श्री नारायणाय नमः । ===================================================== Filename : 16-MausalaParva.txt Name of the Text: Mahaabhaarata - Mausala Parva Category : Shaastra Subcategory : Itihaasa Details : Language/Script : Samskrta (Devanaagari) Author : Krshna-Dvaipaayana Vyaasa Deva Published on : 29 July 2026 Last updated on : - © Copyrights 2022-26 Achyuta Bhakti Deets ===================================================== Mahaabhaarata - Mausala Parva महाभारतः - मौसलपर्व नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥ नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम् ॥ २ ॥ अध्यायः १ (Adhyaaya 1) ===================================================== वैशम्पायन उवाच षट्त्रिंशे त्वथ् संप्राप्ते वर्षे कौरवन्दनः । ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ॥ १ ॥ ववुर्वाताश्च निर्घाता रूक्षाः शर्करवर्षिणः । अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ॥ २ ॥ प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः । उल्काश्चाङ्गारवर्षिण्यः प्रापतन्गगनाद्भुवि ॥ ३ ॥ आदित्यो रजसा राजन्समवच्छन्नगनाद्भुवि॥ विरश्मिरुदये नित्यं कबन्धैः समलङ्कृतः ॥ ४ ॥ परिवेषाश्च दृश्यन्ते दारुणाश्च द्रसूर्ययोः । त्रिवर्णाः श्यामरुक्षान्तास्तथा भस्मारुणप्रभाः ॥ ५ ॥ एते चान्ये च बहव उत्पाता भयसंसिनः । दृश्यन्ते जगतो नाथ दिवमारोढुमिच्छति ॥ ६ ॥ यस्य प्रसादाद्धर्मोऽयं कृते यद्वत्कलावपि । पाण्डवाश्च महाभाग युक्तास्तु यशसाऽनघ ॥ ७ ॥ कस्य चित्त्वथ कालस्य कुरुराजो विशङ्कितः । शुश्राव वृष्णिचक्रस्य मुसलोत्सादनं कृतम् ॥ ८ ॥ विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः । समानीयाब्रवीद्भ्रातृन्कि करिष्याम इत्युत ॥ ९ ॥ परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् । वृष्णिन्विनष्टास्ते श्रुत्वा व्यथिताः पाण्डवा भृशम् ॥ १० ॥ निधनं वासुदेवस्य समुद्रस्येव शोषणम् । वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः ॥ ११ ॥ मौसलं ते समाश्रित्य दुःखशोकसमन्विताः । विष्ण्णा हतसंकल्पाःकि पाण्डवाः समुपाविशन् ॥ १२ ॥ ॥ इति श्रीमन्महाभारते मौसलपर्वणि प्रथमोऽध्यायः ॥ अध्यायः २ (Adhyaaya 2) ===================================================== जनमेजय उवाच कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह । पश्यतो वासुदेवस्य भोजश्चैवक महारथाः ॥ १ ॥ वैशम्पायन उवाच षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् । अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः ॥ २ ॥ जनमेजय उवाच केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः । भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे ॥ ३ ॥ वैशम्पायन उवाच विश्वामित्रं च कण्वं च नारदं च तपोधनम् । सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान् ॥ ४ ॥ ते वै सांबं पुरस्कृत्य भूषयित्वा स्त्रियं यथा । अब्रुवन्नुपसङ्गम्य् दैवदण्डिनिपीडिताः ॥ ५ ॥ इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः । ऋषयः साधु जानीत किमियं जनयिष्यति ॥ ६ ॥ इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः । प्रत्यबुवंस्तान्मुनयो यत्तच्छृणु नराधिप ॥ ७ ॥ वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् । वासुदेवस्य दायादः सांबोऽयं जनयिष्यति ॥ ८ ॥ येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः । उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ ॥ ९ ॥ समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः । जरःकृष्णं महात्मानं शयानं भुवि भेत्स्यति ॥ १० ॥ इत्यब्रुवंस्ततो राजन्प्रलब्धास्तैर्दुरात्मभिः । मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् । तथोक्त्वा मुनयस्ते तु यथागतमथो ययुः ॥ ११ ॥ अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैतन्मधुसूदनः । अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ॥ १२ ॥ एवमुक्त्वा हृषीकेशः प्रविवेश पुरं तदा । कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ॥ १३ ॥ श्वोभूतेऽथ ततः सांबो मुसलं तदसूकत वै । येन वृष्णन्धककुले पुरुषा भस्मसात्कृताः ॥ १४ ॥ वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् । असूत सापजं घोरं तच्च राज्ञे न्यवेदयन् ॥ १५ ॥ विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् । तच्चूर्णं सागरे चापि प्राक्षिपन्पुरुषा नृप ॥ १६ ॥ अघोषयंश्च नगरे वचनादाहुकस्य ते । जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः ॥ १७ ॥ अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह । सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः ॥ १८ ॥ यश्च नो विदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् । जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ॥ १९ ॥ ततो राजभयात्सर्वे नियमं चक्रिरे तदा । नराः सासनमाज्ञाय तस्य राज्ञो महात्मनः ॥ २० ॥ ॥ इति श्रीमन्महाभारते मौसलपर्वणि द्वितीयोऽध्यायः ॥ अध्यायः ३ (Adhyaaya 3) ===================================================== वैशंपायन उवाच एवं प्रयतमानानां वृष्णीनामन्धकैः सह । कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ॥ १ ॥ करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः । गृहाण्यावेक्ष्य वृष्णीनां नादृश्यतं पुनः क्वचित् ॥ २ ॥ तमघ्नन्त महेष्वासाः शरैः शतसहस्रशः । न चाशक्यत वेद्धुं स सर्वभूतात्ययस्तदा ॥ ३ ॥ उत्पेदिरे महावाता दारुणाश्च दिनेदिने । वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ॥ ४ ॥ विवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा । केशा नखाश्च सुप्तानामद्यन्ते मूषिकैर्निशि ॥ ५ ॥ चीचीकूचीति वाशन्ति शारिका वृष्णिवेश्मसु । नोपशाम्यति शब्दस्य सदिवारात्रमेव हि ॥ ६ ॥ अन्वकुर्वन्नुलूकानां सारसा विरुतं तथा । अजाः शिवानां विरुतमन्वकुर्वत भारत ॥ ७ ॥ पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः । वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ॥ ८ ॥ व्यजायन्त खरा गोषु करभाश्वतरीषु च । शुनीष्वपि बिडालाश्च मूषिका नकुलीषु च ॥ ९ ॥ नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा । प्रार्दयन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥ १० ॥ गुरूंश्चाप्यवमन्यन्ते न तु रामजनार्दनौ । पत्न्यः पतीनुच्चरन्ति पत्नीश्चक पतयस्तथा ॥ ११ ॥ विभावसुः प्रज्वलितो वामं विपरिवर्तते । नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक् ॥ १२ ॥ उदयास्तमये नित्यं पुर्यां तस्यां दिवाकरः । व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः ॥ १३ ॥ महानसेषु सिद्धेषु संस्कृतेऽतीवि भारत । आहार्यमाणे कृमयो व्यदृश्यन्त सहस्रशः ॥ १४ ॥ पुण्याहे वाच्यमाने तु जपत्सु च महात्मसु । अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन ॥ १५ ॥ परस्परं च नक्षत्रं हन्यमानं पुनःपुनः । ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन ॥ १६ ॥ नदन्तं पाञ्चिजन्यं च वृष्णन्धकनिवेशने । समन्तात्पर्यवाशन्त रासभा दारुणस्वराः ॥ १७ ॥ एवं पश्यन्हृषिकेशः संप्राप्तं कालपर्ययम् । त्रयोदश्याममावास्यां तान्दृष्ट्वा प्राब्रवीदिदम् ॥ १८ ॥ चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः । प्राप्ते वै भारते युद्धे प्राप्ता चाद्य क्षंयाय नः ॥ १९ ॥ विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः । मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः ॥ २० ॥ पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा । यदनुव्याजहारार्ता तदिदं समुपागमत् ॥ २१ ॥ इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः । पुरा व्यूढेष्वनीकेषु दृष्ट्वेत्पातान्सुदारुणान् ॥ २२ ॥ इत्युक्त्वा वासुदेवस्तु चिकीर्षुः सत्यमेव तत् । आज्ञापयामास तदा तीर्थयात्रामरिंदमः ॥ २३ ॥ अघोषयन्त पुरुषास्तत्र केशवशासनात् । तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ॥ २४ ॥ ॥ इति श्रीमन्महाभारते मौसलपर्वणि तृतीयोऽध्यायः ॥ अध्यायः ४ (Adhyaaya 4) ===================================================== वैशम्पायन उवाच काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि । स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ॥ १ ॥ अग्निहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु । वृष्ण्यन्धकानखादन्त स्वप्ने गृध्रा भयानकाः ॥ २ ॥ अलङ्काराश्च च्छत्रं च ध्वजाश्च कवचानि च । ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ॥ ३ ॥ तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयोमयम् । दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥ ४ ॥ युक्तं रथं दिव्यमादित्यवर्णं हयाऽहरन्पश्यतो दारुकस्य । ते सागरस्योपरिष्टादगच्छन्मनोजवाश्चतुरो वाजिमुख्याः ॥ ५ ॥ तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्धनाभ्याम् । उच्चैर्जह्रुरप्सरसश्च दिव्या देवा ऊचुर्गम्यतां तीर्थयात्राः ॥ ६ ॥ भगवद्दर्शनस्पर्शस्नेहैर्विततभोगिनः । दिवः प्रवेशानार्थं ते विमानैर्दिवमाययुः॥ ७ ॥ ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः । सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ॥ ८ ॥ ततो मनोहरा हृष्टाःक पेयं मांसं मधूनि च । बहु नानाविधं चक्रुस्त्वरिताः कालचोदिताः ॥ ९ ॥ ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः । यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ॥ १० ॥ ततः प्रभासे न्यवसन्यथोद्दिष्टं यथागृहम् । प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥ ११ ॥ निविष्टांस्तान्निशाम्याथ समुद्रान्ते स योगवित् । जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ॥ १२ ॥ तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् । जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ॥ १३ ॥ ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः । अपश्यन्नुद्धवं यान्तं तेजसाऽऽवृत्य रोदसी ॥ १४ ॥ ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् । तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ॥ १५ ॥ ततस्तूर्यशताकीर्णं नटनर्तकसंकुलम् । अवर्तत महापानं प्रभासे तिग्मतेजसाम् ॥ १६ ॥ कृष्णस्य सन्निधौ रामः सहितः कृतवर्मणा । अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥ १७ ॥ ततः परिषदो मध्ये युयुधानो मदोत्कटः । अब्रवीत्कृतवर्माणमवहास्यावमत्य च ॥ १८ ॥ कः क्षत्रियो हन्यमानः सुप्तान्हन्यान्मृतानिव । तन्न मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ॥ १९ ॥ इत्युक्ते युयुधानेन पूजयामास तद्वचः । प्रद्युम्नो रथिनांश्रेष्ठो हार्दिक्यमवमत्य व ॥ २० ॥ ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत् । निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ॥ २१ ॥ भूरिश्रवाश्छिन्नबाहुर्युर्द्धे प्रायगतस्त्वया । वधेन सुनृशंसेन कथं वीरेण पातितः ॥ २२ ॥ इति तस्य वचः श्रुत्वा केशवः परवीरहा । तिर्यक्सरोषया दृष्ट्या वीक्षांचक्रे स मन्युमान् ॥ २३ ॥ मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् । तां कथां श्रावयामास सात्यकिर्मधुसूदनम् ॥ २४ ॥ तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा । सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ॥ २५ ॥ तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् । पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः । एष गच्छामि पदवीं सत्येन च तथा शपे ॥ २६ ॥ सौप्तिके ये च निहताः सुप्ता येन दुरात्मना । द्रोणपुत्रसहायेन पापेन कृतवर्मणा ॥ २७ ॥ समाप्तमायुरस्याद्य यशश्चैव सुमध्यते । इत्येवमुक्त्वा खङ्गेन केशवस्य समीपतः । अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥ २८ ॥ तथाऽन्यानपि निघ्नन्तं युयुधानं समन्ततः । अभ्यधावद्धृषीकेशो विनिवारयितुं तदा ॥ २९ ॥ एकीभूतास्ततः सर्वे कालपर्यायचोदिताः । भोजान्धका महाराज शैनेयं पर्यवारयन् ॥ ३० ॥ तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः । न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥ ३१ ॥ ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा । युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ॥ ३२ ॥ हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः । तदनन्तरमागच्छन्मोचयिष्यञ्शिनेः सुतम् ॥ ३३ ॥ स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह । व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ । बहुत्वान्निहतौ तत्र उभौ कुष्णस्य पश्यतः ॥ ३४ ॥ हतं दृष्ट्वा च शैनेयं पुत्रं च यदुनन्दनः । एरकाणां ततो मुष्टिं कोपाज्जग्राह केशवः ॥ ३५ ॥ तदभून्मुसलं घोरं वज्रकल्पमयोमयम् । जघान कुष्णस्तांस्तेनि येये प्रमुखतोऽभवन् ॥ ३६ ॥ ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा । जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ॥ ३७ ॥ यस्तेषामेरकां कश्चिज्जग्राह कुपितो नृपः । वज्रभूतेव सा राजन्नदृश्यत तदा विभो ॥ ३८ ॥ तृणं च मुसलीभूतमपि तत्र व्यदृश्यत । ब्रह्मदण्डकृतं सर्वमिति तद्विद्वि पार्थिव ॥ ३९ ॥ आविध्याविध्य ते राजन्प्रहरन्ति स्म तैस्तृणैः । तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ॥ ४० ॥ अवधीत्पितरं पुत्रः पिता पुत्रं च भारत । मत्ताः परिपतन्ति स्म योधयन्तः परस्परम् ॥ ४१ ॥ पतङ्गा इव चाग्नौ ते निपेतुः कुकुरान्धकाः । नासीत्पलायने बुद्धिर्वधअयमानस्य कस्यचित् ॥ ४२ ॥ तत्रापश्यन्महाबाहुर्जानन्कालस्य पर्ययम् । मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ॥ ४३ ॥ सांबं च निहतं दृष्ट्वा चारुदेष्णं च माधवः । प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ॥ ४४ ॥ गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः । स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥ ४५ ॥ तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः । दारुकश्चैव दाशार्हमूवतुर्यन्निबोध तत् ॥ ४६ ॥ भगवन्निहताः सर्वे त्वया भूयिष्ठशो नराः । रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ॥ ४७ ॥ ॥ इति श्रीमन्महाभारते मौसलपर्वणि चतुर्थोऽध्यायः ॥ अध्यायः ५ (Adhyaaya 5) ===================================================== वैशम्पायन उवाच ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं पतन्तः । अथापश्यन्राममनन्तवीर्यं वृक्षाश्रितं चिन्तयानं विविक्ते। ॥ १ ॥ ततः समासाद्य महानुभावः कृष्णस्तदा दारुकमन्वशासत् । गत्वा कुरून्सर्वमिमं महान्तं पार्थाय शंसस्व वधं यदूनाम् ॥ २ ॥ ततोऽर्जुनः क्षिप्रमिहोपयातु श्रुत्वा मृतान्यादवान्ब्रह्मशापात् । इत्येवमुक्तः स ययौ रथेन कुरूंस्तदा दारुको नष्टचेताः ॥ ३ ॥ ततो गते दारुके केशवोथ दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् । स्त्रियो भवान्रक्षितुं यातु शीघ्रं नैता हिंस्युर्दस्यवो वित्तलोभात् ॥ ४ ॥ स प्रस्थितः केशवेनानुशिष्टो मदातुरो ज्ञातिवधार्दितश्च । तं वै यातं सन्निधौ केशवस्यत्वरन्तमेकं सहसैव बभ्रूम् । ब्रह्मानुशप्तमवधीन्महद्वै कूटे युक्तं मुसलं लुब्धकस्य ॥ ५ ॥ ततो दृष्ट्वा निहतं बभ्रुमाह कृष्णेऽग्रजं भ्रातरमुग्रतेजाः । हहैव त्वं मां प्रतीक्षस्व राम यावत्स्त्रियो ज्ञातिवशाः करोमि ॥ ६ ॥ ततः पुरीं द्वारवतीं पविश्य जनार्दनः पितरं प्राह वाक्यम् । सर्वं भवान्रक्षतु नः समग्रं धनंजयस्यागमनं प्रतीक्षन् ॥ ७ ॥ रामो वनान्ते प्रतिपालयन्मामास्तेऽद्याहं तेन समानमिष्ये । दृष्टं मयेदं निधनं यदूनां राज्ञां च पूर्वं कुरुपुङ्गवानाम् ॥ ८ ॥ नाहं विना यदुभिर्यादवानां पुरीमिमामशकं द्रष्टुमद्य । तपश्चरिष्यामि निबोध तन्मे रामेणि सार्धं वनमभ्युपेत्य ॥ ९ ॥ इतीदमुक्त्वा शिरसा च पादौ संस्पृश्य कृष्णस्त्वरितो जगाम । ततो महान्निनदः प्रादुरासीत्सस्त्रीकुमारस्य पुरस्य तस्य ॥ १० ॥ अथाब्रवीत्केशवः सन्निवर्त्य शब्दं श्रुत्वा योषितां क्रोशतीनाम् । पुरीमिमामेष्यति सव्यसाची स वो दुःखान्मोचयिता नराग्र्यः ॥ ११ ॥ ततो गत्वा केशवस्तं ददर्श रामं वने स्थितमेकं विविक्ते । अथापश्यद्योगयुक्तस्य तस्य नागं मुखान्निस्सरन्तं महान्तम् ॥ १२ ॥ श्वेतं ययौ सततः प्रेक्षमाणो महार्णवो येन महानुभावः । सहस्रशीर्षः पर्वताभोगवर्ष्मा रक्ताननः स्वां तनुं तां विमुच्य ॥ १३ ॥ संदृश्यन्तं सागरान्तं विशन्तं सम्यक्तदा सागरः प्रत्यगृह्णात् । नागा दिव्याः सरितश्चैव पुण्याः कर्कोटको वासुकिस्तक्षकश्च ॥ १४ ॥ पृथुश्रवा अरुणः कुञ्जरश्च मिश्री शङ्खः कुमुदः पुण्डरीकः । तथा नागो धृतराष्ट्रो महात्मा ह्रादः क्राथः शितिपृष्ठो निकेतुः ॥ १५ ॥ तथा नागौ चक्रमन्दातिषण्डौ नागश्रेष्ठो दुर्मखश्चांबरीषः । स्वयं राजा वरुणश्चापि राजन्प्रत्युद्गम्य स्वागतेनाभ्यनन्दन् । तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः सङ्कर्षणं भूधरं शुद्धबुद्धिम् ॥ १६ ॥ ततो गते भ्रातरि वासुदेवो जानन्सर्वा गतयो दिव्यदृष्टिः । वने शून्ये विचरंश्चिन्तयानो भूमौ चाथ संविवेशाग्र्यतेजाः ॥ १७ ॥ सर्वं तेन प्राक्तदा वित्तमासीद्गान्धार्या यद्वाक्यमुक्तं स्वधर्मात् । दुर्वाससा पारसोच्छिष्टलिप्ते यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥ १८ ॥ कुलस्त्रीणां संवृतानां गवां च द्विजेन्द्राणां बलमादाय धर्मे । योनिर्देवानां वरदो ब्रह्मदेवो गोविन्दाख्यो वासुदेवोऽथ नित्यः ॥ १९ ॥ सञ्चिन्तयन्नन्धकवृष्णिनाशं कुरुक्षयं चैव महानुभावः । मेने ततः संक्रमणस्य कालं ततश्चकारेन्द्रियसन्निरोधम् ॥ २० ॥ यथा च लोकत्रयपालनार्थं दुर्वासवाक्यप्रतिपालनाय । देवोपि सन्देहविमोक्षहेतोर्निमित्तमैच्छत्सकलार्थतत्त्ववित् ॥ २१ ॥ स सन्निरुद्धेन्द्रियवाङ्मनास्तु शिश्ये महायोगमुपेत्य कृष्णः । जरोथ तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः ॥ २२ ॥ स केशवं योगयुक्तं शयानं मृगासक्तो लुब्धकः सायकेन । जरोऽविध्यत्पादतले त्वरावांस्तं चाभितस्तज्जिघृक्षुर्जगाम ॥ २३ ॥ अथापश्यत्पुरुषं योगयुक्तं पीतांबरं लुब्धकोऽनेकबाहुम् । मत्वाऽऽत्मानं त्वपराद्धं स तस्य पादौ जरो जगृहे शङ्कितात्मा ॥ २४ ॥ आश्वासितः पुण्यफलेन भक्तया तथाऽनुतापात्कर्मणो जन्मनश्च । दृष्ट्वा तथा देवमनन्तवीर्यं देवैस्स्वर्गं प्रातितस्त्यक्तदेहः ॥ २५ ॥ गणैर्मुनीनां पूजितस्यत्र कृष्णो गच्छन्नूर्द्ध्वं व्याप्य लोकान्स लक्ष्म्या । दिवं प्राप्तं वासवोऽथाश्विनौ च रुद्रादित्या वसवश्चाथ विश्वे । प्रत्युद्ययुर्मुनयश्चापि सिद्धा गन्धर्वमुख्याश्च सहाप्सरोभिः ॥ २६ ॥ ततो राजन्भगवानुग्रतेजा नारायणः प्रभवश्चाव्ययश्च । योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थानं प्राप स्वं महात्माऽप्रमेयम् ॥ २७ ॥ ततो देवैर्ऋषिभिश्चापि कृष्णः समागतश्चारणैश्चैव राजन् । गन्धर्वाग्र्यैरप्सरोभिर्वराभिः सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥ २८ ॥ तं वै देवाः प्रत्यनन्दन्त राजन्मुनिश्रेष्ठा ऋग्भिरानर्चुरीशम् । तं गन्धर्वाश्चापि तस्थुः स्तुवन्तः प्रीत्य चैनं पुरुहूतोऽभ्यनन्दत् ॥ २९ ॥ नमोनमस्ते भगवञ्शार्ङ्गधन्वन्धर्मस्थित्या प्रादुरासीर्धरायाम् । कंसाख्यादीन्देवशत्रूंश्च सर्वान्हत्वा भूमिः स्थापिता भारतप्ता ॥ ३० ॥ दिव्यं स्थानमजरं चाप्रमेयं दुर्विज्ञेयं चागमैर्गम्यमग्र्यम् । गच्छ प्रभो रक्ष चार्तिं प्रपन्नान्कल्पेकल्पे जायमानांश्च मर्त्यान् ॥ ३१ ॥ इत्येवमुक्त्वा देवसङ्घोऽनुगम्य श्रिया युक्तं पुष्पवृष्ट्या ववर्ष । वाणी चासीत्संश्रिता रूपिणी सा भानोर्मध्ये प्रविश त्वं तु राजन् ॥ ३२ ॥ भुजैश्चतुर्भिः समुपेतं ममेदं रूपं विशिष्टं जीवितं संस्थितं च । भूमौ गतं पूजयताप्रमेयं सदा हि तस्मिन्निवसामीति देवाः ॥ ३३ ॥ देवा निवृत्तास्तत्पदं नाप्नुवन्तो बुद्ध्या देवं संस्मरन्तः प्रतीताः । ब्रह्माद्यास्ते तद्गुणान्कीर्तयन्तः शुभाँल्लोकान्स्वान्प्रपेदुः सुरेन्द्राः ॥ ३४ ॥ ॥ इति श्रीमन्महाभारते मौसलपर्वणि पञ्चमोऽध्यायः ॥ अध्यायः ६ (Adhyaaya 6) ===================================================== वैशम्पायन उवाच दारुकोपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् । आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥ १ ॥ श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजान्धककौकुरान् । पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन् ॥ २ ॥ ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा । प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥ ३ ॥ स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो । ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥ ४ ॥ याः स्म ता लोकनाथेन नाथवत्यः पुराऽभवन् । तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥ ५ ॥ षोडश स्त्रीसहस्राणि वासुदेवपरिग्रहाः । तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥ ६ ॥ तास्तु दृष्ट्वैव कौरव्यो बाष्पेणापिहितेक्षणः । हीनाः कृष्णेन पुत्रैश्च नाशकत्सोभिवीक्षितुम् ॥ ७ ॥ स तां वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् । वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥ ८ ॥ रत्नशैवलसंघातां वज्रप्राकारमालिनीम् । रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥ ९ ॥ रामकृष्णमहाग्राहां द्वारकां सरितं तदा । कालपाशग्रहां भीमां नदीं वैतरणीमिव ॥ १० ॥ ददर्श वासविर्धीमान्विहीनां वृष्णिपुङ्गवैः । गतश्रियं विरानन्दां पद्मिनीं शिशिरे यथा ॥ ११ ॥ तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः । सस्वनं बाष्पमुत्सृज्य निपात महीतले ॥ १२ ॥ सात्राजिती ततः सत्या रुक्मिणी च विशांपते । अभिपत्य प्ररुरुदुः परिवार्य धनंजयम् ॥ १३ ॥ ततस्तं काञ्चने पीठे समुत्ताप्योपवेश्य च । अभिनन्द्य महात्मानं परिवार्योपतस्थिरे ॥ १४ ॥ ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः । आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥ १५ ॥ ॥ इति श्रीमन्महाभारते मौसलपर्वणि षष्ठोऽध्यायः ॥ अध्यायः ७ (Adhyaaya 7) ===================================================== वैशम्पायन उवाच तं प्रविष्टं महात्मानं वीरमानकदुन्दुभिः । पुत्रशोकेन संतप्तो ददर्श कुरुपुङ्गवम् ॥ १ ॥ तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः । आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत ॥ २ ॥ तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः । स्वस्रीयस्य महाबाहुर्न शशाक च शत्रुहन् ॥ ३ ॥ समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः । रुरोदाथ स्मरञ्शौरिं विललाप सुविह्वलः । भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रान्स सखीनपि ॥ ४ ॥ वसुदेव उवाच यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन । तान्सर्वान्नेह पश्यामि जीवाम्यर्जुन दुर्मरः ॥ ५ ॥ यो तावर्जुनशिष्यौ ते प्रियौ बहुमतौ सदा । तयोरपनयात्पार्थ वृष्णयो निधनं गताः ॥ ६ ॥ यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ । प्रद्युम्नो युयुधानश्चि कथनन्कत्थसे च यौ ॥ ७ ॥ तौ सदा कुरुशार्दूल कृष्णस्य प्रियभाजनौ । तावुभौ वृष्णिनाशस्य मुखमास्तां धनंजय ॥ ८ ॥ न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन । अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ॥ ९ ॥ केशिनं यस्तु कंसं च विक्रम्यि हतवान्प्रभुः । विदेहमकरोत्पार्थं चैद्यं च बलगर्वितम् ॥ १० ॥ नैषादिमेकलव्यं च चक्रे कालिङ्गमागधान् । गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ॥ ११ ॥ प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान् । सोभ्युपेक्षितवानेवमनयान्मधुसूदनः ॥ १२ ॥ त्वं हि तं नारदश्चैव मुनयश्च सनातनम् । गोविन्दमनघं देवमभिजानीध्वमच्युतम् ॥ १३ ॥ प्रत्यपश्यच्च स विभुर्ज्ञातिक्षयमधोक्षजः । समुपेक्षितवान्नित्यं स्वयं स मम पुत्रकः ॥ १४ ॥ गान्धार्या वचनं यत्तदृषीणां च परंतप । तन्नूनमन्यथा कर्तुं नैच्छत्स जगतः प्रभुः ॥ १५ ॥ प्रत्यक्षं भवतश्चापि तव पौत्रः परंतप । अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा । इमांस्तु नैच्छत्स्वान्ज्ञातीन्रक्षितुं च सखा तव ॥ १६ ॥ ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखींस्तथा । शयानान्निहतान्दृष्ट्वा कृष्णो मामब्रवीदिदम् ॥ १७ ॥ सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य भरतर्षभ । आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम् । आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् ॥ १८ ॥ स तु श्रुत्वा महातेजा यदूनां निधनं प्रभो । आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ॥ १९ ॥ योऽहं तमर्जुनं विद्धि योऽर्जुनः सोहमेव तु । यद्ब्रूयात्तत्तथा कार्यमिति बुद्ध्यस्व भारत ॥ २० ॥ स स्त्रीषु प्राप्तकालासु पाण्डवो बालकेषु च । प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वद्गेहिकम् ॥ २१ ॥ इमां च नगरीं सद्यः प्रतियाते धनंजये । प्राकारट्टालकोपेतां समुद्रः प्लावयिष्यति ॥ २२ ॥ अहं देशे तु कस्मिंश्चित्पुण्ये नियममास्थितः । कालं काङ्क्षे सद्य एव रामेण सहितो वने ॥ २३ ॥ एवमुक्त्वा हृषीकेशो मामचिन्त्यपराक्रमः । हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ॥ २४ ॥ सोहं तौ च महात्मानौ चिन्तयन्रामकेशवौ । घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ॥ २५ ॥ न मोक्ष्येन च जीविष्ये दिष्ट्या प्राप्तोसि पाण्डव । यदुक्तं पार्थं कृष्णेन तत्सर्वमखिलं कुरु ॥ २६ ॥ एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव हि । इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन ॥ २७ ॥ ॥ इति श्रीमन्महाभारते मौसलपर्वणि सप्तमोऽध्यायः ॥ अध्यायः ८ (Adhyaaya 8) ===================================================== वैशम्पायन उवाच एवमुक्तः स बीभत्सुर्मातुलेनि परंतप । दुर्मना दीनवदनो वसुदेवमुवाच ह ॥ १ ॥ नाहं वृष्णिप्रवीरेण बन्धुभिश्चैव मातुल । विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो ॥ २ ॥ राजा च भीमसेनश्च सहदेवश्च पाण्डवः । नकुलो याज्ञसेनी च षडेकमनसो वयम् ॥ ३ ॥ राज्ञः संक्रमणे चापि कामोऽयं नित्यमेव हि । तमिमं विद्धि सम्प्राप्तं कालं कालविदांवर ॥ ४ ॥ सर्वथा वृष्णिदारांस्तु बालं वृद्धं तथैव च । नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम ॥ ५ ॥ इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः । अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम् ॥ ६ ॥ इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् । प्रविवेशार्जुनः शूरः शोचमानो महाभुजः ॥ ७ ॥ तमासनगतं तत्र सर्वाः प्रकृतयस्तथा । ब्राह्मणा नागरास्तत्र परिवार्योपतस्थिरे ॥ ८ ॥ तान्दीनमनसः सर्वान्विमूढान्गतचेतसः । उवाचेदं वचः काले पार्थो दीनतरस्तथा ॥ ९ ॥ शक्रप्रस्थमहं नेष्ये पृष्णन्धकजनं स्वयम् । इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति ॥ १० ॥ सज्जीकुरुत यानानि रत्नानि विविधानि च । वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति ॥ ११ ॥ सप्तमे दिवसे चैव रवौ विमल उद्गते । बहिर्वत्स्यामहे सर्वे सज्जीभावत माचिरम् ॥ १२ ॥ इत्युक्तास्तेन ते सर्वे पार्थेनाक्लिष्टकर्मणा । सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः ॥ १३ ॥ तां रात्रिमवसत्पार्थः केशवस्य निवेशने । महता शोकमोहेन सहसाऽभिपरिप्लुतः ॥ १४ ॥ श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् । युक्त्वाऽऽत्मानं महातेजा जगाम गतिमुत्तमां ॥ १५ ॥ ततः शब्दो महानासीद्वसुदेवनिवेशने । दारुणः क्रोशतीनां च रुदतीनां च योषिताम् ॥ १६ ॥ प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः । उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्तकरुणं स्त्रियः। ॥ १७ ॥ तं देवकी च भद्रा च रोहिणी मदिरा तथा । अन्वारोढुं व्यवसिता भर्तारं योषितां वराः ॥ १८ ॥ ततः शौरिं नृयुक्तेन बहुमूल्येन भारत । यानेन महता पार्थो बहिर्निष्क्रामयत्तदा ॥ १९ ॥ तमन्वयुस्तत्रतत्रं दुःखसोकसमन्विताः । द्वारकावासिनः सर्वे पौरजानपदा हिताः ॥ २० ॥ तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः । पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः ॥ २१ ॥ अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः । स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः ॥ २२ ॥ यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः । तत्रैनमुपसंकल्प्य वितृमेधं प्रचक्रिरे ॥ २३ ॥ तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः । ततोन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः ॥ २४ ॥ तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः । अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि ॥ २५ ॥ ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः । सामगानां च निर्घोषो नराणां रुदतामपि ॥ २६ ॥ ततो वज्रप्रधानास्ते वृष्ण्यन्धककुमारकाः । सर्वे चैवोदकं चक्रुः स्त्रियश्चैव महात्मनः ॥ २७ ॥ अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः । जगाम वृष्णयो यत्र विनष्टा भरतर्षभ ॥ २८ ॥ स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः । बभूवातीव कौरव्यः प्राप्तकालं चकार ह ॥ २९ ॥ यथाप्रधानतश्चैव चक्रे सर्वास्तथा क्रियाः । ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः ॥ ३० ॥ ततो भगवतो देहं दृष्ट्वा शिष्यः प्रलप्य च । स्मृत्वा तद्वचनं सर्वं मोहशोकोपबृंहितः॥ ३१ ॥ ततः शरीरे रामस्य वासुदेवस्य चोभयोः । अन्वीक्ष्य दाहयामास पुरुषैराप्तकारिभिः ॥ ३२ ॥ स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः । सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः ॥ ३३ ॥ अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि । स्त्रियस्ता वृष्णिवीराणां रुदन्त्यः शोककर्शिताः ॥ ३४ ॥ अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनंजयम् । भृत्याश्चान्धकवृष्णीनां सादिनो रथिनश्च ये ॥ ३५ ॥ वीरहीना वृद्धबालाः पौरजानपदास्तथा । ययुस्ते परिवार्याथ कलत्रं पार्थशासनात् ॥ ३६ ॥ कुञ्जरैश्च गजारोहा ययुः शैलनिर्भस्तथा । सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः ॥ ३७ ॥ पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः ॥ ३८ ॥ दश षट् च सहस्राणि वासुदेवावरोधनम् । पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः ॥ ३९ ॥ बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च । भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः ॥ ४० ॥ तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत् । उवाह रथिनांश्रेष्ठः पार्थः परपुरंजयः ॥ ४१ ॥ निर्याते तु जने तस्मिन्सागरो मकरालयः । द्वारकां रत्नसंपूर्णां जलेनाप्लावयत्तदा ॥ ४२ ॥ यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत । तत्तत्संप्लावयामास सलिलेन स सागरः ॥ ४३ ॥ तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः । तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन् ॥ ४४ ॥ काननेषु च रम्येषु पर्वतेषु नदीषु च । निवसन्नानयामास वृष्णिदारान्धनंजयः ॥ ४५ ॥ स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् । देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः ॥ ४६ ॥ ततो लोभः समभवद्दस्यूनां निहतेश्वराः । दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत ॥ ४७ ॥ ततस्ते पापकर्माणो लोभोपहतचेतसः । आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः ॥ ४८ ॥ अयमेकोऽर्जुनो धन्वी वृद्धबालं हतेश्वरम् । नयत्यस्मानतिक्रम्य् योधाश्चेमे हतौजसः ॥ ४९ ॥ ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः । अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः ॥ ५० ॥ महता सिंहनादेन त्रासयन्तः पृथग्जनम् । अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः ॥ ५१ ॥ ततो निवृत्तः कौन्तेयः सहसा सपदानुगः । उवाच तान्महाबाहुरर्जुनः प्रहसन्निव ॥ ५२ ॥ निवर्तध्वमधर्मज्ञा यदि जीवितुमिच्छथ । इदानीं शरनिर्भिन्नाः शोचध्वं निहता मया ॥ ५३ ॥ तथोक्तास्तेन वीरेणि कदर्तीकृत्य तद्वचः । अभिपेतुर्जनं मूढा वार्यमाणाः पुनःपुनः ॥ ५४ ॥ ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् । कआरोपयितुमारेभे यत्नादिव कथञ्चन ॥ ५५ ॥ चकार सज्यं कृच्छ्रेणि सम्भ्रमे तुमुले सति । चिन्तयामास शस्त्राणि न च सस्मार तान्यपि ॥ ५६ ॥ वैकृतं तन्महद्दृष्ट्वा भुजवीर्य तथा युधि । दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत् ॥ ५७ ॥ वृष्णियोधाश्च ते सर्वे गजाश्वरथयोधिनः । न शेकुरावर्तयितुं ह्रियमाणं स्वकं धनम् ॥ ५८ ॥ कलत्रस्य बहुत्वाद्धि सम्पतन्सु ततस्ततः । प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे ॥ ५९ ॥ मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः । समन्ततोवकृष्यन्त कामाच्चान्याः प्रवव्रजुः ॥ ६० ॥ ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः । जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सहस्रशः ॥ ६१ ॥ क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः । अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः ॥ ६२ ॥ स शरक्षयमासाद्य दुःखशोकसमाहतः । धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः ॥ ६३ ॥ प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः । जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय ॥ ६४ ॥ धनंजयस्तु दैवं तन्मनसाऽचिन्तयत्प्रभुः । दुःखसोकसमाविष्टो निःश्वासपरमोऽभवत् ॥ ६५ ॥ अस्त्राणां च प्रणाशेन बाहुवीर्यस्य च क्षयात् । धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च ॥ ६६ ॥ बभूव विमनाः पार्थो दैवमित्युनुचिन्तयन् । न्यवर्तत ततो राजन्नेदमस्तीति चिन्तयन् ॥ ६७ ॥ ततः शेषं समादाय कलत्रस्य महामतिः । हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत् ॥ ६८ ॥ युधिष्ठिरस्यानुमते वंशकर्तॄन्कुमारकान् । न्यवेशयत कौरव्यस्तत्रतत्र धनंजयः ॥ ६९ ॥ हार्दिक्यतनयं पार्थो नगरे मृत्तिकावते । अश्वपतिं खाण्डवारण्ये राज्ये तत्र न्येवशयत् । भोजराजकलत्रं च हृतशेषं नरोत्तमः ॥ ७० ॥ तथा वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः । वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत् ॥ ७१ ॥ यौयुधानिं सरस्वत्याः पुत्रं सात्यकिनः प्रियम् । न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम् ॥ ७२ ॥ इन्द्रप्रस्थे ददौ राज्यं व्रज्राय परवीरहा । वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः ॥ ७३ ॥ रुक्मिणी त्वथ गान्धारी शैब्दा हैमवतीत्यपि । देवी जींबवती चैव विविशुर्जातवेदसम् ॥ ७४ ॥ सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः । वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः ॥ ७५ ॥ द्वारकावासिनो ये पुरुषाः पार्थमभ्ययुः । यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः ॥ ७६ ॥ स तत्कृत्वा प्राप्तकालं बाष्णेणापिहितोऽर्जुनः । कृष्णद्वैपायनं व्यासं ददर्शासीनमाश्रमे ॥ ७७ ॥ ॥ इति श्रीमन्महाभारते मौसलपर्वणि अष्टमोऽध्यायः ॥ अध्यायः ९ (Adhyaaya 9) ===================================================== वैशम्पायन उवाच प्रविश्य त्वर्जुनो राजन्नाश्रमं सत्यवादिनः । ददर्शासीनमेकान्तो मुनिं सत्यवतीसुतम् ॥ १ ॥ स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् । अर्जुनोस्मीति नामास्तै निवेद्याभ्यवदत्ततः ॥ २ ॥ स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः । आस्यतामिति होवाच प्रसन्नात्मा महामुनिः ॥ ३ ॥ तमप्रतीतमनसं निःश्वसन्तं पुनःपुनः । निर्विष्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ॥ ४ ॥ नखकेशदशाकुंभवारिणा किं समुक्षितः । आवीरजानुगमनं ब्राह्मणो वा हतस्त्वया ॥ ५ ॥ युद्धे पराजितो वाऽसि दतश्रीरिव लक्ष्यसे । न त्वां प्रभिन्नं जानामि किमिदं भरतर्षभ । श्रोतव्यं चेन्मया पार्थ क्षश्रिप्रमाख्यातुमर्हसि ॥ ६ ॥ अर्जुन उवाच यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः । स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ॥ ७ ॥ तदनुस्मृत्य संमोहं तदा शोकं महामते । प्रयामि सर्वदा मह्यं मुमूर्षा चोपजायते ॥ ८ ॥ तद्वाक्यस्पर्शनालोकसुखं चामृतसन्निभम् । संस्मृत्य देवदेवस्य प्रमुह्यित्यमृतात्मनः ॥ ९ ॥ मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः । बभूव वीरान्तकरः प्रभासे रोमहर्षणः ॥ १० ॥ एते शूरा महात्मानः सिंहदर्पा महाबलाः । भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ॥ ११ ॥ गदापरिघशक्तीनां सहाः परिघबाहवः । त एरकाभिर्निहताः पश्य कालस्य पर्ययम् ॥ १२ ॥ हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् । निधनं समनुप्राप्तं समासाद्येतरेतरम् ॥ १३ ॥ पुनःपुनर्न मृष्यामि विनाशममितौजसाम् । चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ॥ १४ ॥ शोषणं सागरस्येव मन्दरस्येव चालनम् । नभसः पतनं चैव शैत्यमग्नेस्तथैव च ॥ १५ ॥ अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः । न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥ १६ ॥ इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन । मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥ १७ ॥ पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः । आभीरैरभिभूयाजौ हृताः पञ्चनदालयैः ॥ १८ ॥ धनुरादाय तत्राहं नाशकं तस्य पूरणे । यथापुरा च मे वीर्यं भुजयोर्न तथाऽभवत् ॥ १९ ॥ अस्त्राणि मे प्रनष्टानि विविधानि महामुने । शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ॥ २० ॥ पुरुषस्चाप्रमेयात्मा शङ्खचक्रगदाधरः । चतुर्भुजः पीतवासाः श्यामः पद्मदलेक्षणः ॥ २१ ॥ यश्च याति पुरस्तान्मे रथस्य सुमहाद्युतिः । प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ॥ २२ ॥ येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा । शरैर्गाण्डीवनिर्मुक्तैरहं पश्चादशातयम् ॥ २३ ॥ तमपश्यन्विषीदामि घूर्णामीव च सत्तम । परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ॥ २४ ॥ देवकीनन्दनं देवं वासुदेवमजं प्रभुम् । विना जनार्दनं वीरं नाहं जीवितुमुत्सहे ॥ २५ ॥ श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः । प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः । उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ॥ २६ ॥ व्यास उवाच देवांशा देवभूतेन सम्भूतास्ते गतास्सह । धर्मव्यवस्थारक्षार्थं देवेन समुपेक्षिताः ॥ २७ ॥ ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकसमहारथाः । विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ॥ २८ ॥ भवितव्यं तथा तच्च दिष्टमेतन्महात्मनाम् । उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥ २९ ॥ त्रैलोक्यमपि गोविन्दः कृत्स्नं स्थावरजङ्गमम् । प्रसहेदन्यथा कर्तुं कुतः शापं महात्मनाम् ॥ ३० ॥ स्त्रियश्च ताः पुरा शप्ताः प्रभासे कुपितेन वै । अष्टावक्रेण मुनिना तदर्थं त्वद्बलक्षयम् ॥ ३१ ॥ रथस्य पुरतो याति यः स चक्रगदाधरः । तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ॥ ३२ ॥ कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः । मोक्षयित्वा तनुं प्राप्तः कृष्णः स्वस्थानमुत्तमम् ॥ ३३ ॥ त्वयाऽपीह महत्कर्म देवानां पुरुषर्षभ । कृतं भीमसहायेन यमाभ्यां च महाभुज ॥ ३४ ॥ कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव । गमनं प्राप्तकालं व इदं श्रेयस्करं विभो ॥ ३५ ॥ बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत । भवन्ति भवकालेषु विपद्यन्ते विपर्यये ॥ ३६ ॥ कालमूलमिदं सर्वं जगद्बीजं धनंजय । काल एव समादत्ते पुनरेव यदृच्छया ॥ ३७ ॥ स एव बलवान्भूत्वा पुनर्भवति दुर्बलः । स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ॥ ३८ ॥ कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् । पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ॥ ३९ ॥ कालो गन्तुं गतिं मुख्यां भवतामपि भारत । एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ॥ ४० ॥ वैशम्पायन उवाच एतद्वचनमाज्ञाय व्यासस्यामिततेजसः । अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ॥ ४१ ॥ प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् । आचष्ट तद्यथावृत्तं वृष्ण्यन्धककुलं प्रति ॥ ४२ ॥ ॥ इति श्रीमन्महाभारते मौसलपर्वणि नवमोऽध्यायः ॥ ॥ इति मौसलपर्व समाप्तम् ॥ -------------------------------------------------------------- FOOTNOTES -------------------------------------------------------------- Adhyaaya 5, Shloka 33: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 4 Adhyaaya 9, Shloka 33: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 23 *********************************************************************** This document has been provided by Achyuta Bhakti Deets. Visit https://bhaktideets.org or https://elib.bhaktideets.org for more Shaastra related content. © Copyrights 2022-26 Achyuta Bhakti Deets श्री हरये नमः । श्रीकृष्णार्पणमस्तु ॥