैरज्ञानप्रभवं महत् । अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २४ ॥ अज्ञानं तामसो भावः कार्यारंभप्रवृत्तयः । अज्ञानिनां प्रवर्त्तन्ते कर्मलोपास्ततो द्विज ॥ २५ ॥ नरकं कर्मणां लोपात्फलमाहुर्मनीषिणः । तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २६ ॥ जराजर्जरदेहश्च शिथिलावयवः पुमान् । विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २७ ॥ दूरप्रनष्टनयनो व्योमान्तर्गततारकः । नासाविवरनिर्यातलोमपुञ्जश्चलद्वपुः ॥ २८ ॥ प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः । उत्सन्नजठराग्नित्वादल्पाहारोऽल्पचेष्टितः ॥ २९ ॥ कृच्छ्राच्चङ्क्रमणोत्थानशयनासनचेष्टितः । मन्दीभवच्छ्रोत्रनेत्रस्स्रवल्लालाविलाननः ॥ ३० ॥ अनायत्तैस्समस्तैश्च करणैर्मरणोन्मुखः । तत्क्षणेऽप्यनुभूतानामस्मर्ताऽखिलवस्तुनाम् ॥ ३१ ॥ सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः । श्वासकाससमुद्भूतमहायासप्रजागरः ॥ ३२ ॥ अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी । भृत्यात्मपुत्रदाराणामवमानास्पदी कृतः ॥ ३३ ॥ प्रक्षीणाखिलशौचश्च विहाराहारसस्पृहः । हास्यः परिजनस्यापि निर्विण्णाशेषबान्ध ॥ ३४ ॥ अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् । संस्मरन्यौवने दीर्घं निश्वसत्यभितापितः ॥ ३५ ॥ एवमादीनि दुःखानि जरायामनुभूय वै । मरणे यानि दुःखानि प्राप्नोति शृणुतान्यपि ॥ ३६ ॥ श्लथग्रीवाङ्घ्रिहस्तोऽथ व्याप्तो वेपथुना भृशम् । मुहुर्ग्लानिः परवशो मुहुर्ज्ञानलवान्वितः ॥ ३७ ॥ हिरण्यधान्यतनय भार्याभृत्यगृहादिषु । एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ ३८ ॥ मर्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः । शरैरिवान्तकस्योग्रैश्छिद्यमानासुबन्धनः ॥ ३९ ॥ परिवर्त्तितताराक्षो हस्तपादं मुहुः क्षिपन् । संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥ ४० ॥ निरुद्धकण्ठो दोषौघैरुदानश्वासपीडितः । तापेन महता व्याप्तस्तृषा चार्त्तस्तथा क्षुधा ॥ ४१ ॥ क्लेशादुत्क्रान्तिमाप्नोति यमकिङ्करपीडितः । ततश्च यातनादेहं क्लेश्नो प्रतिपद्यते ॥ ४२ ॥ एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् । शृणुष्व नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ ४३ ॥ याम्यकिङ्करपाशादिग्रहणं दण्डताडनम् । यमस्य दर्शनञ्चोग्रमुग्रमार्गविलोकनम् ॥ ४४ ॥ करंभवालुकावह्नियन्त्रशस्त्रादिभीषणे । प्रत्येकं नरकेयाश्च यातना द्विज दुःसहाः ॥ ४५ ॥ क्रकचैः पीडयमानानां मूषायाञ्चापि दह्यताम् । कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम् ॥ ४६ ॥ शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् । गृध्रैस्संभक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥ ४७ ॥ क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे । उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ ४८ ॥ नरके यानि दुःखानि पापहेतूद्भवानि वै । प्राप्यन्ते नारकैर्विप्र तेषां सङ्ख्या न विद्यते ॥ ४९ ॥ न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः । स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ ५० ॥ पुनश्च गर्भे भवति जायते च पुनः पुनः । गर्भे विलीयते भूयो जायमानोऽस्तमेति वै ॥ ५१ ॥ जातमात्रश्च म्रियते बालभावेऽथ यौवने । मध्यमं वा वयः प्राप्य वार्द्धके वाथ वा मृतिः ॥ ५२ ॥ यावज्जीवति तावच्च दुःखैर्नानाविधैः प्लुतः । तं तु कारणपक्ष्मौघैरास्ते कार्पासबीजवत् ॥ ५३ ॥ द्रव्यनाशो तथोत्पत्तौ पालने च सदा नृणाम् । भवन्त्यनेकदुःखानि तथैवेष्टविपत्तिषु ॥ ५४ ॥ यद्यत्प्रीतिकरं पुंसां वस्तु मैत्रेय जायते । तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ॥ ५५ ॥ कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः । क्रियते न तथा भूरि सुखं पुंसां यथाऽसुखम् ॥ ५६ ॥ इति संसारदुःखार्कतापतापितचेतसाम् । विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ॥ ५७ ॥ तदस्य त्रिविधस्यापि दुःखजातस्य वै मम । गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥ ५८ ॥ निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ ५९ ॥ तस्मात्तत्प्राप्तये यत्नः कर्त्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ॥ ६० ॥ आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते । शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥ ६१ ॥ अन्धन्तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे विवेकजम् ॥ ६२ ॥ मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम । तदेतच्छ्रूयतामत्र संबन्धे गदतो मम ॥ ६३ ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ६४ ॥ द्वे वै विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः । परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ॥ ६५ ॥ यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्द्देश्यमरूपं च पाणिपादाद्यसंयुतम् ॥ ६६ ॥ विभु सर्वगतं नित्यं भूतयोनिरकारणम् । व्याप्यव्याप्तं यतः सर्वं यद्वै पश्यन्ति सूरयः ॥ ६७ ॥ तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकाङ्क्षिभिः । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ ६८ ॥ तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः ॥ ६९ ॥ एवं निगदितार्थस्य तत्तत्त्वं तस्य तत्त्वतः । ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥ ७० ॥ अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज । पूजायां भगवच्छब्दः क्रियते ह्युपचारतः ॥ ७१ ॥ शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्दिते । मैत्रेय भगवच्छब्दस्सर्वकारणकारणे ॥ ७२ ॥ सम्भर्त्तेति तथा भर्त्ता भकारोर्थद्वयान्वितः । नेता गमयिता स्रष्टा गकारार्थस्तथा मुने ॥ ७३ ॥ ऐश्वर्यस्य समग्रस्य धर्मस्य यशसश्श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ७४ ॥ वसन्ति यत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ ७५ ॥ एवमेष महाशब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यतः ॥ ७६ ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ॥ ७७ ॥ उत्पत्तिं प्रलयं चैव भूतानामगतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ ७८ ॥ ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ ७९ ॥ सर्वाणि तत्र भूतानि वसन्ति परमात्मनि । भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ॥ ८० ॥ खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा । नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ ८१ ॥ भूतेषु वसते सोऽन्तर्वसन्त्यत्र च तानि यत् । धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ ८२ ॥ स सर्वभूतप्रकृतिं विकारान्गुणादिदोषांश्च मुने व्यतीतः । अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥ ८३ ॥ समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशावृतभूतवर्गः । इच्छागृहीताभिमतोरुदेहस्संसाधिताशेषजगद्धितो यः ॥ ८४ ॥ तेजोबलैश्वर्यमहावबोध सुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशो ॥ ८५ ॥ स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपोऽप्रकटस्वरूपः । सर्वेश्वरस्सर्वदृक् सर्वविच्च समस्तशक्तिः परमेश्वराख्यः ॥ ८६ ॥ संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । संदृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥ ८७ ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे पञ्चमोऽध्यायः ॥ अध्यायः ६ (Adhyaaya 6) ===================================================== श्रीपराशर उवाच स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते ॥ १ ॥ स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमावसेत् । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥ २ ॥ तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथा परम् । न मांस चक्षुषा द्रष्टुं ब्रह्मभूतस्स शक्यते ॥ ३ ॥ श्रीमैत्रेय उवाच भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद । ज्ञाते यत्राखिलाधारं पश्येयं परमेश्वरम् ॥ ४ ॥ श्रीपराशर उवाच यथा केशिध्वजः प्राह खाण्डिक्याय महात्मने । जनकाय पुरा योग तमहं कथयामि ते ॥ ५ ॥ श्रीमैत्रेय उवाच खाण्डिक्यः कोऽभवद्ब्रह्मन्को वा केशिध्वजः कृती । कथं तयोश्च संवादो योगसंबन्धकारणात् ॥ ६ ॥ श्रीपराशर उवाच धर्मध्वजो वै जनकस्तस्य पुत्रोऽमितध्वजः । कृतध्वजश्च नाम्नासीत्सदाध्यात्मरतिर्नृपः ॥ ७ ॥ कृतध्वजस्य पुत्रोऽभूत्ख्यातः केशिध्वजो नृपः । पुत्रोऽमितध्वजस्यापि खाण्डिक्यजनकोऽभवत् ॥ ८ ॥ कर्ममार्गेण खाण्डिक्यः पृथिव्यामभवत्पतिः । केशिध्वजोऽप्यतीवासीदात्मविद्याविशारदः ॥ ९ ॥ तावुभावपि खाण्डिक्यः विजिगीषू परस्परम् । केशिध्वजेन खाण्डिक्यस्स्वराज्यादवरोपितः ॥ १० ॥ पुरोधसा मन्त्रिभिश्च समवेतोऽल्पसाधनः । राज्यान्निराकृतस्सोऽथ दुर्गारण्यचरोऽभवत् ॥ ११ ॥ इयाज सोऽपि सुबहून्यज्ञाञ्ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्त्तुं मृत्युमविद्यया ॥ १२ ॥ एकदा वर्त्तमानस्य यागे योगविदां वर । धर्मधेनुं जघानोग्रश्शार्दूलो विजने वने ॥ १३ ॥ ततो राजा हतां श्रुत्वा धनुं व्याघ्रेण चर्त्विजः । प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् ॥ १४ ॥ तेऽप्यूचुर्न वयं विद्मः कशेरुः पृच्छतामिति । कशेरुरपि तेनोक्तस्तथैव प्राह भार्गवम् ॥ १५ ॥ शुनकं पृच्छ राजेन्द्र नाहं वेद्मि स वेत्स्यति । स गत्वा तमपृच्छच्च सोऽप्याह शृणु यन्मुने ॥ १६ ॥ न कशेरुर्न चैवाहं न चैकस्सांप्रतं भुवि । वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया ॥ १७ ॥ स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने । प्राप्त एव महायज्ञो यदि मां स हनिष्यति ॥ १८ ॥ प्रायश्चित्तमशेषेण स चेत्पृष्टो वदिष्यति । ततश्चाविकलो यागो मुनिश्रेष्ठ भविष्यति ॥ १९ ॥ श्रीपराशर उवाच इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः । वनं जगाम यत्रास्ते स खाण्डिक्यो महामतिः ॥ २० ॥ तमापतन्तमालोक्य खाण्डिक्यो रिपुमात्मनः । प्रोवाच क्रोधताम्राक्षस्समारोपितकार्मुकः ॥ २१ ॥ खाण्डिक्य उवाच कृष्णाजिनं त्वं कवचमाबध्यास्मान्हनिष्यसि । कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥ २२ ॥ मृगाणां वद पृष्ठेषु मूढ कृष्णाजिनं न किम् । येषां मया त्वया चोग्राः प्रहिताश्शितसायकाः ॥ २३ ॥ स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे । आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ॥ २४ ॥ केशिध्वज उवाच खाण्डिक्य संशयं प्रष्टुं भवन्तमहमागतः । न त्वां हन्तुं विचार्यैतत्कोपं बाणं विमुञ्च वा ॥ २५ ॥ श्रीपराशर उवाच ततस्स मन्त्रिभिस्सार्द्धमेकान्ते सपुरोहितः । मन्त्रयामास खाण्डिक्यस्सर्वैरेव महामतिः ॥ २६ ॥ तमूचुर्मन्त्रिणो वध्यो रिपुरेष वशं गतः । हतेऽस्मिन्पृथिवी सर्वा तव वश्या भविष्यति ॥ २७ ॥ खाण्डिक्यश्चाह तान्सर्वानेवमेतन्न संशयः । हतेऽस्मिन्पृथिवी सर्वा मम वश्या भविष्यति ॥ २८ ॥ परलोकजयस्तस्य पृथिवी सकला मम । न हन्मि चेल्लोकजयो मम तस्य वसुन्धरा । नाहं मन्ये लोकजयादधिका स्याद्वसुन्धरा ॥ २९ ॥ परलोकजयोऽनन्तस्स्वल्पकालो महीजयः । तस्मान्नैनं हनिष्यामि यत्पृच्छति वदामि तत् ॥ ३० ॥ ततस्तमभ्युपेत्याह खाण्डिक्यजनको रिपुम् । प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छस्व वदाम्यहम् ॥ ३१ ॥ ततस्सर्वं यथावृत्तं धर्मधेनुवधं द्विज । कथयित्वा स पप्रच्छ प्रायश्चित्तं हि तद्गतम् ॥ ३२ ॥ स चाचष्ट यथान्यायं द्विज केशिध्वजाय तत् । प्रायश्चित्तमशेषेण यद्वै तत्र विधीयते ॥ ३३ ॥ विदितार्थस्स तेनैव ह्यनुज्ञातो महात्मना । यागभूमिमुपागम्य चक्रे सर्वाः क्रियाः क्रमात् ॥ ३४ ॥ क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः । कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः ॥ ३५ ॥ पूजिताश्च द्विजास्सर्वे सदस्या मानिता मया । तथैवार्थिजनोऽप्यर्थैर्योजितोऽभिमतैर्मया ॥ ३६ ॥ यथार्हमस्य लोकस्य मया सर्वं विचेष्टितम् । अनिष्पन्नक्रियं चेतस्तथापि मम किं यथा ॥ ३७ ॥ इत्थं सञ्चिन्तयन्नेव सस्मार स महीपतिः । खाण्डिक्याय न दत्तेति मया वै गुरुदक्षिणा ॥ ३८ ॥ स जगाम तदा भूयो रथमारुह्य पार्थिवः । मैत्रेय दुर्गगहनं खाण्डिक्यो यत्र संस्थितः ॥ ३९ ॥ खाण्डिक्योऽपि पुनर्दृष्ट्वा तमायान्तं धृतायुधम् । तस्थौ हन्तुं कृतमतिस्तमाह स पुनर्नृपः ॥ ४० ॥ भो नाहं तेऽपराधाय प्राप्तः खाण्डिक्य मा क्रुधाः । गुरोर्निष्क्रयदानाय मामवेहि त्वमागतम् ॥ ४१ ॥ निष्पादितो मया यागः सम्यक्त्वदुपदेशतः । सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ॥ ४२ ॥ श्रीपराशर उवाच भूयस्स मंत्रिभिस्सार्द्धं मन्त्रयामास पार्थिवः । गुरुनिष्क्रयकामोऽयं किं मया प्रार्थ्यतामिति ॥ ४३ ॥ तमूचुर्मन्त्रिणो राज्यमशेषं प्रार्थ्यतामयम् । शत्रुभिः प्रार्थ्यते राज्यमनायासितसैनिकैः ॥ ४४ ॥ प्रहस्य तानाह नृपस्स खाण्डिक्यो महामतिः । स्वल्पकालं महीपाल्यं मादृशैः प्रार्थ्यते कथम् ॥ ४५ ॥ एवमेतद्भवन्तोऽत्र ह्यर्थसाधनमन्त्रिणः । परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ॥ ४६ ॥ श्रीपराशर उवाच इत्युक्त्वा समुपेत्यैनं स तु केशिध्वजं नृपः । उवाच किमवश्यं त्वं ददासि गुरुदक्षिणाम् ॥ ४७ ॥ बाढमित्येव तेनोक्तः खाण्डिक्यस्तमथाब्रवीत् । भवानध्यात्मविज्ञानपरमार्थविचक्षणः ॥ ४८ ॥ यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः । तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ॥ ४९ ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे षष्ठोऽध्यायः ॥ अध्यायः ७ (Adhyaaya 7) ===================================================== केशिध्वज उवाच न प्रार्थितं त्वया कस्मादस्मद्राज्यमकण्टकम् । राज्यलाभाद्विना नान्यत्क्षत्त्रियाणामतिप्रियम् ॥ १ ॥ खाण्डिक्य उवाच केशिध्वज निबोध त्वं मया न प्रार्थितं यतः । राज्यमेतदशेषं ते यत्र गृध्नन्त्यपण्डिताः ॥ २ ॥ क्षत्त्रियाणामयं धर्मो यत्प्रजापरिपालनम् । वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् ॥ ३ ॥ तत्राशक्तस्य मे दोषो नैवास्त्यपहृते त्वया । बन्धायैव भवत्येषा ह्यविद्याप्यक्रमोज्झिता ॥ ४ ॥ जन्मोमोपभोगलिप्सार्थमियं राज्यस्पृहा मम । अन्येषां दोषज सैव धर्मं वै नानुरुध्यते ॥ ५ ॥ न याच्ञा क्षत्त्रबन्धूनां धर्मयैतत्सतां मतम् । अतो न याचितं राज्यमविद्यान्तर्गतं तव ॥ ६ ॥ राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः । अहंमानमहापानमदमत्ता न मादृशाः ॥ ७ ॥ श्रीपराशर उवाच प्रहृष्टस्साध्विति ततः प्राह केशिध्वजो नृपः । खाण्डिक्यजनकं प्रीत्या श्रूयतां वचनं मम ॥ ८ ॥ केशिध्वज उवाच अहं ह्यविद्यया मृत्युं तर्तुकामः करोमि वै । राज्यं यागांश्च विविधान्भोगैः पुण्यक्षयं तथा ॥ ९ ॥ तदिदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम् । तच्छ्रूयतामविद्यायास्स्वरूपं कुलनन्दन ॥ १० ॥ अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिः । संसारतरुसंभूतिबीजमेतद्द्विधा स्थितम् ॥ ११ ॥ पञ्चभूतात्मके देहे देही मोहतमोवृतः । अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् ॥ १२ ॥ आकाशवाय्वग्निजलपृथिवीभ्यः पृथक् स्थिते । आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥ १३ ॥ कलेवरोपभोग्यं हि गृहक्षेत्रादिकञ्च कः । अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते ॥ १४ ॥ इत्थञ्च पुत्त्रपौत्त्रेषु तद्देहोत्पादितेषु कः । करोति पण्डितस्स्वाम्यमनात्मनि कलेवरे ॥ १५ ॥ सर्वं देहोपभोगाय कुरुते कर्म मानवः । देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परम् ॥ १६ ॥ मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा । पार्थिवोऽयं तथा देहो मृदंब्वालेपनस्थितः ॥ १७ ॥ पञ्चभूतात्मकैर्भोगैः पञ्चभूतात्मकं वपुः । आप्यायते यदि ततः पुंसो भोगोऽत्र किं कृतः ॥ १८ ॥ अनेकजन्मसाहस्रीं संसारपदवीं व्रजन् । मोहश्रमं प्रयातोऽसौ वासनारेणुकुण्ठितः ॥ १९ ॥ प्रक्षाल्यते यदा सोऽस्य रेणुर्ज्ञानोष्णवारिणा । तदा संसारपान्थस्य याति मोहश्रमश्शमम् ॥ २० ॥ मोहश्रमे शमं याते स्वस्थान्तःकरणः पुमान् । अनन्यातिशयाबाधं परं निर्वाणमृच्छति ॥ २१ ॥ निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः । दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मनः ॥ २२ ॥ जलस्य नाग्निसंसर्गः स्थालीसङ्गात्तथापि हि । शब्दोद्रेकादिकान्धर्मांस्तत्करोति यथा नृप ॥ २३ ॥ तथात्मा प्रकृतेस्सङ्गादहंमानादिदूषितः । भजते प्राकृतान्धर्मानन्यस्तेभ्यो हि सोऽव्ययः ॥ २४ ॥ तदेतत्कथितं बीजमविद्याया मया तव । क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ २५ ॥ खाण्डिक्य उवाच तं ब्रवीहि महाभाग योगं योगविदुत्तम । विज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसंततौ ॥ २६ ॥ केशिध्वज उवाच योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम । यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ २७ ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गी मुक्त्यै निर्विषयं मनः ॥ २८ ॥ विषयेभ्यस्समाहृत्य विज्ञानात्मामनो मुनिः । चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ २९ ॥ आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुनिम् । विकार्यमात्मनश्शक्त्या लोहमाकर्षको यथा ॥ ३० ॥ आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ ३१ ॥ एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणः । यस्य योगस्स वै योगी मुमुक्षुरभिधीयते ॥ ३२ ॥ योगयुक्प्रथमं योगी युञ्जानो ह्यभिधीयते । विनिष्पन्नसमाधिस्तु परं ब्रह्मोपलब्धिमान् ॥ ३३ ॥ यद्यन्तरायदोषेण दूष्यते चास्य मानसम् । जन्मान्तरैरभ्यसतो मुक्तिः पूर्वस्य जायते ॥ ३४ ॥ विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ ३५ ॥ ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ॥ ३६ ॥ स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ॥ ३७ ॥ एते यमास्सनियमाः पञ्च पञ्च च कीर्त्तिताः । विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥ ३८ ॥ एकं भद्रा सनादीनां समास्थाय गुणैर्युतः । यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ ३९ ॥ प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यत् । प्राणायामस्स विज्ञेयस्सबीजोऽबीज एव च ॥ ४० ॥ परस्परेणाभिभवं प्राणापानौ यथानिलौ । कुरुतस्सद्विधानेन तृतीयस्संयमात्तयोः ॥ ४१ ॥ तस्य चालम्बनवतः स्थूलरूपं द्विजोत्तम । आलम्बनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥ ४२ ॥ शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ ४३ ॥ वश्यता परमा तेन जायतेऽतिचलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ ४४ ॥ प्राणयामेन पवने प्रत्याहारेण चेन्द्रिये । वशीकृते ततः कुर्यात्स्थितं चेतश्शुभाश्रये ॥ ४५ ॥ खाण्डिक्य उवाच कथ्यतां मे महाभाग चेतसो यश्शुभाश्रयः । यदाधारमशेषं तद्धन्ति दोषमलोद्भवम् ॥ ४६ ॥ केशिध्वज उवाच आश्रयश्चेतसो ब्रह्म द्विधा तच्च स्वभावतः । भूप मूर्त्तममूर्त्तं च परं चापरमेव च ॥ ४७ ॥ त्रिविधा भावना भूप विश्वमेतन्निबोधताम् । ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ ४८ ॥ कर्मभावात्मिका ह्येका ब्रह्मभावात्मिका परा । उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ ४९ ॥ सनन्दनादयो ये तु ब्रह्मभावनया युताः । कर्मभावनया चान्ये देवाद्याः स्थावरावराः ॥ ५० ॥ हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा । बोधाधिकारयुक्तेषु विद्यते भावभावना ॥ ५१ ॥ अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु । विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृणाम् ॥ ५२ ॥ प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसञ्ज्ञितम् ॥ ५३ ॥ तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम् । विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ॥ ५४ ॥ न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः । ततस्स्थूलं हरे रूपं चिन्तयेद्विश्वगोचरम् ॥ ५५ ॥ हिरण्यगर्भो भगवान्वासुदेवः प्रजापतिः । मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ॥ ५६ ॥ गन्धर्वयक्षदैत्याद्यास्सकला देवयोनयः । मनुष्याः पशवश्शैलास्समुद्रास्सरितो द्रुमाः ॥ ५७ ॥ भूप भूतान्यशेषाणि भूतानां ये च हेतवः । प्रधानादिविशेषान्तं चेतनाचेतनात्मकम् ॥ ५८ ॥ एकपादं द्विपादं च बहुपादमपादकम् । मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ ५९ ॥ एतत्सर्वमिदं विश्वं जगदेतच्चराचरम् । परब्रह्मस्वरूपस्य विष्णोश्शक्तिसमन्वितम् ॥ ६० ॥ विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा । अविद्याकर्मसञ्ज्ञान्या तृतीया शक्तिरिष्यते ॥ ६१ ॥ यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृपसर्वगा । संसारतापानखिलानवाप्नोत्यतिसन्ततान् ॥ ६२ ॥ तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसञ्ज्ञिता । सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ॥ ६३ ॥ अप्राणवत्सुस्वल्पा सा स्थावरेषु ततोऽधिका । सरीसृपेषु तेभ्योऽपि ह्यतिशक्त्या पतत्त्रिषु ॥ ६४ ॥ पतत्त्रिभ्यो मृगास्तेभ्यस्तच्छक्त्या पशवोऽधिकाः । पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः ॥ ६५ ॥ तेभ्योऽपि नागगन्धर्वयक्षाद्या देवता नृप । शक्रस्समस्तदेवेभ्यस्ततश्चातिप्रजापतिः । हिरण्यगर्भोऽपि ततः पुंसश्शक्त्युपलक्षितः ॥ ६६ ॥ एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव । यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥ ६७ ॥ द्वितीयं विष्णुसञ्ज्ञस्य योगिध्येयं महामते । अमूर्त्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ॥ ६८ ॥ समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूप्यं रूपमन्यद्धरेर्महत् ॥ ६९ ॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्यादिचेष्टावंति स्वलीलया ॥ ७० ॥ जगतामुपकाराय न सा कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥ ७१ ॥ तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप । चिन्त्यमात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥ ७२ ॥ यथाग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ ७३ ॥ तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः । कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥ ७४ ॥ शुभाश्रयस्य चित्तस्य सर्वगस्याचलात्मनः । त्रिभावभावनातीतो मुक्तये योगिनो नृप ॥ ७५ ॥ अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ ७६ ॥ मूर्त्तं भगवतो रूपं सर्वापाश्रयनिस्पृहम् । एषा वै धारण प्रोक्ता यच्चित्तं तत्र धार्यते ॥ ७७ ॥ यच्च मूर्त्तं हरे रूपं यादृक् चिन्त्यं नराधिप । तच्छ्रूयतामनाधारा धारणा नोपपद्यते ॥ ७८ ॥ प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् । सुकपोलं सुविस्तीर्णललाटफकोज्ज्वलम् ॥ ७९ ॥ समकर्णान्तविन्यस्य चारुकुण्डलभूषणम् । कम्बुग्रीवं सुवीस्तीर्णश्रीवत्साङ्कितवक्षसम् ॥ ८० ॥ वलित्रिभङ्गिना मग्ननाभिना ह्युदरेण च । प्रलम्बाष्टभुजं विष्णुमथवापि चतुर्भुजम् ॥ ८१ ॥ समस्थितोरुजङ्घञ्च सुस्थिताङ्घ्रिवराम्बुजम् । चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥ ८२ ॥ किरीटहारकेयूरकटकादिविभूषितम् । शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् । वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ ८३ ॥ चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥ ८४ ॥ व्रजतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ॥ ८५ ॥ ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः । चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ ८६ ॥ सा यदा धारणा तद्वदवस्थानवती ततः । किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ ८७ ॥ तदेकावयवं देवं चेतसा हि पुनर्बुधः । कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥ ८८ ॥ तद्रूपप्रत्यया चैका सन्ततिश्चान्यनिःस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ॥ ८९ ॥ तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिस्सोऽभिधीयते ॥ ९० ॥ विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव । प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ ९१ ॥ क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् । निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्त्तते ॥ ९२ ॥ तद्भावभावमापन्नस्ततोऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ ९३ ॥ विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ ९४ ॥ इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः । सङ्क्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥ ९५ ॥ खाण्डिक्य उवाच कथिते योगसद्भावे सर्वमेव कृतं मम । तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः ॥ ९६ ॥ ममेति यन्मया चोक्तमसदेतन्न चान्यथा । नरेन्द्र गदितुं शक्यमपि विज्ञेयवेदिभिः ॥ ९७ ॥ अहं ममेत्यविद्येयं व्यवहारस्तथानयोः । परमार्थस्त्वसंलापो गोचरे वचसां न यः ॥ ९८ ॥ तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् । यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाऽव्ययः ॥ ९९ ॥ श्रीपराशर उवाच यथार्हं पूजया तेन खाण्डिक्येन स पूजितः । आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ॥ १०० ॥ खाण्डिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये । वनं जगाम गोविन्दे विनिवेशितमानसः ॥ १०१ ॥ तत्रैकान्तमतिर्भूत्वा यमादिगुणसंयुतः । विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥ १०२ ॥ केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखः । बुभुजे विषयान्कर्म चक्रे चानभिसंहितम् ॥ १०३ ॥ सकल्याणोपभोगैश्च क्षीणपापोऽमलस्तथा । अवाप सिद्धिमत्यन्तां तापक्षयफलां द्विज ॥ १०४ ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे सप्तमोऽध्यायः ॥ अध्यायः ८ (Adhyaaya 8) ===================================================== श्रीपराशर उवाच इत्येष कथितस्सम्यक्तृतीयः प्रतिसञ्चरः । आत्यन्तिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते ॥ १ ॥ सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरितं चैव भवतो गदितं मया ॥ २ ॥ पुराणं वैष्णवं चैतत्सर्वकिल्विषनाशनम् । विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ ३ ॥ तुभ्यं यथावन्मैत्रेय प्रोक्तं शुश्रूषवेऽव्ययम् । यदन्यदपि वक्तव्यं तत्पृच्छाद्य वदामि ते ॥ ४ ॥ श्रीमैत्रेय उवाच भगवन्कथितं सर्वं यत्पृष्टोसि मया मुने । श्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे ॥ ५ ॥ विच्छिन्नास्सर्वसन्देहा वैमल्यं मनसः कृतम् । त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसङ्क्षयाः ॥ ६ ॥ ज्ञातश्च त्रिविधो राशिश्शक्तिश्च त्रिविधा गुरो । विज्ञाता सा च कार्त्स्न्येन त्रिविधा भावभावना ॥ ७ ॥ त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैरलं द्विज । यदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ॥ ८ ॥ कृतार्थोऽहमसन्देहस्त्वत्प्रसादान्महामुने । वर्णधर्मादयो धर्मा विदिता यदशेषतः ॥ ९ ॥ प्रवृत्तं च निवृत्तं च ज्ञातं कर्ममयाखिलम् । प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे ॥ १० ॥ यदस्य कथनायासैर्योजितोऽसि मया गुरो । तत्क्षम्यतां विशेषोऽस्ति न सतां पुत्रशिष्ययोः ॥ ११ ॥ श्रीपराशर उवाच एतत्ते यन्मयाख्यातं पुराणं वेदसम्मितम् । श्रुतेऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ १२ ॥ सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरितं कृत्स्नं मयाऽत्र तव कीर्त्तितम् ॥ १३ ॥ अत्र देवास्तथा दैत्या गन्धर्वोरगराक्षसाः । यक्षविद्याधरास्सिद्धाः कथ्यन्तेऽप्सरसस्तथा ॥ १४ ॥ मुनयो भावितात्मानः कथ्यन्ते तपसान्विताः । चातुर्वर्ण्यं तथा पुंसां विशिष्टचरितानि च ॥ १५ ॥ पुण्याः प्रदेशा मेदिन्याः पुण्या नद्योऽथ सागराः । पर्वताश्च महापुण्याश्चरितानि च धीमताम् ॥ १६ ॥ वर्णधर्मादयो धर्मा वेदशास्त्राणि कृत्स्नशः । येषां संस्मरणात्सद्यस्सर्वपापैः प्रमुच्यते ॥ १७ ॥ उत्पत्तिस्थितिनाशानां हेतुर्यो जगतोऽव्ययः । स सर्वभूतस्सर्वात्मा कथ्यते भगवान्हरिः ॥ १८ ॥ अवशेनापि यन्नाम्नि कीर्त्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥ १९ ॥ यन्नामकीर्त्तनं भक्त्या विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावकः ॥ २० ॥ कलिकल्मषमत्युग्रं नरकार्त्तिप्रदं नृणाम् । प्रयाति विलयं सद्यस्सकृद्यत्र च संस्मृते ॥ २१ ॥ हिरण्यगर्भदेवेन्द्र रुद्रादित्याश्विवायुभिः । पावकैर्वसुभिस्साध्यैर्विश्वेदेवादिभिस्सुरैः ॥ २२ ॥ यक्षरक्षोरगैस्सिद्धैर्दैत्यगन्धर्वदानवैः । अप्सरोभिस्तथा तारानक्षत्रैस्सकलैर्ग्रहैः ॥ २३ ॥ सप्तर्षिभिस्तथा धिष्ण्यैर्धिष्ण्याधिपतिभिस्तथा । ब्राह्मणाद्यैर्मनुष्यैश्च तथैव पशुभिर्मृगैः ॥ २४ ॥ सरीसृपैर्विहङ्गैश्च पलाशाद्यैर्महीरुहैः । वनाग्निसागरसरित्पातालैस्ससुराग्निभिः ॥ २५ ॥ शब्दादिभिश्च सहितं ब्रह्माण्डमखिलं द्विज । मेरोरिवाणुर्यस्यैतद्यन्मयं च द्विजोत्तम ॥ २६ ॥ स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितः । भगवान्कीर्त्तितो विष्णुरत्र पापप्रणाशनः ॥ २७ ॥ यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम् । मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम ॥ २८ ॥ प्रयागे पुष्करे चैव कुरुक्षेत्रे तथाऽर्णवे । कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः ॥ २९ ॥ यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवः । महापुण्यफलं विप्र तदस्य श्रवणात्सकृत् ॥ ३० ॥ यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले । मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ ३१ ॥ तदाप्नोत्यखिलं सम्यगध्यायं यश्शृणोति वै । पुराणस्यास्य विप्रर्षे केशवार्पितमानसः ॥ ३२ ॥ यमुनासलिलस्नातः पुरुषो मुनिसत्तम । ज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः ॥ ३३ ॥ समभ्यर्च्याच्युतं सम्यङ्मथुरायां समाहितः । अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ ३४ ॥ आलोक्यर्द्धिमथान्येषामुन्नीतानां स्ववंशजैः । एतत्किलोचुरप्येषां पितरः सपितामहाः ॥ ३५ ॥ कच्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः । अर्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥ ३६ ॥ ज्येष्ठामूले सिते पक्षे केनैवं वयमप्युत । परामृद्धिमवाप्स्यामस्तारितास्स्वकुलोद्भवैः ॥ ३७ ॥ ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम् । धन्यानां कुलजः पिण्डान्यमुनायां प्रदास्यति ॥ ३८ ॥ तस्मिन्काले समभ्यर्च्य तत्र कृष्णं समाहितः । दत्त्वा पिण्डं पितृभ्यश्च यमुनासलिलाप्लुतः ॥ ३९ ॥ यदाप्नोति नरः पुण्यं तारयन्स्वपितामहान् । श्रुत्वाध्यायं तदाप्नोति पुराणस्यास्य शक्तितः ॥ ४० ॥ एतत्संसारभीरूणां परित्राणमनुत्तमम् । श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥ ४१ ॥ दुःखप्रनाशनं नॄणां सर्वदुष्टनिबर्हणम् । मङ्गलं मङ्गलानां च पुत्रसंपत्प्रदायकम् ॥ ४२ ॥ इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः । ऋभुः प्रियव्रतायाह स च भागुरयेऽब्रवीत् ॥ ४३ ॥ भागुरिस्स्तंभमित्राय दधीचाय स चोक्तवान् । सारस्वताय तेनोक्तं भृगुस्सारस्वतेन च ॥ ४४ ॥ भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान् । नर्मदा धृतराष्ट्राय नागायापूरणाय च ॥ ४५ ॥ ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज । वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ॥ ४६ ॥ कम्बलाय च तेनोक्तमेलापुत्राय तेन वै । पातालं समनुप्राप्तस्ततो वेदशिरा मुनिः । प्राप्तवानेतदखिलं स च प्रमतये ददौ ॥ ४७ ॥ दत्तं प्रमतिना चैतज्जातुकर्णाय धीमते । जातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम् ॥ ४८ ॥ पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम् । मयापि तुभ्यं मैत्रेय यथावत्कथितं त्विदम् ॥ ४९ ॥ त्वमप्येतच्छिनीकाय कलेरन्ते वदिष्यसि । इत्येतत्परमं गुह्यं कलिकल्मषनाशनम् । यश्शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ५० ॥ समस्ततीर्थस्नानानि समस्तामरसंस्तुतिः । कृता तेन भवेदेतद्यश्शृणोति दिने दिने ॥ ५१ ॥ कपिलादानजनितं पुण्यमत्यंतदुर्लभम् । श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ॥ ५२ ॥ यस्त्वेतत्सकलं शृणोति पुरुषः कृत्वा मनस्यच्युतं सर्वं सर्वमयं समस्तजगतामाधारमात्माश्रयम् । ज्ञानंज्ञेयमनादिम३रहितं सर्वामराणां हितं स प्राप्नोति न संशयोस्त्यविकलं यद्वाजिमेधे फलम् ॥ ५३ ॥ यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथान्ते च स ब्रह्मज्ञानमयोऽच्युतोऽखिलजगन्मध्यान्तसर्गप्रभुः । तत्सर्वं पुरुषः पवित्रममलं शृण्वन्पठन्वाचयन्प्राप्नोत्यस्ति न तत्फलं त्रिभुवनेष्वेकान्तसिद्धिर्हरिः ॥ ५४ ॥ यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः । मुक्तिं चेतसि यस्स्थितोऽमलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्त्तिते ॥ ५५ ॥ यज्ञैर्यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो यं वै ब्रह्ममयं परावरमयं ध्यायन्ति च ज्ञानिनः । यं सञ्चिन्त्य न जायते न म्रियते नो वर्द्धते हीयते नैवासन्न च सद्भवत्यति ततः किं वा हरेश्श्रूयताम् ॥ ५६ ॥ कव्यं यः पितृरूपधृग्विधिहुतं हव्यञ्च भुङ्क्ते विभुर्देवत्वे भगवाननादिनिधनस्स्वाहास्वधासञ्ज्ञिते । यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां विष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ॥ ५७ ॥ नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य । नापक्षयं च समुपैत्यविकारि वस्तु यस्तं नतोऽस्मि पुरुषोत्तममीशमीड्यम् ॥ ५८ ॥ तस्यैव योऽनु गुणभुग्बहुधैक एव शुद्धोऽप्यशुद्ध इव भाति हि मूर्त्तिभेदैः । ज्ञानान्वितस्सकलसत्त्वविभूतिकर्त्ता तस्मै नमोऽस्तु पुरुषाय सदाव्ययाय ॥ ५९ ॥ ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय । अव्याकृताय भवभावनकारणाय वन्दे स्वरूपभवनाय सदाऽजराय ॥ ६० ॥ व्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय । पुंसस्समस्तकरणैरुपकारकाय व्यक्ताय सूक्ष्मबृहदात्मवते नतोऽस्मि ॥ ६१ ॥ इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य । प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां सिद्धिम् ॥ ६२ ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे अष्टमोऽध्यायः ॥ ॥ इति श्रीविष्णुपुराणे षष्ठो अंशः समाप्तः ॥ ॥ इति श्रीविष्णुमहापुराणं सम्पूर्णम् ॥ -------------------------------------------------------------- FOOTNOTES -------------------------------------------------------------- Adhyaaya 2, Shloka 17: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Punyakeerti' Adhyaaya 4, Shloka 39: Quoted by Shri Yamunacharya, in Aagama Pramaanya, Paragraph 81 Adhyaaya 5, Shlokas 71-72: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam Adhyaaya 5, Shloka 74: Quoted by Shri Madhvacharya, in his Geeta bhaashya, Adhyaaya 2, Shloka 72; Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Bhagavaan' Adhyaaya 5, Shloka 79: Quoted by Shri Ramanujacharya, in Vedaartha Sangraha, Paragraph 47; Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Mahaashaktihi' Adhyaaya 5, Shlokas 83-87: Quoted by Shri Ramanujacharya, in Vedaartha Sangraha, Paragraph 157; Shlokas 84-85 have been quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam Adhyaaya 7, Shloka 76: Quoted by Shri Paraashara Bhattar, in Bhagavadguna Darpanam (Page 69 of the English translation) Adhyaaya 8, Shloka 19: Quoted by Shri Madhvacharya, in Krshnaamrta Mahaarnava, Shloka 65; Shri Vedaanta Deshika, in Rahasyatraya Saara, Chapter 26; Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Punyakeerti' Adhyaaya 8, Shloka 20: Quoted by Shri Madhvacharya, in Krshnaamrta Mahaarnava, Shloka 59; Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Punyakeerti' *********************************************************************** This document has been provided by Achyuta Bhakti Deets. Visit https://bhaktideets.org or https://elib.bhaktideets.org for more Shaastra related content. © Copyrights 2022-25 Achyuta Bhakti Deets श्री हरये नमः । श्रीकृष्णार्पणमस्तु ॥