श्री नारायणाय नमः । ===================================================== Filename : 17-MahaaprasthaanikaParva.txt Name of the Text: Mahaabhaarata - Mahaaprasthaanika Parva Category : Shaastra Subcategory : Itihaasa Details : Language/Script : Samskrta (Devanaagari) Author : Krshna-Dvaipaayana Vyaasa Deva Published on : 29 July 2026 Last updated on : - © Copyrights 2022-24 Achyuta Bhakti Deets ===================================================== Mahaabhaarata - Mahaaprasthaanika Parva महाभारतः - महाप्रस्थानिकपर्व नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥ नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम् ॥ २ ॥ अध्यायः १ (Adhyaaya 1) ===================================================== जनमेजय उवाच एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् । पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ॥ १ ॥ वैशम्पायन उवाच श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत् । प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ॥ २ ॥ कालः पचति भतानि सर्वाण्येव महामते । कालपाशमहं मन्ये त्वमपि द्रष्टुमर्हसि ॥ ३ ॥ इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् । अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य धीमतः ॥ ४ ॥ अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा । अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना ॥ ५ ॥ ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया । राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः ॥ ६ ॥ अभिंषिच्य स्वराज्ये च राजानं च परिक्षितम् । दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः ॥ ७ ॥ एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति । यदूनां परिशेषश्च वज्रो राजा कृतश्च ह ॥ ८ ॥ परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादवः । वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः ॥ ९ ॥ इत्युक्त्वा धर्मराजाः स वासुदेवस्य धीमतः । मातुलस्य च वृद्धस्य रामदीनां तथैव च ॥ १० ॥ भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः । श्राद्धान्यद्दिश्य सर्वेषां चकार विदिवत्तदा ॥ ११ ॥ द्वैपायनं नारदं च मार्कण्डेयं तपोधनम् । भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान् । अभोजयत्स्वादु भोज्यं कीर्तयित्वा च शार्ङ्गिणं ॥ १२ ॥ ददौ रत्नानि वासांसि ग्रामानश्वान्रथांस्तथा । स्त्रियश्च द्विजमुख्येभ्यस्तदा शतसहस्रशः ॥ १३ ॥ कृपमभ्यर्च्य च गुरुमथ पौरपुरस्कृतम् । आहूय भरतश्रेष्ठ संनिवेश्यासने तदा । शिष्यं परिक्षितं तस्मै तदौ भरतसत्तमः ॥ १४ ॥ ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः । सर्वमाचष्ट राजर्षिकीर्षितमथात्मनः ॥ १५ ॥ ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः । भृशमुद्विग्रमनसो नाभ्यनन्दन्त तद्वचः ॥ १६ ॥ नैवं कर्तव्यमिति ते तदोचुस्तं जनाधिपम् । न च राजा तथाऽकार्षीत्कालपर्यायधर्मिवित् ॥ १७ ॥ ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम् । गमनाय मतिं चक्रे कृष्णस्य गमनादपि ॥ १८ ॥ वर्तमाने विवादे तु वास्तुविक्रयिणं प्रति । धनेच्छा युगपत्प्राप्ता क्षेत्रतस्वामिभूभृताम् ॥ १९ ॥ प्राप्तं कलियुगं ज्ञात्वा सहदेवो हसन्निव । राज्ञस्तु कथयामास धर्मो नष्टस्तु सङ्करः ॥ २० ॥ श्रुत्वा तु दुर्मना राजा पर्याप्तं जीवनं मम । इति स्म राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः । उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ॥ २१ ॥ भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी । तथैव जगृहुः सर्वे वल्कलानि नराधिप ॥ २२ ॥ विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ । समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुङ्गवाः ॥ २३ ॥ ततः प्ररुरुदुः सर्वाः स्त्रिंयो दृष्ट्वा नरोत्तमान् । प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा ॥ २४ ॥ हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति । युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ॥ २५ ॥ भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः । आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् । पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा ॥ २६ ॥ न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् । न्यवर्तन्त ततः सर्वे नरा नगरवासिनः ॥ २७ ॥ कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् । विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा ॥ २८ ॥ चित्राङ्गदा ययौ चापि मणलूरपुरं प्रति । शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन् ॥ २९ ॥ पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी । कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः ॥ ३० ॥ योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः । अभिजग्मुर्बहून्देसान्सरितः सागरांस्तथा ॥ ३१ ॥ युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् । अर्जुनस्तस्य चान्वेव यमौ चापि यथाक्रमम ॥ ३२ ॥ पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा । द्रौपदी योषितांश्रेष्ठा ययौ भरतसत्तम ॥ ३३ ॥ श्वा चैवानुयायावेकः प्रस्थितान्पाण्डवान्वनम् । क्रमेणि ते ययुर्वीरा लौहित्यं सलिलार्णवम् ॥ ३४ ॥ गाण्डीवं तु धनुर्दिव्यं न मुमोच धनंजयः । रत्नलोभान्महाराज ते चाक्षय्ये महेषुधी ॥ ३५ ॥ अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः । मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम् ॥ ३६ ॥ ततो देवः स सप्तार्चिः पाण्डवानिदमब्रवीत् । भोभो पाण्डुसुता वीराः पावकं मां निबोधत ॥ ३७ ॥ युधिष्ठिर महाबाहो भीमसेन परंतप । अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम ॥ ३८ ॥ अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् । अर्जुनस्य प्रभावेन तथा नारायणस्य च ॥ ३९ ॥ अयं वः फल्गुनो भ्राता गाण्डीवं परमायुधम् । परित्यज्य वने यातु नानेनार्थोस्ति कश्चन ॥ ४० ॥ चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि । गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ॥ ४१ ॥ वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् । गाण्डीवं धनुषां श्रेष्ठं वरुणायैव दीयताम् ॥ ४२ ॥ ततस्ते भ्रातरः सर्वे धनंजयमचोदयन् । स जले प्राक्षिपच्चैतत्तथाऽक्षय्ये महेषुधी ॥ ४३ ॥ ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत । ययुस्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ॥ ४४ ॥ ततस्ते तूत्तरेणैव तीरेण लवणांभसः । जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम् ॥ ४५ ॥ ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते । ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ॥ ४६ ॥ उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः । प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः ॥ ४७ ॥ ॥ इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि प्रथमोऽध्यायः ॥ अध्यायः २ (Adhyaaya 2) ===================================================== वैशम्पायन उवाच ततस्ते नियतात्मान उदीचीं दिशमास्थिताः । ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥ १ ॥ तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् । अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥ २ ॥ तेषां तु गच्छतां शीघ्रं सर्वेषां योगधार्मिणाम् । याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥ ३ ॥ तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः । उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥ ४ ॥ नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप । कारणं किंनु तद्ब्रूहि यत्कृष्णा पतिता भुवि ॥ ५ ॥ युधिष्ठिर उवाच पक्षपातो महानस्या विशेषेण धनंजये । तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥ ६ ॥ वैशम्पायन उवाच एवमुक्त्वाऽनवेक्ष्यैनां ययौ भरतसत्तमः । समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥ ७ ॥ सहदेवस्ततो विद्वान्निपपात महीतले । तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥ ८ ॥ योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः । सोयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥ ९ ॥ युधिष्ठिर उवाच आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन । तेन दोषेण पतितो विद्वानेष नृपात्मजः ॥ १० ॥ वैशम्पायन उवाच इत्युक्त्वा तं समुत्सृज्य सहदेवं ययौ तदा । भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥ ११ ॥ कृष्णं निपतितां दृष्ट्वा सहदेवं च पाण्डवम् । आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥ १२ ॥ तस्मिन्निपतिते वीरे नकुले चारुदर्शने । पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥ १३ ॥ योऽयमक्षतधर्मात्मा भ्राता वचनकारकः । रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥ १४ ॥ इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः । नकुलं प्रति धर्मात्मा सर्वबुद्धिमतांवरः ॥ १५ ॥ रूपेणि मत्समो नास्ति कश्चिदित्यस्य दर्शनम् । अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥ १६ ॥ नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर । यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥ १७ ॥ तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः । पपात शोकसंतप्तस्ततोनु परवीरहा ॥ १८ ॥ तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि । म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥ १९ ॥ अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः । अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥ २० ॥ युधिष्ठिर उवाच एकोहं निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् । न च तत्कृतवानेष शूरमानी ततोपतत् ॥ २१ ॥ अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः । तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता ॥ २२ ॥ वैशम्पायन उवाच इत्युक्त्वा प्रस्थितो राजा भीमोथ निपपात ह । पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥ २३ ॥ भोभो राजन्नवेक्षस्व पतितोहं प्रियस्तव । किं निमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥ २४ ॥ युधिष्ठिर उवाच अतिभुक्तं च भवता प्राणेन च विकत्थसे । अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥ २५ ॥ इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् । श्वाप्येकोनुययौ यस्ते बहुशः कीर्तितो मया ॥ २६ ॥ ॥ इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि द्वितीयोऽध्यायः ॥ अध्यायः ३ (Adhyaaya 3) ===================================================== वैशम्पायन उवाच ततः सन्नादयञ्शक्रो दिवं भूमिं च सर्वशः । रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ॥ १ ॥ स्वभ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः । अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः ॥ २ ॥ भ्रातरः पतिता मेऽत्र गच्छेयुस्ते मया सह । न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ॥ ३ ॥ सुकुमारी सुखार्हा च राजपुत्री पुरंदर । साऽस्माभिः सह गच्छेत तद्भवाननुमन्यताम् ॥ ४ ॥ शक्र उवाच भ्रातॄन्द्रक्ष्यसि स्वर्गे त्वमग्रतस्त्रिदिवं गतान् । कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ॥ ५ ॥ निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ । अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः ॥ ६ ॥ युधिष्ठिर उवाच अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह । स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ॥ ७ ॥ शक्र उवाच अमर्त्यत्वं मत्समत्वं च राजञ्श्रियं कृत्स्नां महतीं चैव सिद्धिम् । संप्राप्तोद्य स्वर्गसुखानि च त्वं त्यज श्वानं नात्र नृशंसमस्ति ॥ ८ ॥ युधिष्ठिर उवाच अनार्यमार्येणि सहस्रनेत्र शक्यं कर्तुं दुष्करमेतदार्य । मा मे श्रिया सङ्गमनं तयाऽस्तु यस्याः कृते भक्तजनं त्यजेयम् ॥ ९ ॥ इन्द्र उवाच स्वर्गे लोके श्ववतां नास्ति धिष्ण्यमिष्टापूर्तं क्रोधवशा हरन्ति । ततो विचार्यि क्रियतां धर्मराज त्यज श्वानं नात्र नृशंसमस्ति ॥ १० ॥ युधिष्ठिर उवाच भक्तत्यागं प्राहुरत्यन्तपापं तुल्यं लोके ब्रह्मवध्याकृतेन । तस्मान्नाहं जातु कथञ्चनाद्य त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्रः ॥ ११ ॥ भीतं भक्तं नान्यदस्तीति चार्तं प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम् । प्राणत्यागादप्यहं नैव मोक्तुं यतेयं वै नित्यमेतद्व्रतं मे ॥ १२ ॥ इन्द्र उवाच शुना दृष्टं क्रोधवशा हरन्ति यद्दत्तमिष्टं विवृतमथो हुतं च । तस्माच्छुनस्त्यागमिमं कुरुष्व शुनस्त्यागात्प्राप्स्यसे देवलोकम् ॥ १३ ॥ त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां प्राप्तो लोकः कर्मणा स्वेन वीर । श्वानं चैनं न त्यजसे कथं **नुत्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ॥ १४ ॥ युधिष्ठिर उवाच न विद्यते संधिरथापि विग्रहोमृतैर्मर्त्यैरिति लोकेषु निष्ठा । न ते मया जीवयितुं हि शक्यास्ततस्त्यागस्तेषु कृतो न जीवताम् ॥ १५ ॥ प्रतिप्रदानं शरणागतस्य स्त्रिया वधो ब्राह्मणस्वापहारः । मित्रद्रोहस्तानि चत्वारि शक्र भक्तत्यागश्चैव समो मतो मे ॥ १६ ॥ वैशम्पायन उवाच तद्धर्मराजस्य वचो निशम्य धर्मस्वरूपी भगवानुवाच । युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः ॥ १७ ॥ अभिजातोसि राजेन्द्र पितुर्वृत्तेन मेधया । अनुक्रोशेनि चानेन सर्वभूतेषु भारत ॥ १८ ॥ पुरा द्वैतवने चासि मया पुत्र परीक्षितः । पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ॥ १९ ॥ भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ । मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ॥ २० ॥ अयं श्वा भक्त इत्येवं त्यक्तो देवरथस्त्वया । तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः ॥ २१ ॥ अतस्तवाक्षया लोकाः स्वशरीरेण भारत । प्राप्तोसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ॥ २२ ॥ वैशम्पायन उवाच ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि । देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ॥ २३ ॥ प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः । सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ॥ २४ ॥ स तं रथं समास्थाय राजा कुरुकुलोद्वहः । ऊर्ध्वमाचक्रमे शीघ्रं तेजसाऽऽवृत्यरोदसी ॥ २५ ॥ ततो देवनिकाय्यस्थो नारदः सर्वलोकवित् । उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ॥ २६ ॥ येऽपि राजर्षयः पूर्वे ते चापि समुपस्थिताः । कीति प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ॥ २७ ॥ लोकानावृत्य यशसा तेजसा वृत्तसंपदा । स्वशरीरेण सम्प्राप्तं नान्यं शुश्रम पाण्डवात् ॥ २८ ॥ तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो । वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः ॥ २९ ॥ नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् । भ्रातॄनपश्यन्धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ॥ ३० ॥ शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे । तदेव प्राप्तुमिच्छामि लोकान्यान्न कामये ॥ ३१ ॥ राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः । आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ॥ ३२ ॥ स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः । किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ॥ ३३ ॥ सिद्धिं प्राप्तोसि परमां यता नान्यः पुमान्क्वचित् । नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन ॥ ३४ ॥ अद्यापि मानुषो भावः स्पृशते त्वां नराधिप । स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ॥ ३५ ॥ युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् । पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् ॥ ३६ ॥ तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण । गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ॥ ३७ ॥ यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता । द्रौपदी योषितांश्रेष्ठा यत्र चैव सुता मम॥ ॥ ३८ ॥ ॥ इति श्रीमन्महाभारते महाप्रस्थानिकपर्वणि तृतीयोऽध्यायः ॥ ॥ इति महाप्रस्थानिकपर्व समाप्तम् ॥ -------------------------------------------------------------- FOOTNOTES -------------------------------------------------------------- *********************************************************************** This document has been provided by Achyuta Bhakti Deets. Visit https://bhaktideets.org or https://elib.bhaktideets.org for more Shaastra related content. © Copyrights 2022-26 Achyuta Bhakti Deets श्री हरये नमः । श्रीकृष्णार्पणमस्तु ॥