श्री नारायणाय नमः । ===================================================== Filename : 18-SvargaarohanaParva.txt Name of the Text: Mahaabhaarata - Svargaarohana Parva Category : Shaastra Subcategory : Itihaasa Details : Language/Script : Samskrta (Devanaagari) Author : Krshna-Dvaipaayana Vyaasa Deva Published on : 29 July 2026 Last updated on : - © Copyrights 2022-24 Achyuta Bhakti Deets ===================================================== Mahaabhaarata - Svargaarohana Parva महाभारतः - स्वर्गारोहणपर्व नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥ नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम् ॥ २ ॥ अध्यायः १ (Adhyaaya 1) ===================================================== जनमेजय उवाच स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः । पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ॥ १ ॥ एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः । महर्षिणाऽभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ॥ २ ॥ वैशम्पायन उवाच स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः । युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ॥ ३ ॥ स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः । दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ॥ ४ ॥ भ्राजमानमिवादित्यं वीरलक्ष्म्याऽभिसंवृतम् । देवैर्भ्राजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः ॥ ५ ॥ ततो युधिष्ठिरो राजा दुर्योधनममर्षितः । सहसा सन्निवृत्तोऽभूच्छ्रियं दृष्ट्वा सुयोधने ॥ ६ ॥ ब्रुवन्नुच्चैर्वचस्तान्वै नाहं दुर्योधनेन वै । सहितः कामये लोकाँल्लब्धेनादीर्घदर्शिना ॥ ७ ॥ यत्कृते पृथिवी सर्वा सुहृदो बान्धवास्तथा । हतास्माभिः प्रसह्याजौ किल्ष्टैः पूर्वं महावने ॥ ८ ॥ द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी । पर्याकृष्टाऽनवद्याङ्गी पत्नी नो गुरुसन्निधौ ॥ ९ ॥ अस्ति देवा न मे कामः सुयोधनमुदीक्षितुम् । तत्राहं गन्तुमिच्छामि यत्र ते भ्रातरो मम ॥ १० ॥ नैवमित्यब्रवीत्तं तु नारदः प्रहसन्निव । स्वर्गे निवासे राजेन्द्र विरुद्धं चापि नश्यति ॥ ११ ॥ युधिष्ठिर महाबाहो मैवं वोचः कथञ्चन । दुर्योधनं प्रति नृपं शृणु चेदं वचो मम ॥ १२ ॥ एष दुर्योधनो राजा पूज्यते त्रिदशैः सह । सद्भिश्च राजप्रवरैते इमे स्वर्गवासिनः ॥ १३ ॥ वीरलोकगतिं प्राप्ता युद्धे हुत्वाऽऽत्मनस्तनुम् । यूयं सर्वे सुरसमा येन युद्धेन बाधिताः ॥ १४ ॥ स एष क्षत्रधर्मेण स्थानमेतदवाप्तवान् । भये महति योऽभीतो बभूव पृथिवीपतिः ॥ १५ ॥ न तन्मनसि कर्तव्यं पुत्र यद्द्यूतकारितम् । द्रौपद्याश्च परिक्लेशं न चिन्तयितुमर्हसि ॥ १६ ॥ ये चान्येऽपि परिक्लेशा युष्माकं ज्ञातिकारिताः । संग्रामेष्वथवाऽन्यत्र न तान्संस्मर्तुमर्हसि ॥ १७ ॥ समागच्छ यथान्यायं राज्ञा दुर्योधनेन वै । स्वर्गोऽयं नेह वैराणि भन्ति मनुजाधिप ॥ १८ ॥ नारदेनैवमुक्तस्तु कुरुराजो युधिष्ठिरः । भ्रातॄन्पप्रच्छ मेधावी वाक्यमेतदुवाच ह ॥ १९ ॥ यदि दुर्योधनस्यैते वीरलोकाः सनातनाः । अधर्मज्ञस्य पापस्य पृथिवीसुहृदद्रुहः ॥ २० ॥ यत्कृते पृथिवी नष्टा सहसा सनरद्विपा । वयं च मन्युना दग्धा वैरं प्रतिचिकीर्षवः ॥ २१ ॥ ये ते वीरी महात्मानो भ्रातरो मे महाव्रताः । सत्यप्रतिज्ञा लोकस्य शूरा वै सत्यवादिनः । तेषामिदानीं के लोका द्रष्टुमिच्छामि तानहम् ॥ २२ ॥ कर्णं चैव महात्मानं कौन्तेयं सत्यसङ्गरम् । धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान् ॥ २३ ॥ ये च शस्त्रैर्वधं प्राप्ताः क्षत्रधर्मेण पार्थिवाः । क्वनु ते पार्थिवान्ब्रह्मन्नैतान्पश्यामि नारद ॥ २४ ॥ विराटद्रुपदौ चैव धृष्टकेतुमुखांश्च तान् । शिखण्डिनं च पाञ्चाल्यं द्रौपदेयांश्च सर्वशः । अभिमन्युं च दुर्धर्षं द्रष्टुमिच्छामि नारद ॥ २५ ॥ ॥ इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि प्रथमोऽध्यायः ॥ अध्यायः २ (Adhyaaya 2) ===================================================== युधिष्ठिर उवाच नेह पश्यामि विबुधा राधेयममितौजसम् । भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ ॥ १ ॥ जुहुवुर्ये शरीराणि रणवह्नौ महारथाः । राजानो राजपुत्राश्च ये मदर्थे हता रणे ॥ २ ॥ क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः । तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः ॥ ३ ॥ यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः । स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ॥ ४ ॥ कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः । न तैरहं विना वत्स्ये भ्रातृभिर्ज्ञातिभिस्तथा ॥ ५ ॥ मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि । कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ॥ ६ ॥ इदं च परितप्यामि पुनःपुनरहं सुराः । यन्मातुः सदृशौ पादौ तस्याहममितात्मनः ॥ ७ ॥ दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् । न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ॥ ८ ॥ तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् । अविज्ञातो मया योसौ घातितः सव्यसाचिना ॥ ९ ॥ भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम । अर्जुनं चेन्द्रसंकाशं यमौ चैव यमोपमौ ॥ १० ॥ द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम् । न चेह स्थातुमिच्छामि सत्यमेवं ब्रवीमि वः ॥ ११ ॥ किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः । यत्र ते मम स स्वर्गो नायं स्वर्गो मतो मम ॥ १२ ॥ देवा ऊचुः यदि वै तत्र ते श्रद्धा गम्यतां तत्र माचिरम् । प्रिये हि तव वर्तामो देवराजस्य शासनात् ॥ १३ ॥ वैशम्पायन उवाच इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन् । युधिष्ठिरस्य सुहृदो दर्शयेतदि परंतप ॥ १४ ॥ ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः । सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः ॥ १५ ॥ अग्रतो देवदूतश्च ययौ राजा च पृष्ठतः । पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः ॥ १६ ॥ तमसा संवृतं घोरं केशशैवलशाद्वलम् । युक्तं पापकृतां गन्धैर्मासशोणितकर्दमम् ॥ १७ ॥ दंशोत्पातकभल्लूकमक्षिकामशकावृतम् । इतश्चेतश्च कुणपैः समन्तात्परिवारितम् ॥ १८ ॥ अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम् । ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम् ॥ १९ ॥ अयोमुखैश्च काकाद्यैर्गृध्रैश्च समभिद्रुतम् । सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम् ॥ २० ॥ मेदोरुधिरयुक्तैश्च च्छिन्नबाहूरुपाणिभिः । निकृत्तोदरपदैश्च तत्रतत्र प्रवेशितैः ॥ २१ ॥ स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम् । जगाम राजा धर्मान्मा मध्ये बहु विचिन्तयन् ॥ २२ ॥ ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम् । असिपत्रवनं चैव निशितं क्षुरसंवृतम् ॥ २३ ॥ करम्भवालुकास्तप्ता आयसीश्चि शिलाः पृथक् । लोहकुंभीश्च तैलस्य क्वाथ्यमानाः समन्ततः ॥ २४ ॥ कूटशाल्मलिकं तापि दुःस्पर्शं तीक्ष्णकण्टकम् । ददर्शान्याश्च कौन्तेयो यातनाः पापकर्मिणाम् ॥ २५ ॥ स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह । कियदध्वानमस्माभिर्गन्तव्यमिममीदृशम् ॥ २६ ॥ क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि । देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम् ॥ २७ ॥ स संनिववृते श्रुत्वा धर्मराजस्य भाषितम् । देवदूतोऽब्रवीचैनमेतावद्गमनं तव ॥ २८ ॥ निवर्तितव्यो हि मया तताऽस्म्युक्तो दिवौकसैः । यदि श्रान्तोसि राजेन्द्रि त्वमथागन्तुमर्हसि ॥ २९ ॥ युधिष्ठिरस्तु निर्विण्णस्तेनि गन्धेन मूर्छितः । निवर्तने धृतमनाः पर्यावर्तत भारत ॥ ३० ॥ सं संनिवृत्तो धर्मात्मा दुःखशोकसमाहतः । शुश्राव तत्र वदतां दीना वाचः समन्ततः ॥ ३१ ॥ भोभो धर्मज राजर्षे पुण्याभिजन पाण्वन । अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ॥ ३२ ॥ आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः । तव गन्धानुगस्तात येनास्मान्सुखमागमत् ॥ ३३ ॥ ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ । सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥ ३४ ॥ संतिष्ठस्व महाबाहो मुहूर्तमिह भारत । त्वयि तिष्ठति कौरव्य यातनाऽस्मान्न बाधते ॥ ३५ ॥ एवं बहुविधा वाचः कृपणा वेदनावताम् । तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ॥ ३६ ॥ तेषां तु वचनं श्रुत्वा दयावान्दीनभाषिणाम् । अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ॥ ३७ ॥ स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनःपुनः । ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ॥ ३८ ॥ अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः । उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ॥ ३९ ॥ इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे । कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ॥ ४० ॥ नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत । द्रौप्दी द्रौपदेयाश्चि इत्येवं ते विचुक्रुशुः ॥ ४१ ॥ ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप । ततो विममृशे राजा किंत्विदं दैवकारितम् ॥ ४२ ॥ किन्तु तत्कलुषं कर्म कृतमेभिर्महात्मभिः । कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ॥ ४३ ॥ य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे । नाहं जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ॥ ४४ ॥ किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः । तथा श्रिया युतः पापैः सहसर्वैः पदानुगैः ॥ ४५ ॥ महेन्द्रि इव लक्ष्मीवानास्ते परमपूजितः । कस्येदानीं विकारोऽयं य इमे नरकं गताः ॥ ४६ ॥ सर्वे धर्मविदः शूराः सत्यागमपरायणाः । क्षत्रधर्मरताः सन्तो यज्वानो भूरिदक्षिणाः ॥ ४७ ॥ किंनु सुप्तोस्मि जागर्मि चेतयामि न चेतये । अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ॥ ४८ ॥ एवं बहुविधं राजा विममर्श युधिष्ठिरः । दुःखशोकसमाविष्टश्चिन्ताव्याकुलितेन्द्रियः ॥ ४९ ॥ क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः । देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ॥ ५० ॥ स तीव्रशोकसंतप्तो देवदूतमुवाच ह । गम्यतां तत्र येषां त्वं दूतस्तेषामुपान्तिकम् ॥ ५१ ॥ न ह्यहं तत्र यास्यामि स्थितोस्मीति निवेद्यताम् । मत्संश्रयादिमे दूनाः सुखिनो भ्रातरो हि मे ॥ ५२ ॥ इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता । जगामि तत्र यत्रास्ते देवराजः शतक्रतुः ॥ ५३ ॥ निवेदयामास च तद्धर्मराजचिकीर्षितम् । यथोक्तं धर्मपुत्रेण सर्वमेव जनाधिप ॥ ५४ ॥ ॥ इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि द्वितीयोऽध्यायः ॥ अध्यायः ३ (Adhyaaya 3) ===================================================== वैशम्पायन उवाच स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिष्ठिरे । आजग्मुस्तत्र कौरव्यं देवाः शक्रपुरोगमाः ॥ १ ॥ स च विग्रहवान्धर्मो राजानं संपरीक्ष्य तम् । तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ॥ २ ॥ तेषु भासुरदेहेषु पुण्याभिजनकर्मसु । समागतेषु देवेषु व्यगमत्तत्तमो नृप ॥ ३ ॥ नादृश्यन्त च तास्तत्र यातनाः पापकर्मणाम् । नदी वैतरणी चैव कूटशाल्मलिना सह ॥ ४ ॥ लोहकुंभ्यः शिलाश्चैव नादृश्यन्त भयानकाः । विकृतानि शरीराणि यानि तत्र समन्ततः ॥ ५ ॥ ददर्श राजा कौरव्यस्तान्सर्वान्सुमहाप्रभान् । ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः । ववौ देवसमीपस्थः शीतलोऽतीव भारत ॥ ६ ॥ मरुतः सह शक्रेण वसवश्चाश्विनौ सह । साध्या रुद्रास्तथाऽऽदित्या ये चान्येऽपिदिवौकसः ॥ ७ ॥ सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः । यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ॥ ८ ॥ ततः शक्रः सुरपतिः श्रिया परमया युतः । युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ॥ ९ ॥ युधिष्ठिर महाबाहो प्रीता देवगणास्त्वया । एह्येहि पुरुषव्याघ्र कृतमेतावता विभो ॥ १० ॥ सिद्धिः प्राप्ता महाबाहो लोकाश्चाप्यक्षयास्तव । भ्रातॄणां सुहृदां चैव गतिर्नित्या सुपूजिता ॥ ११ ॥ न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम । अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ॥ १२ ॥ शुभानामनशुभानां च द्वौ राशी पुरुषर्षभ । यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः ॥ १३ ॥ पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः । भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते ॥ १४ ॥ भूयिष्ठशुभकर्मा त्वमल्पजिह्मतयाऽच्युत । तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप ॥ १५ ॥ व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति । व्याजेनैव ततो राजन्दर्शितो नरकस्तव ॥ १६ ॥ यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा । द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः । आगच्छ नरशार्दूल मुक्तास्ते चैव कल्मषात् ॥ १७ ॥ स्वपक्ष्याश्चैव ये तुभ्यं पार्थिवा निहता रणे । सर्वे स्वर्गमनुप्राप्तास्तान्पश्य भरतर्षभ ॥ १८ ॥ कर्णश्चैव महेष्वासः सर्वशस्त्रभृतांवरः । स गतः परमां सिद्धिं यदर्थं परितप्यसे ॥ १९ ॥ तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो । स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ ॥ २० ॥ भ्रातॄन्पुत्रांस्तथा पश्य स्वपक्ष्यांश्चैव पार्थिवान् । स्वंस्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः ॥ २१ ॥ कृच्छ्रं पूर्वं चानुभूय इतःप्रभृति कौरव । विहारस्व मया सार्धं गतशोको निरामयः ॥ २२ ॥ कर्मणां तात पुण्यानां ज्ञानानां तपसां स्वयम् । दानानां च महाबाहो फलं प्राप्नुहि पार्थिवः ॥ २३ ॥ अद्य त्वां देवगन्दर्वा दिव्याश्चाप्सरसो दिवि । उपसेवन्तु कल्याणं विरजंबरभूषणाः ॥ २४ ॥ राजसूयजितां लोकानश्वमेधभिनिर्मितान् । प्राप्नुहि त्वं महाबाहो तपसश्च महाफलम् ॥ २५ ॥ उपर्युपरि राज्ञां हि तव लोकाः युधिष्ठिर । हरिश्चन्द्रमसः पार्थ येषु त्वं विहरिष्यसि ॥ २६ ॥ मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः । दौष्यन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ॥ २७ ॥ एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी । आकाशगङ्गा राजेन्र्र तत्राप्लुत्य गमिष्यसि ॥ २८ ॥ अत्र स्नातस्य भावस्ते मानुषो विगमिष्यति । गतशोको निरायासो मुक्तवैरो भविष्यसि ॥ २९ ॥ एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् । धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ॥ ३० ॥ भोभो राजन्महाप्राज्ञ प्रीतोस्मि तव पुत्रक । मद्भक्त्या सत्यवाक्यैश्च क्षमया च दमेन च ॥ ३१ ॥ एषा तृतीया जिज्ञासा तव राजन्कृता मया । न शक्यसे चालयितुं स्वभावात्पार्थ हेतुतः ॥ ३२ ॥ पूर्वं परीक्षितो हि त्वं प्रश्नाद्द्वैतवने मया । अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि ॥ ३३ ॥ सोदर्येषु विनष्टेषु द्रौपद्या तत्र भारत । श्वरूपधारिणा तत्र पुनस्त्वं मे परीक्षितः ॥ ३४ ॥ इदं तृतीयं भ्रातॄणामर्थे यतस्थातुमिच्छसि । विशुद्धोसि महाभाग सुखी विगतकल्मषः ॥ ३५ ॥ न च ते भ्रातरः पार्थ नरकार्हा विशांपतै । मायैषा देवराजेन महेन्द्रेणि प्रयोजिता ॥ ३६ ॥ अवश्यं नरकास्तात द्रष्टव्याः सर्वराजभिः । ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् ॥ ३७ ॥ न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ । कर्णो वा सत्यवाक् शूरो नरकार्हाश्चिरं नृप ॥ ३८ ॥ न कृष्णा राजपुत्री च नरकार्हा कथञ्चन । एह्येहि भरतश्रेष्ठ पश्य चेमांस्त्रिलोकगान् ॥ ३९ ॥ वैशम्पायन उवाच एवमुक्तः स राजर्षिस्तव पूर्वपितामहः । जगाम सह धर्मेणि सवैश्च त्रिदिवालयैः ॥ ४० ॥ गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम् । अवगाह्य ततो राजा तनुं तत्याज मानुषीम् ॥ ४१ ॥ ततो विव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः । निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः ॥ ४२ ॥ ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः । धर्मेण सहितो धीमांस्तूयमानो महर्षिभिः ॥ ४३ ॥ यत्र ते पुरुषव्याघ्राः शूरा विगतमन्यवः । पाण्डवा धार्तराष्ट्राश्च स्वानि स्थानानि भेजिर ॥ ४४ ॥ ॥ इति श्रीमन्महाभारते स्वर्गारोहणपर्वणि तृतीयोऽध्यायः ॥ अध्यायः ४ (Adhyaaya 4) ===================================================== वैशम्पायन उवाच ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः । स्तूयमानो ययौ तत्र यत्र ते कुरुपुङ्गवाः ॥ १ ॥ ददर्श तत्र गोविन्दं ब्राह्मेण वपुषाऽन्वितम् । तेनैव दृष्टपूर्वेण सादृश्येनैव सूचितम् ॥ २ ॥ दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् । चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ॥ ३ ॥ उपास्यमानं वीरेण फल्गुनेन सुवर्चसा । तथास्वरूपं कौन्तेयो ददर्श मधुसूदनम् ॥ ४ ॥ तावुभौ पुरुषव्याघ्रौ समुद्वीक्ष्य युधिष्ठिरम् । यथावत्प्रतिपेदाते पूजया देवपूजितौ ॥ ५ ॥ अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् । द्वादशादित्यसहितं ददर्श कुरुनन्दनः ॥ ६ ॥ अथापरस्मिन्नुद्देशे मरुद्गणवृतं विभुम् । भीमसेनमथापश्यत्तेनैव वपुषाऽन्वितम् ॥ ७ ॥ वायोर्मूर्तिमतः पार्श्वे दिव्यमूर्तिसमन्वितम् । श्रिया परमया युक्तं सिद्धिं परमिकां गतम् ॥ ८ ॥ अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा । नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥ ९ ॥ तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम् । वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम् ॥ १० ॥ तत्रैनां सहसा राजा स्प्रष्टुमैच्छद्युधिष्ठिरः । ततोऽस्य भगवानिन्द्रः कथयामास देवराट् ॥ ११ ॥ श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता । अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर ॥ १२ ॥ रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना । द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता ॥ १३ ॥ एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः । द्रौपद्यास्तनया राजन्युष्माकममितौजसः ॥ १४ ॥ पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् । एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ॥ १५ ॥ अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः । सूर्यपुत्रो रथिश्रेष्ठो राधेय इति विश्रुतः । आदित्यसहितो भाति पश्यैनं पुरुषर्षभम् ॥ १६ ॥ साध्यानामथ देवानां विश्वेषां मरुतामपि । गणेषु पश्य राजेन्द्र वृष्णन्धकमहारथान् । सात्यकिप्रमुखान्वीरान्भोजांश्चैव महाबलान् ॥ १७ ॥ सोमेन सहितं पश्य सौभद्रमपराजितम् । अभिमन्युं महेष्वासं निशाकरसमद्युतिम् ॥ १८ ॥ एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च सङ्गतः । विमानेन सदाऽभ्येति पिता तव ममान्तिकम् ॥ १९ ॥ वसुभिः सहितं पश्य भीष्मं शान्तनवं नृपम् । द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ॥ २० ॥ एते चान्ये महीपाला योधास्तव च पाण्डव । गन्धर्वसहिता यान्ति यक्षपुण्यजनैस्तथा ॥ २१ ॥ गुह्यकानां गतिं चापि केचित्प्राप्ता नराधिपाः । त्यक्त्वा देहं जितः स्वर्गः पुण्यवाग्बुद्धिकर्मभि ॥ २२ ॥ ॥ इति श्रीमन्महाभारते स्वार्गारोहणपर्वणि चतुर्थोऽध्यायः ॥ अध्यायः ५ (Adhyaaya 5) ===================================================== जनमेजय उवाच भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः । विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥ १ ॥ धृष्टकेजुर्जयत्सेनो राजा चैव स सत्यजित् । दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥ २ ॥ कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः । घटोत्कवादयश्चैव ये चान्ये नानुकीर्तिताः ॥ ३ ॥ ये चान्ये कीर्तिता वीरा राजानो दीप्तमूर्तयः । स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥ ४ ॥ आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम । अन्ते वा कर्मणां कां ते गतिं प्राप्ता नरर्षभाः ॥ ५ ॥ एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं द्विजोत्तम । तपसा हि प्रदीप्तेन सर्वं त्वमनुपश्यति ॥ ६ ॥ सौतिरुवाच इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना । व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ॥ ७ ॥ वैशम्पायन उवाच गन्तव्यं कर्मणामन्ते सर्वेषां मनुजाधिप । शृणु गुह्यमिदं राजन्देवानां भरतर्षभ ॥ ८ ॥ यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् । मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः ॥ ९ ॥ अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् । तेनोक्तं कर्मणामन्ते प्रविशन्ति स्विकां तनुम् ॥ १० ॥ वसूनेव महातेजा भीष्मः प्राप महाद्युतिः । अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥ ११ ॥ बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् । कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणान् ॥ १२ ॥ सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् । धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ॥ १३ ॥ धृतराष्ट्रो सहिता गन्धारी च यशस्विनी । पत्नीभ्यां सहितः पाण्डुमहेन्द्रसदनं ययौ ॥ १४ ॥ विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः । निशठाक्रूरसाम्बाश्च भानुः कण्वो विदूरथः ॥ १५ ॥ भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः । कंशश्चैवोग्रसेनश्च वसुदेवस्तथैव च ॥ १६ ॥ उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः । विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ॥ १७ ॥ वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् । सोभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ॥ १८ ॥ स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् । विवेश सोमं धर्मात्मा कर्मणोन्ते मरारथः ॥ १९ ॥ आविवेश रविं कर्णो निहतः पुरुषर्षभ । द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥ २० ॥ धृतराष्ट्रात्मजाः सर्वे यातुधानान्प्रपेदिरे । धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥ २१ ॥ अनन्तो भगवान्देवः प्रविवेश रसातलम् । पितामहनियोगाद्वै यो योगाद्गामधारयत् ॥ २२ ॥ यः स नारायणो नाम देवदेवः सनातनः । तस्यांशो वासुदेवस्तु कर्मणोन्ते विवेश ह ॥ २३ ॥ षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहाः । अमज्जंस्ताः सरस्वत्यां कालेन जनमेजय ॥ २४ ॥ तत्र त्यक्त्वा शरीराणि दिवमारुरुहुः पुनः । ताश्चैवाप्सरसो भूत्वा वासुदेवमुपाविशन् ॥ २५ ॥ हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः । घटोत्कचादयश्चैव देवान्यक्षांश्च भेजिरे ॥ २६ ॥ दुर्योधनसहायाश्च राक्षसा येऽनुकीर्तिताः । प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥ २७ ॥ भवनं च महेन्द्रस्य कुबेरस्य च धीमतः । वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥ २८ ॥ एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते । कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥ २९ ॥ सौतिरुवाच एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः । विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥ ३० ॥ ततः समापयामासुः कर्म तत्तस्य याजकाः । आस्तिकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान् ॥ ३१ ॥ ततो द्विजातीन्सर्वास्तान्दक्षिणाभिरतोषयत् । पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥ ३२ ॥ विसर्जयित्वा विप्रांस्तान्राजाऽपि जनमेजयः । हृष्टस्तक्षशिलायाः स पुनरायाद्गचाह्वयम् ॥ ३३ ॥ एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम् । व्यासाज्ञया समाज्ञातं सर्पसत्रे नृपस्य हि ॥ ३४ ॥ पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् । कृष्णेन मुनिना विप्र निर्मितं सत्यवादिना ॥ ३५ ॥ सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता । अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥ ३६ ॥ ऐश्वर्ये वर्तता चैव साङ्ख्ययोगवता तथा । नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥ ३७ ॥ कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् । अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ ३८ ॥ क्रीडां च वासुदेवस्य देवदेवस्य शाङ्गिणः । विश्वेषां देवभागानां जन्मसायुज्यमेव च ॥ ३९ ॥ य इदं शृणुयाद्विद्वान्पर्वसु द्विजसत्तमः । धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ॥ ४० ॥ कार्ष्णं वेदमिमं सर्वं शृणुयाद्यः समाहितः । ब्रह्महत्याकृतं पापं तत्क्षणादेव नश्यति ॥ ४१ ॥ यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यमन्नपानं वै पितॄंस्तस्योपतदिष्ठते ॥ ४२ ॥ अह्ना यदेनः कुरुते इन्द्रियैर्मनसाऽपि वा । महाभारतमाख्याय सर्पपापैः प्रमुच्यते ॥ ४३ ॥ यद्रात्रौ कुरुते पापं ब्राह्मणः स्त्रीगणैर्वृतः । महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते ॥ ४४ ॥ महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ ४५ ॥ अष्टादशपुराणानि धर्मशास्त्राणि सर्वशः । वेदाः साङ्गास्तथैकत्र भारतं चैकतः स्थितम् ॥ ४६ ॥ श्रूयतां सिंहनादोऽयमृषेस्तस्य महात्मनः । अष्टादशपुराणानां कर्तुर्वेदमहोदधेः ॥ ४७ ॥ त्रिभिर्वर्षैर्महत्पुण्यं कृष्णद्वैपायनः प्रभुः । अखिलं भारतं चेदं चकार भगवान्मुनिः ॥ ४८ ॥ आकर्ण्य भक्त्या सततं जयाख्यं भारतं महत् । श्रीश्च कीर्तिस्तथा विद्या भवन्ति सहिताः सदा ॥ ४९ ॥ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रिचित् ॥ ५० ॥ वाच्यते यत्र सततं जयाख्यं भारतं महत् । श्रीश्व कीर्तिश्च विद्या च भवन्ति मुदिताः सदा ॥ ५१ ॥ भारतस्य तु वक्तारं ब्रह्मर्षि च महागुरुम् । वैशम्पायनमारोप्य स्वर्णभद्रासनं तदा ॥ ५२ ॥ जनमेजयादिराजान आस्तिकाद्या द्विजातयः । धर्मदत्तादिवैश्याश्च सोम्यवंश्यादिशूद्रकाः ॥ ५३ ॥ प्रयुतं चायुतं चेति सहस्रं शतमित्यपि । दशकं चेति निष्काणामानर्चुस्तं महागुरुम् ॥ ५४ ॥ निष्काणां दशकं दत्त्वा मृतपुत्रोऽमृतप्रजः । ऊष्मादिव्याधियुक्तश्च शतं दत्त्वा निरामयः ॥ ५५ ॥ सहस्रदानात्संतानहीनः संतानपुत्रवान् । आयुरारोग्यमैश्वर्यं भेजुस्तेऽन्नं च पुत्रकान् ॥ ५६ ॥ सुवर्णं रजतं रत्नं सर्वाण्याभरणानि च । सर्वोपकरणैर्युक्तं निधिनिक्षेपसंयुतम् ॥ ५७ ॥ इष्टकाभित्तिसंयुक्तमग्निबाधादिवर्जितम् । देवपूजाग्निहोत्रादिपाठार्थगृहसंयुतम् । सान्तर्बहिस्संवरणं सप्रासादं सगोगृहम् ॥ ५८ ॥ व्यष्ट्या समष्ट्या वा दद्यात्स्वर्गारोहणपर्वणि । निवृत्तिकामो दद्याच्चेत्पुनर्जन्म न विद्यते ॥ ५९ ॥ सकामश्चेद्ब्रह्मकल्पं सुकं ब्रह्मगृहे वसेत् । पुराणमुखतो यस्माद्वेदान्तज्ञानमाप्यते । स तेन गुरुराख्यातस्तत्पूजा हीशपूजनम् ॥ ६० ॥ भारतस्य तु वक्तारं श्रोतारं लेखकांस्तदा । प्रपूजयन्ति संहृष्टाः सिद्धाश्च परमर्षयः ॥ ६१ ॥ महाभारतवक्तारं नार्चयन्तीह ये नराः । तेषां सर्वक्रियाहानिर्भवेद्देवाः शपन्ति च ॥ ६२ ॥ जयो नामेतिहासोऽयं श्रोतव्यो जयमिच्छता । राज्ञा राजसुतैश्चैव गर्भिण्या चैव योषिता ॥ ६३ ॥ स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् । गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥ ६४ ॥ अनागतश्च मोक्षश्च कृष्णद्वैपायनः प्रभुः । सन्दर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥ ६५ ॥ षष्टिं शतसहस्राणि चकारान्यां स संहिताम् । त्रिंशच्छतसहस्राणि देवलोके प्रतिष्ठितम् ॥ ६६ ॥ पित्र्ये पञ्चदशं ज्ञेयं यक्षलोके चतुर्दश । एकं शतसहस्रं तु मानुषेषु प्रभाषितम् ॥ ६७ ॥ नारदोऽश्रावयद्देवानसितो देवलः पितॄन् । रक्षोयक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु ॥ ६८ ॥ इतिहासमिमं पुण्यं महार्थं वेदसंमितम् । व्यासोक्तं श्रूयते येन कृत्वा ब्राह्म्णमग्रतः ॥ ६९ ॥ स नरः सर्वकामांश्च कीर्तिं प्राप्येह शौनक । गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥ ७० ॥ भारताध्ययनात्पुण्यादपि पादमधीयतः । श्रद्धया परया भक्त्या श्राव्यते चापि येन तु । य इमां संहितां पुण्यां पुत्रमध्यापयच्छुकम् ॥ ७१ ॥ मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ ७२ ॥ हर्षस्थानसहस्राणि भयस्थानशतानि च । दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ ७३ ॥ ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे । धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ ७४ ॥ न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः । नित्यो धर्मः सुखदुःखे त्वनिथ्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥ ७५ ॥ इमां भारतसावित्रीं प्रातरुत्थायः यः पठेत् । स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ ७६ ॥ कयथा समुद्रो भगवान्यथा हि हिमवान्गिरिः । ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥ ७७ ॥ कार्ष्णं देवमिमं विद्वाञ्श्रावयित्वाऽर्थमश्नुते । इदं भारतमाख्यानं यः पठेत्सुसमाहितः । स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥ ७८ ॥ द्वैपायनोष्ठपुटनिस्सृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥ ७९ ॥ यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे सुबहुश्रुताय । पुण्यां च भारतकथां सततं शृणोति तुल्यं फलं भवति तस्य च तस्य चैव ॥ ८० ॥ यद्यदिष्टतमं कामं लभते श्रद्धयाऽन्वितः । शृणुयान्मुदितो भूत्वा आस्तिको बुद्धिसंयुतः ॥ ८१ ॥ वासुदेवं स्मरन्विद्वान्पुण्डरीकायतेक्षणम् । इतिहासमिमं पुण्यं महार्थं वेदसंमितम् ॥ ८२ ॥ श्रावयेद्यस्तु वर्णादीन्कृत्वा ब्राह्मणमग्रतः । सर्वपापविशुद्धात्मा शुचिस्तद्गतमानसः ॥ ८३ ॥ इह कीर्तिं महत्प्राप्य भोगवान्सुखमश्नुते । व्यासप्रसादेन पुनः स्वर्गलोकं स गच्छति ॥ ८४ ॥ एतद्विदित्वा सर्वं तु सर्ववेदार्थविद्भवेत् । पूजनीयश्च सततं माननीयो भवेद्द्विजः ॥ ८५ ॥ ॥ इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां स्वर्गारोहणपर्वणि पञ्चमोऽध्यायः ॥ अध्यायः ६ (Adhyaaya 6) ===================================================== जनमेजय उवाच भगवन्केन विधिना श्रोतव्यं भारतं बुधैः । फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥ १ ॥ देयं समाप्ते भगवन्किं च पर्वणिपर्वणि । वाचकः कीदृशश्चात्र एष्टव्यस्तद्ब्रवीहि मे ॥ २ ॥ वैशम्पायन उवाच शृणु राजन्विधिमिमं फलं यच्चापि भारतात् । श्रुताद्भवति राजेन्द्र यत्त्वं मामनुपृच्छसि ॥ ३ ॥ दिवि देवा महीपाल क्रीडार्थमवनिं गताः । कृत्वा कार्यमिदं चैव ततश्च दिवमागताः ॥ ४ ॥ हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः । ऋषीणां देवतानां च सम्भवं वसुधातले ॥ ५ ॥ अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः । आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः ॥ ६ ॥ गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा । सिद्धा धर्मः स्वयंभूश्च मुनिः कात्यायनो वरः ॥ ७ ॥ गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः । ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा ॥ ८ ॥ स्थावरं जङ्गमं चैव जगत्सर्वं सुरासुरम् । भातरे भरतश्रेष्ठ एकस्थमिह दृश्यते ॥ ९ ॥ तेषां श्रुत्वा प्रतिष्ठानं नामकर्मानुकीर्तनात् । कृत्वाऽपि पातकं घोरं सद्यो मुच्येत मानवः ॥ १० ॥ इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः । संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते ॥ ११ ॥ तेषां श्राद्धानि देयानि श्रुत्वा भारत भारतम् । ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ॥ १२ ॥ महादानानि देयानि रत्नानि विविधानि च । गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः ॥ १३ ॥ सर्वकामगुणोपेता यानानि विविधानि च । कभवनानि विचित्राणि भूमिर्वासांसि काञ्चनम् ॥ १४ ॥ वाहनानि च देयानि हया मत्ताश्च वारणाः । शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलंकृताः ॥ १५ ॥ यद्यद्गृहे वरं किञ्चिद्यद्यदस्ति महद्वसु । तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥ १६ ॥ श्रद्धया परया युक्तं क्रमशस्तस्य पारगः । शक्तितः सुमना हृष्टः सुश्रूषुरविकल्पकः ॥ १७ ॥ सत्यार्जवरतो दान्तः शुचिः शौचसमन्वितः । श्रद्धधानो जितक्रोधो यथा सिद्ध्यति तच्छृणु ॥ १८ ॥ शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः । संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥ १९ ॥ रूपवान्सुभगो दान्तः सत्यवादी जितेन्द्रियः । दानमानगृहीतश्च कार्यो भवति वाचकः ॥ २० ॥ अविलम्बमनायस्तमद्रुतं धीरमुर्जितम् । असंसक्ताक्षरपदं स्वरभावसमन्वितम् ॥ २१ ॥ त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम् । वाचयेद्वाचकः स्वस्थः स्वासीनः सुसमाहितः ॥ २२ ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ २३ ॥ ईदृशाद्वाचकाद्राजञ्श्रुत्वा भारत भारतम् । नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते ॥ २४ ॥ पारणं प्रथमं प्राप्य द्विजान्कामैश्च तर्पयन् । आग्निष्टोमस्य यज्ञस्य फलं वै लभते नरः ॥ २५ ॥ अप्सरोगणसंकीर्णं विमानं लभते महत् । प्रहृष्टः स तु देवैश्च दिवं याति समाहितः ॥ २६ ॥ द्वितीयं पारणं प्राप्य सोतिरात्रफलं लभेत् । सर्वरत्नमयं दिव्यं विमानमधिरोहति ॥ २७ ॥ दिव्यमाल्यांबरधरो दिव्यगन्धविभूषितः । दिव्याङ्गदधरो नित्यं देवलोके महीयते ॥ २८ ॥ तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् । वसत्यमरसंकाशो वर्षाण्ययुतशो दिवि ॥ २९ ॥ चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम् । उदितादित्यसंकाशं ज्वलन्तमनलोपमम् ॥ ३० ॥ विमानं विबुधैः सार्धमारुह्य दिवि गच्छति । वर्षायुतानि भने शक्रस्य दिवि मोदते ॥ ३१ ॥ षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम् । कैलासशिखराकारं वैदूर्यमणिवेदिकम् ॥ ३२ ॥ परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम् । विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥ ३३ ॥ सर्वांल्लोकान्विचरते द्वितीय इव भास्करः । अष्टमे राजसूयस्य पारणे लभते फलम् ॥ ३४ ॥ चन्द्रोदयनिभं रम्यं विमानमधिरोहति । चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥ ३५ ॥ सेव्यमानो वरस्त्रीणां चन्द्रात्कान्ततरैर्मुखैः । मेखलानां निनादेन नूपुराणां च निःस्वनैः ॥ ३६ ॥ अङ्के परमनारीणां सुखसुप्तो विबुध्यते । नवमे क्रतुराजस्य वाजिमेधस्य भारत ॥ ३७ ॥ काञ्चनस्तंभनिर्यूहवैदूर्यकृतवेदिकम् । जांबूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम् ॥ ३८ ॥ सेवितं चाप्सरःसङ्घैर्गन्धर्वैर्दिविचारिभिः । विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥ ३९ ॥ दिव्यमाल्यांबरधरो दिव्यचन्दनरूषितः । मोदते दैवतैः सार्धं दिवि देव इवापरः ॥ ४० ॥ दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च । किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम् ॥ ४१ ॥ रत्नवेदिकसम्बाद्यं वैदूर्यमणितोरणम् । हेमजालपरिक्षिप्तं प्रवालवलभीमुखम् ॥ ४२ ॥ गन्धर्वैर्गीतकुशलैरप्सरोभिश्च शोभितम् । विमानं सुकृतावासं सुखेनैवोपपद्यते ॥ ४३ ॥ मुकुटेनाग्निवर्णेन जांबूनदविभूषिणा । दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः ॥ ४४ ॥ दिव्याँल्लोकान्विचरति दिव्यैर्भोगैः समन्वितः । विबुधानां प्रसादेन श्रिया परमया युतः ॥ ४५ ॥ अथ वर्षगणानेवं स्वर्गलोके महीयते । ततो गन्धर्वसहितः सहस्राण्येकविंशतिम् ॥ ४६ ॥ पुरंदरपुरे रम्ये शक्रेण सह मोदते । दिव्ययानविमानेषु लोकेषु विविधेषु च ॥ ४७ ॥ दिव्यनारीगणाकीर्णो निवसत्यमरो यथा । ततः सूर्यस्य भवने चन्द्रस्य भवने तथा ॥ ४८ ॥ शिवस्य भवने राजन्विष्णोर्याति सलोकताम् । एवमेतन्महाराज नात्र कार्या विचारणा। ॥ ४९ ॥ श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम । वाचकस्य तु दातव्यं मनसा यद्यदिच्छति ॥ ५० ॥ हस्त्यश्वरथयानानि वाहनानि विशेषतः । कटके कुण्डले चैव ब्रह्मसूत्रं तथा परम् ॥ ५१ ॥ वस्त्रं चैव विचित्रं च गन्धं चैव विशेषतः । देववत्पूजयेत्तं तु विष्णुलोकमवाप्नुयात् ॥ ५२ ॥ अतः परं प्रवक्ष्यामि यानि देयानि भारते । वाच्यमाने तु विप्रेभ्यो राजन्पर्वणिपर्वणि ॥ ५३ ॥ जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ । धर्मं वृत्तिं च विज्ञाय क्षत्रियाणां नराधिप ॥ ५४ ॥ स्वस्ति वाच्य द्विजानादौ ततः कार्ये प्रवर्तिते । समाप्ते पर्वणि ततः स्वशक्त्या पूजयेद्द्विजान् ॥ ५५ ॥ आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम् । विधिवद्बोजयेद्राजन्मधुपायसमुत्तमम् ॥ ५६ ॥ ततो मूलफलप्रायं पायसं मधुसर्पिषा । आस्तीके भोजयेद्राजन्दद्याच्चैव गुडौदनम् ॥ ५७ ॥ अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् । सभापर्वणि राजेन्द्र हविष्यं भोजयेद्द्विजान् ॥ ५८ ॥ आरण्यके मूलफलैस्तर्पयेत्तु द्विजोत्तमान् । अरणीपर्व चासाद्य जलकुम्भान्प्रदापयेत् ॥ ५९ ॥ तर्पणानि च मुख्यानि वन्यमूलफलानि च । सर्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत् ॥ ६० ॥ विराटपर्वणि तथा वासांसि विविधानि च । उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम् ॥ ६१ ॥ भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् । भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम् ॥ ६२ ॥ ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् । द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम् ॥ ६३ ॥ शराश्च देया राजेन्द्र चापान्यसिवरास्तथा । कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम् ॥ ६४ ॥ विप्रेभ्यः संस्कृतं सम्यग्दद्यात्संयतमानसः । शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः ॥ ६५ ॥ अपूपैस्तर्पणैश्चैव सर्वमन्नं प्रदापयेत् । गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् ॥ ६६ ॥ स्त्रीपर्वणि तथा रत्नैस्तर्पयेत्तु द्विजोत्तमान् । घृतौदनं पुरस्ताच्च ऐषीके दापयेत्पुनः ॥ ६७ ॥ ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम् । शान्तिपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान् ॥ ६८ ॥ आश्वमेधिकमासाद्य भोजनं सार्वकामिकम् । तथाऽऽश्रमनिवासे तु हविष्यं भोजयेद्द्विजान् ॥ ६९ ॥ मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम् । महाप्रास्थानिके तद्वत्सर्वकामगुणान्वितम् ॥ ७० ॥ स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान् । हरिवंशसमाप्तौ तु सहस्रं भोजयेद्द्विजान् ॥ ७१ ॥ गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत् । तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव ॥ ७२ ॥ प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः । सुवर्णेन च संयुक्तं वाचकाय निवेदयेत् ॥ ७३ ॥ हरिवंशे पर्वणि च पायसं तत्र भोजयेत् । पारणेपारणे राजन्यथावद्भरतर्षभ ॥ ७४ ॥ समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः । शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः ॥ ७५ ॥ शुक्लांबरधरः स्रग्वी सुचिर्भूत्वा स्वलङ्कृतः । अर्चयेत् यथान्यायं गन्धमाल्यैः पृथक्पृथक्। ॥ ७६ ॥ संहितापुस्तकान्राजन्प्रयतः सुसमाहितः । भक्ष्यैर्माल्यैस्च पेयैश्च कामैश्च विविधैः शुभैः ॥ ७७ ॥ हिरण्यं च सुवर्णं च दक्षिणामथ दापयेत् । सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रयतात्मना ॥ ७८ ॥ तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम् । यद्यदेवात्मनोऽभीष्टं तत्तद्देयं द्विजातये ॥ ७९ ॥ सर्वथा तोषयेद्भक्त्या वाचकं गुरुमात्मनः । देवताः कीर्तयेत्सर्वा नरनारायणौ तथा ॥ ८० ॥ ततो गन्धैश्च माल्यैश्च स्वलङ्कृत्य द्विजोत्तमान् । तर्पयेद्विविधैः कानैर्दानैश्चोच्चावचैस्तथा ॥ ८१ ॥ अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः । प्राप्नुयाच्च क्रतुफलं तथा पर्वणिपर्वणि ॥ ८२ ॥ वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः । भविष्यं श्रावयेद्विद्वाञ्भारतं भरतर्षभ ॥ ८३ ॥ भुक्तवत्सु द्विजेन्द्रेषु यथावत्सम्प्रदापयेत् । वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम् ॥ ८४ ॥ वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा । ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्वदेवताः ॥ ८५ ॥ ततो हि वरणं कार्यं द्विजानां भरतर्षभ । सर्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः ॥ ८६ ॥ इत्येषि विधिरुद्दिष्टो मया ते द्विपदांवर । श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि ॥ ८७ ॥ भारश्रवणे राजन्पारणे च नृपोत्तम । सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता ॥ ८८ ॥ भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत् । भारतं भवने यस्य तस्य हस्तगतो जयः ॥ ८९ ॥ भारतं परमं पुण्यं भारते विविधाः कथाः । भारतं सेव्यते देवैर्भारतं परमं पदम् ॥ ९० ॥ भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ । भारतात्प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि तत् ॥ ९१ ॥ महाभारतमाख्यानं क्षितिं गां च सरस्वतीम् । ब्राह्मणान्केशवं चैव कीर्तयन्नावसीदति ॥ ९२ ॥ वेदे रामायणे पुण्ये भारते भरतर्षभ । आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥ ९३ ॥ यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः । तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥ ९४ ॥ एतत्पवित्रं परममेतद्धर्मनिदर्शनम् । एतत्सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥ ९५ ॥ कायिकं वाचिकं चैव मनसा समुपार्जितम् । तत्सर्वं नाशमायाति तमः सूर्योदये यथा ॥ ९६ ॥ अष्टादशपुराणानां श्रवणाद्यत्फलं भवेत् । तत्फलं समवाप्नोति वैष्णवो नात्र संशयः ॥ ९७ ॥ स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः । स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ॥ ९८ ॥ दक्षिणा चात्र देया वै निष्कपञ्चसुवर्णकम् । वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता ॥ ९९ ॥ स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंवृताम् । वाचकाय च दद्याद्धि आत्मनः श्रेय इच्छता ॥ १०० ॥ अलङ्कारं प्रदद्याच्च पाण्योर्वै भरतर्षभ । कर्णस्याभरणं दद्याद्धनं चैव विशेषतः ॥ १०१ ॥ भूमिदानं समादद्याद्वाचकाय नराधिप । भूमिदानसमं दानं न भूतं भविष्यति ॥ १०२ ॥ शृणोति श्रावयेद्वाऽपि सततं चैव यो नरः । सर्वपापविनिर्मुक्तो वैष्णवं पदमाप्नुयात् ॥ १०३ ॥ पितॄनुद्धरते सर्वानेकादशसमुद्धवान् । आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ ॥ १०४ ॥ दशांशश्चैव होमोऽपि कर्तव्योऽत्र नराधिप । इदं मया तवाग्ने च प्रोक्तं सर्वं नरर्षभ ॥ १०५ ॥ ॥ इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां हरिवंशोक्तभारतश्रवणविधावध्यायः ॥ ॥ इति स्वर्गारोहणपर्व समाप्तम् ॥ ॥ इति श्रीमन्महाभारतं सम्पूर्णम् ॥ -------------------------------------------------------------- FOOTNOTES -------------------------------------------------------------- Adhyaaya 5, Shlokas 46-47: Mentioned by Shri Madhvacharya, in the Mahaabhaarata Taatparya Nirnaya, Adhyaaya 2, Shlokas 9-10 *********************************************************************** This document has been provided by Achyuta Bhakti Deets. Visit https://bhaktideets.org or https://elib.bhaktideets.org for more Shaastra related content. © Copyrights 2022-26 Achyuta Bhakti Deets श्री हरये नमः । श्रीकृष्णार्पणमस्तु ॥