श्री नारायणाय नमः । ===================================================== Filename : Mahaabhaarata-Saara.txt Name of the Text: Mahaabhaarata Saara Category : Shaastra Subcategory : Itihaasa Details : Samskrta text of the Adhyaayas of the Mahaabhaarata in the book 'Extracts from the Mahaabhaarata' Language/Script : Samskrta (Devanaagari) Author : Shri Krshna-Dvaipaayana Vyaasa Deva Published on : 19 April 2026 Last updated on : - © Copyrights 2022-26 Achyuta Bhakti Deets ===================================================== Mahaabhaarata Saara महाभारतसारः नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम् ॥ -------------------------------------------------------------- आदिपर्व (Aadi Parva) -------------------------------------------------------------- अध्यायः १ (Adhyaaya 1) ===================================================== नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥ नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम् ॥ २ ॥ नमो धर्माय महते नमः कृष्णाय वेधसे । ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥ ३ ॥ ॐ नमो भगवते वासुदेवाय । ॐ नमः पितामहाय । ॐ नमः प्रजापतिभ्यः । ॐ नमः कृष्णद्वैपायनाय । ॐ नमः सर्वविघ्नविनायकेभ्यः ॥ ४ ॥ रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको । नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥ ५ ॥ सुखासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् । विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥ ६ ॥ तमाश्रममनुप्राप्य नैमिशारण्यवासिनः । उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्यदर्शनात् ॥ ७ ॥ वेद वैयासिकीः सर्वाः कथा धर्मायसंहिताः । वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः ॥ ८ ॥ तस्य तद्वचनं श्रुत्वा नैमिशारण्यवासिनः । चित्रा श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥ ९ ॥ अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः । अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिपूजितः ॥ १० ॥ अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु । निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः ॥ ११ ॥ सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च । अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥ १२ ॥ कुत आगम्यते सौते क्वचायं विहृतस्त्वया । कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥ १३ ॥ एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षिणः । वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम् ॥ १४ ॥ तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम् । सौतिरुवाच जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ॥ १५ ॥ समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च । कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः ॥ १६ ॥ कथिताश्चापि विधिवद्या वैशम्पायनेन वै । श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः ॥ १७ ॥ बहूनि संपरिक्रम्य तीर्थान्यायतनानि च । समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् ॥ १८ ॥ गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा । कुरूणां पाण्डवानां च सर्वेषां चहीक्षिताम् ॥ १९ ॥ दिदृक्षुंरागतस्तस्मात्समीपं भावतामिह । आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः । अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः ॥ २० ॥ कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः । भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥ २१ ॥ पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः । इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥ २२ ॥ ऋषय ऊचुः द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा । सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥ २३ ॥ तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः । सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥ २४ ॥ भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् । संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ २५ ॥ जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् । यथावत्स ऋषिः पृष्टः सत्रे द्वैपायनाज्ञया ॥ २६ ॥ वेदैश्चतुर्भिः सयुक्तां व्यासस्याद्भुतकर्मणः । संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम् ॥ २७ ॥ सौतिरुवाच आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् । ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ २८ ॥ असच्च सच्चैव च यद्विश्वं सदसतः परम् । परावराणां स्रष्टारं पुराणं परमव्ययम् ॥ २९ ॥ मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ ३० ॥ महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः । प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः ॥ ३१ ॥ नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ ३२ ॥ सर्वाश्रमाभिशमनं सर्वतीर्थावगाहनम् । न तथा फलद सूते नारायणकथा यथा ॥ ३३ ॥ नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥ ३४ ॥ आचख्युः कवयः केचित्संप्रत्याचक्षते परे । आख्यास्यन्ति तथैवान्य इतिहासमिमं भुवि ॥ ३५ ॥ इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् । विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥ ३६ ॥ अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः । छन्दोवृत्तैश्च विविधैरन्वितं विदुषांप्रियम् ॥ ३७ ॥ तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ ३८ ॥ पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये । विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः ॥ ३९ ॥ शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः । भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् । प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः ॥ ४० ॥ निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसा वृते । बृहदण्डमभूदेकं प्रजानां बीजमव्ययम् ॥ ४१ ॥ युगस्यादिनिमित्तं तन्महद्दिव्यं प्रचक्षत । व्यस्मिंस्तच्छ्रूयते सत्यञ्ज्योतिर्ब्रह्म सनातनम् ॥ ४२ ॥ अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां मतम् । अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥ ४३ ॥ यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥ ४४ ॥ प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्तवै । ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥ ४५ ॥ पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदुः । विश्वेदेवास्तथाऽऽदित्या वसवोऽथाश्विनावपि ॥ ४६ ॥ यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा । ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः ॥ ४७ ॥ महर्षयश्च बहवः सर्वैः समुदिता गुणैः । आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तया ॥ ४८ ॥ संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् । यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम् ॥ ४९ ॥ यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् । पुनस्सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥ ५० ॥ यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ५१ ॥ एवमेतदनाद्यन्तं भूतसंहारकारकम् । अनादिनिधनं लोके चक्रं संपरिवर्तते ॥ ५२ ॥ त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ॥ ५३ ॥ दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः । सविता स ऋचीकोऽर्को भानुराशावहो रविः ॥ ५४ ॥ पुत्रा विवस्वतः सर्वे मनुस्तेषां तथाऽवरः । देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः ॥ ५५ ॥ सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः । दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च ॥ ५६ ॥ दशपुत्रसहस्राणि दशज्योतेर्महात्मनः । ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥ ५७ ॥ भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः । तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ ५८ ॥ ययातीक्ष्वाकृवंशश्च राजर्षीणां च सर्वशः । संभूता बहवो वंशा भूतसर्गाः सुविस्तराः ॥ ५९ ॥ भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् । वेदा योगस्सविज्ञानो धर्मोऽर्थः काम एव च ॥ ६० ॥ धर्मार्थकामयुक्तानि शास्त्राणि विविधानि च । लोकयात्राविधाञ्च सर्व तद्दृष्टवानृषिः ॥ ६१ ॥ नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः । इतिहासाः सहव्याख्या विविधाश्रुतयोऽपि च ॥ ६२ ॥ इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् । सङ्क्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम् ॥ ६३ ॥ विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षिप्य चाब्रवीत् । इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ ६४ ॥ मन्वादि भारतं केचिदास्तीकादि तथाऽपरे । तथोपरिचराद्यन्ये विप्राः सम्यगधीयिरे ॥ ६५ ॥ विविधं संहिताज्ञानं दीपयन्ति मनीषिणः । व्याख्यातुं कुशलाः केचिद्ग्रन्थान्धारयितुं परे ॥ ६६ ॥ तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥ ६७ ॥ पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः । मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥ ६८ ॥ क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा । त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥ ६९ ॥ उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च । जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥ ७० ॥ तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् । अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥ ७१ ॥ जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः । शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥ ७२ ॥ स सदस्यैस्सहासीनं श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ ७३ ॥ विस्तारं कुरुवंशस्य गान्धार्या धर्मशीलताम् । क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोब्रवीत् ॥ ७४ ॥ वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् । दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥ ७५ ॥ इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम् । उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥ ७६ ॥ चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥ ७७ ॥ ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः । अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् ॥ ७८ ॥ तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः । कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत् ॥ ७९ ॥ तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च । तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम् ॥ ८० ॥ प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया । तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः ॥ ८१ ॥ आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः । हिरण्यमर्भमासीनं तस्मिंस्तु परमासने । परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत् ॥ ८२ ॥ अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना । निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः ॥ ८३ ॥ उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् । कृतं मयेदं भगवन्काव्यं परमपूजितम् ॥ ८४ ॥ ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया । साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया ॥ ८५ ॥ इतिहासपुरापानामुन्मेषं निमिषं च यत् । भूतं भव्यं भविष्यञ्च त्रिविधं कालसंज्ञितम् ॥ ८६ ॥ जरामृत्युभयव्याधिभावाभावविनिश्चयः । विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम् ॥ ८७ ॥ चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः । तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः ॥ ८८ ॥ ग्रहनक्षत्रताराणां प्रमाणं च युगैस्सह । ऋचो यजूषि सामानि वेदाध्यात्मं तथैव च ॥ ८९ ॥ न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा । इति नैकाश्रयं जन्म दिव्यमानुषसंज्ञितम् ॥ ९० ॥ तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम् । नदीनां पर्वतानां च वनानां सागरस्य च ॥ ९१ ॥ पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम् । वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः ॥ ९२ ॥ यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम् । परं न लेखकः कश्चिदेतस्य भुवि विद्यते ॥ ९३ ॥ ब्रह्मोवाच तपोविशिष्टदपि वै वसिष्ठान्मुनिपुङ्गवात् । मन्ये श्रेष्ठव्यं त्वां वै रहस्यज्ञानवेदनात् ॥ ९४ ॥ जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम् । त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति ॥ ९५ ॥ अस्य काव्यस्य कवयो न समर्था विशेषणे । विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः ॥ ९६ ॥ जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत् । यदि ज्ञानहुताशेन त्वया नोज्ज्वलियं भवेत् ॥ ९७ ॥ तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः । ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः कृतः ॥ ९८ ॥ धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः । त्वया भारतसूर्येण नृणां विनिहतं तमः ॥ ९९ ॥ पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना । नृणां कुमुदसौम्यानां कृतं बुद्धिप्रसादनम् ॥ १०० ॥ इतिहासप्रदीपेन मोहावरणघातिना । लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम् ॥ १०१ ॥ सङ्ग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् । संभवस्कन्धविस्तारः सभापर्वविटङ्कवान् ॥ १०२ ॥ आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान् । भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् ॥ १०३ ॥ कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः । स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः ॥ १०४ ॥ अश्वमेधामृतसस्त्वाश्रमस्थानसंश्रयः । मौसलश्रुतिसङ्क्षेपः शिष्टद्विजनिषेवितः ॥ १०५ ॥ सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति । पर्जन्य इव भूतानामक्षयो भारद्रुमः ॥ १०६ ॥ काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने । सौतिरुवाच एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् ॥ १०७ ॥ भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह । ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः ॥ १०८ ॥ स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः । तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः ॥ १०९ ॥ पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ । लेखको भारतस्यास्य भव त्वं गणनायक । मयैव प्रोच्यमानस्य मनसा कल्पितस्य च ॥ ११० ॥ श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम् । लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥ १११ ॥ व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् । ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः ॥ ११२ ॥ ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् । यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम् ॥ ११३ ॥ अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च । अहं वेद्मि शुको वेत्ति सञ्जयो वेत्ति वा न वा ॥ ११४ ॥ तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने । भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च ॥ ११५ ॥ सर्वज्ञोऽपि गणेशो यत्क्षणमास्ते विचारयन् । तावच्चकार व्यासोऽपि श्लोकानन्यान्बहूनपि ॥ ११६ ॥ तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम् । स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि ॥ ११७ ॥ अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम् । इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ॥ ११८ ॥ ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः । षष्टिं शतसहस्राणि चकारान्यां स संहिताम् । त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् ॥ ११९ ॥ पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश । एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् ॥ १२० ॥ नारदोऽश्रावयद्देवानसितो देवलः पितृन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ १२१ ॥ वैशम्पायनविप्रर्षिः श्रावयामास पार्थिवम् । पारिक्षितं महात्मानं नाम्ना तु जनमेजयम् ॥ १२२ ॥ अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान् । शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः । एकं शतसहस्रं तु मयोक्तं वै निबोधत ॥ १२३ ॥ दुर्योधनो मन्युमयो महाद्रुमः कर्णः स्कन्धः शकुनिस्तस्य शाखाः । दुश्शासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषि ॥ १२४ ॥ युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ १२५ ॥ पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च । अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा ॥ १२६ ॥ मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम् । जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥ १२७ ॥ मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति । धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥ १२८ ॥ ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा । धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया ॥ १२९ ॥ तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च । जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः । तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ॥ १३० ॥ मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च । तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु ॥ १३१ ॥ माद्र्या तु सह सङ्गम्य ऋषिशापप्रभावतः । मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ ॥ १३२ ॥ ऋषिभिश्च समानीता धार्तराष्ट्रान्प्रति स्वयम् । शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ १३३ ॥ पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः । पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥ १३४ ॥ तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा । शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥ १३५ ॥ आहुः केचिन्न तस्यैते तस्यैत इति चापरे । यदा चिरमृतः पाण्डुः कथं तस्येतदि चापरे ॥ १३६ ॥ स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् । उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥ १३७ ॥ तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन् । अन्तर्हितानां भूतानां निःस्वनस्तुमुलीऽभवत् ॥ १३८ ॥ पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः । आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥ १३९ ॥ तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः । शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥ १४० ॥ तेऽधीत्य निखिलान्वेदाञ्शास्त्राणि विविधानि च । न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥ १४१ ॥ युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् । धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ १४२ ॥ गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च । तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥ १४३ ॥ समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् । प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥ १४४ ॥ ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् । आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ १४५ ॥ स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् । आजहारार्जुनो राज्ञो राजसूयं महाक्रतुम् ॥ १४६ ॥ अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः । युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः ॥ १४७ ॥ सुनयाद्वासुदेवस्य भीमार्जुनबलेन च । घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥ १४८ ॥ दुर्योधनं समागच्छन्नर्हणानि ततस्ततः । मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥ १४९ ॥ विचित्राणि च वासांसि प्रावारावरणानि च । कम्बलाजिनरत्नानि राङ्कवास्तरणानि च ॥ १५० ॥ समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् । ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥ १५१ ॥ विमानप्रतिमां तत्र मयेन सुकृतां सभाम् । पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥ १५२ ॥ तत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् । प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥ १५३ ॥ स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च । कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥ १५४ ॥ अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः । तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥ १५५ ॥ नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत । द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत ॥ १५६ ॥ निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम् । विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम् ॥ १५७ ॥ जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् । दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ॥ १५८ ॥ धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् । शृणु सञ्जय सर्वं मे नचासूयितुमर्हसि ॥ १५९ ॥ श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः । न विग्रहे मम मतिर्न च प्रीये कुलक्षये ॥ १६० ॥ न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु वा । वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः ॥ १६१ ॥ अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् । मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ॥ १६२ ॥ राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः । तच्चावहसनं प्राप्य सभारोहणदर्शने ॥ १६३ ॥ अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे । निरुत्साहश्च संप्राप्तुं सुश्रियं क्षत्रियोऽपि सन् ॥ १६४ ॥ गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् । तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु ॥ १६५ ॥ श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः । ततो ज्ञास्यसि मां सौते प्रज्ञाटचक्षुषमित्युत ॥ १६६ ॥ यदाऽश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् । कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय सञ्जय ॥ १६७ ॥ यदाऽश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन । इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय सञ्जय ॥ १६८ ॥ यदाऽश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन । अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय सञ्जय ॥ १६९ ॥ यदाऽश्रौषं जातुषाद्वेश्मनस्तान्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान् । युक्तं चैषां विदुरं स्वार्थसिद्ध्यैतदा नाशंसे विजयाय सञ्जय ॥ १७० ॥ यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन । शूरान्पञ्चालान्पाण्डवेयांश्च युक्तांस्तदा नाशंसे विजयाय सञ्जय ॥ १७१ ॥ यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्ष्वमध्ये ज्वलन्तम् । दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय सञ्जय ॥ १७२ ॥ यदाऽश्रौषं दिग्जये पाण्डुपुत्रैर्वशीकृतान्भूमिपालान्प्रसह्य । महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय सञ्जय ॥ १७३ ॥ यदाऽश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम् । रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय सञ्जय ॥ १७४ ॥ यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः । दुःशासनो गतवान्नैवं चान्तं तदा नाशंसे विजयाय सञ्जय ॥ १७५ ॥ यदाऽश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् । अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय सञ्जय ॥ १७६ ॥ यदाश्रौषं विविधास्तत्र चेष्टा धर्मात्मनां प्रस्थितानां वनाय । ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय सञ्जय ॥ १७७ ॥ यदाऽश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम् । भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय सञ्जय ॥ १७८ ॥ यदाऽश्रौषं वनवासेन पार्थान्समागतान्महर्षिभिः पुराणैः । उपास्यमानान्सगणैर्जातसख्यांस्तदा नाशंसे विजयाय सञ्जय ॥ १७९ ॥ यदाश्रौषं त्रिदिवस्थं धनञ्जयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् । अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय सञ्जय ॥ १७९ ॥ यदाऽश्रोषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः । देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय सञ्जय ॥ १८१ ॥ यदाऽश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम् । कृतार्थं चाप्यागतं शक्रलोकात्तदा नाशंसे विजयाय सञ्जय ॥ १८२ ॥ यदाऽश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन । बृहदश्वादक्षहृदयं च प्राप्तं तदा नाशंसे विजयाय सञ्जय ॥ १८३ ॥ यदाऽश्रौषं वैश्रवणेन सार्धं समागतं भीमन्यांश्च पार्थान् । तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसि विजयाय सञ्जय ॥ १८४ ॥ यदाऽश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन । स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय सञ्जय ॥ १८५ ॥ यदाऽश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत । प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक् तदा नाशंसे विजयाय सञ्जय ॥ १८६ ॥ यदाऽश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान् । विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय सञ्जय ॥ १८७ ॥ यदाऽश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम् । द्रौपद्यर्थे भीमसेनेन सङ्ख्ये तदा नाशंसे विजयाय सञ्जय ॥ १८८ ॥ यदाऽश्रौषं मामकानां वरिष्ठान्धनञ्जयेनैकरथेन भग्नान् । विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय सञ्जय ॥ १८९ ॥ यदाऽश्रौषं सत्कृतं मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय । तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय सञ्जय ॥ १९० ॥ यदाऽश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य । अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय सञ्जय ॥ १९१ ॥ यदाऽश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् । यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय सञ्जय ॥ १९२ ॥ यदाऽश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य । अहं द्रष्टा ब्रह्मलोके च सम्यक् तदा नाशंसे विजयाय सञ्जय ॥ १९३ ॥ यदाऽश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम् । शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय सञ्जय ॥ १९४ ॥ यदाऽश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य । तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय सञ्जय ॥ १९५ ॥ यदाऽश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् । आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय सञ्जय ॥ १९६ ॥ यदाऽश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम् । भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय सञ्जय ॥ १९७ ॥ यदा कर्णो भीष्ममुवाच वाक्यं नाहं योत्स्ये युध्यमाने त्वयीति । हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय सञ्जय ॥ १९८ ॥ यदाऽश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् । त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय सञ्जय ॥ १९९ ॥ यदाऽश्रौषं क्लेशेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै । कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय सञ्जय ॥ २०० ॥ यदाऽश्रौषं भीष्ममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् । नैषां कश्चिद्वध्यते ख्यातरूपस्तदा नाशंसे विजयाय सञ्जय ॥ २०१ ॥ यदाऽश्रौषं चापगेयेन सङ्ख्ये स्वयं मृत्युं विहितं धार्मिकेण । तच्चाकार्षुः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय सञ्जय ॥ २०२ ॥ यदाऽश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् । शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय सञ्जय ॥ २०३ ॥ यदाऽश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः । भीष्मं कृत्वा सोमकानल्पशेषांस्तदा नाशंसे विजयाय सञ्जय ॥ २०४ ॥ यदाऽश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन । भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय सञ्जय ॥ २०५ ॥ यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय । नित्यं चास्मांश्वापदा भीषयन्ति तदा नाशंसे विजयाय सञ्जय ॥ २०६ ॥ यदा द्रोणो विविधानस्त्रमार्गान्निदर्शयन्समरे चित्रयोधी । न पाण्डवाश्रेष्ठतरान्निहन्ति तदा नाशंसे विजयायं सञ्जय ॥ २०७ ॥ यदाऽश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय । संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय सञ्जय ॥ २०८ ॥ यदाऽश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम् । भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय सञ्जय ॥ २०९ ॥ यदाऽभिमन्युं परिवार्य बालं सर्वे हत्त्वा हृष्टरूपा बभूवुः । महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय सञ्जय ॥ २१० ॥ यदाऽश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् । क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय सञ्जय ॥ २११ ॥ यदाऽश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन । सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय सञ्जय ॥ २१२ ॥ यदाऽश्रौषं श्रान्तहये धनञ्जये मुक्त्वा हयान्पाययित्वोपवृत्तान् । पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय सञ्जय ॥ २१३ ॥ यदाऽश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन । सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय सञ्जय ॥ २१४ ॥ यदाऽश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य । यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय सञ्जय ॥ २१५ ॥ यदाऽश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः । धनुष्कोट्याऽऽतुद्य कर्णेन वीरं तदा नाशंसे विजयाय सञ्जय ॥ २१६ ॥ यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः । अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय सञ्जय ॥ २१७ ॥ यदाऽश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन । घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय सञ्जय ॥ २१८ ॥ यदाऽश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् । यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय सञ्जय ॥ २१९ ॥ यदाऽश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् । रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय सञ्जय ॥ २२० ॥ यदाऽश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये । समं युद्धे मण्डलेभ्यश्चरन्तं तदा नाशंसे विजयाय सञ्जय ॥ २२१ ॥ यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् । नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय सञ्जय ॥ २२२ ॥ यदाऽश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य । निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय सञ्जय ॥ २२३ ॥ यदाऽश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् । तस्मिन्भ्रातृणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय सञ्जय ॥ २२४ ॥ यदाऽश्रौषं द्रोणपुत्रं च शूरं दुःशासनं कृतवर्माणमुग्रम् । युधिष्ठिरं धर्मराजं जयन्तं तदा नाशंसे विजयाय सञ्जय ॥ २२५ ॥ यदाऽश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत । सदा सङ्ग्रामे स्प्रधते यस्तु कृष्णं तदा नाशंसे विजयाय सञ्जय ॥ २२६ ॥ यदाऽश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन । हतं सङ्ग्रामे सहदेवेन पापं तदा नाशंसे विजयाय सञ्जय ॥ २२७ ॥ यदाऽश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः । दुर्योधनं विरथं भग्नशक्तिं तदा नाशंसे विजयाय सञ्जय ॥ २२८ ॥ यदाऽश्रौषं पाण्डवांस्तिष्ठमानान्गत्वा ह्रदे वासुदेवेन सार्धम् । अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय सञ्जय ॥ २२९ ॥ यदाऽश्रौषं विविधांश्चित्रमार्गान्गदायुद्धे मण्डलशश्चरन्तम् । मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय सञ्जय ॥ २३० ॥ यदाऽश्रौषं द्रोणपुत्रादिभिस्तैर्हतान्पञ्चालान्द्रौपदेयांश्च सुतान् । कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय सञ्जय ॥ २३१ ॥ यदाऽश्रौषं भीमसेनानुयातेनाश्वत्थाम्ना परमास्त्रं प्रयुक्तम् । क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय सञ्जय ॥ २३२ ॥ यदाऽश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम् । अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय सञ्जय ॥ २३३ ॥ यदाऽश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः । सञ्जीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय सञ्जय ॥ २३४ ॥ द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप । बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत संतप्ये वै पुत्रपौत्रैश्च हीनः ॥ २३५ ॥ शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वा पितृभिर्भ्रातृभिश्च । कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः ॥ २३६ ॥ कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त । द्व्यूना विंशतिराहताऽक्षौहिणीनां तस्मिन्सङ्ग्रामे भैरवे क्षत्रियाणाम् ॥ २३७ ॥ तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम् । संज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥ २३८ ॥ सौतिरुवाच इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहु दुःखितः । मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् ॥ २३९ ॥ धृतराष्ट्र उवाच सञ्जयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम् । स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥ २४० ॥ सौतिरुवाच तं तथा वादिनं दीनं विलपन्तं महीपतिम् । निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः ॥ २४१ ॥ गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् । सञ्जय उवाच श्रुतवानसि वै राजन्महोत्साहान्महाबलान् ॥ २४२ ॥ द्वैपायनस्य वदतो नारदस्य च धीमतः । महत्सु राजवंशेषु गुणैः समुदितेषु च ॥ २४३ ॥ जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः । धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः ॥ २४४ ॥ अस्मिँल्लोके यशः प्राप्य ततः कालवशं गतान् । शैब्यं महारथं वीरं सृञ्जयं जयतां वरम् ॥ २४५ ॥ सुहोत्रं रन्तिदेवं च काक्षीवन्तमतौशिजम् । बाह्लीकं दमनं चैद्यं शर्यातिमजितं नलम् ॥ २४६ ॥ विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् । मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ॥ २४७ ॥ रामं दाशरथिं चैव शशबिन्दुं भगीरथम् । कृतवीर्यं महाभागं तथैव जनमेजयम् ॥ २४८ ॥ ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् । चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ॥ २४९ ॥ इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा । पुत्रशोकाभितप्ताय पुरा श्वैत्याय कीर्तितम् ॥ २५० ॥ तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः । महारथा महात्मानः सर्वैः समुदिता गुणैः ॥ २५१ ॥ पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः । अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥ २५२ ॥ विजयो वीतिहोत्रोऽङ्गो भवः श्वेतो बृहद्गुरुः । उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥ २५३ ॥ दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः । अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः ॥ २५४ ॥ देवाहुयः सुप्रतिमः सुप्रतीको बृहद्रथः । महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ॥ २५५ ॥ सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः । जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुचिव्रतः ॥ २५६ ॥ बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः । धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥ २५७ ॥ अविक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः । महापुराणसंभाव्यः प्रत्यङ्गः परहा श्रुतिः ॥ २५८ ॥ एते चान्ये च राजानः शतशोऽथ सहस्रशः । श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चैव पद्मशः ॥ २५९ ॥ हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः । राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तरः ॥ २६० ॥ येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च । माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयाऽर्जवम् ॥ २६१ ॥ विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः । सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः ॥ २६२ ॥ तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना । लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि ॥ २६३ ॥ श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः । येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥ २६४ ॥ निग्रहानुग्रहौ चापि विदितौ ते नराधिप । नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे ॥ २६५ ॥ भवितव्यं तथा तच्च नानुशोचितुमर्हसि । दैवं पुरुषकारेण को निवर्तितुमर्हति ॥ २६६ ॥ विधातृविहितं मार्गं न कश्चिदतिवर्तते । कालमूलमिदं सर्वं भावाभावौ सुखासुखे ॥ २६७ ॥ कालः सृजति भूतानि कालः संहरते प्रजाः । संहरन्तं प्रजाः कालं कालः शमयते पुनः ॥ २६८ ॥ कालो विकुरुते भावान्सर्वांल्लोके शुभाशुभान् । कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः ॥ २६९ ॥ कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः । कालः सर्वेषु भूतेषु चरत्यविधतः समः ॥ २७० ॥ अतीतानागता भावा ये च वर्तन्ति सांप्रतम् । तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥ २७१ ॥ सौतिरुवाच इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् । आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा ॥ २७२ ॥ धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत् । दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः ॥ २७३ ॥ लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः । अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ॥ २७४ ॥ विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः । भारताध्ययनं पुण्यमपि पादमधीयतः । श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥ २७५ ॥ देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः । कीर्त्यन्ते शुमकर्माणस्तथा यक्षा महोरगाः ॥ २७६ ॥ भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः । स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ॥ २७७ ॥ शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् । यस्य दिव्यानि कर्माणि कथन्ति मनीषिणः ॥ २७८ ॥ असत्सत्सदसच्चैव यस्माद्विश्वं प्रवर्तते । सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः ॥ २७९ ॥ अध्यात्मं श्रूयते यत्र पञ्चभूतगुणात्मकम् । अव्यक्तादि परं यच्च स एव परिगीयते ॥ २८० ॥ यं ध्यायन्ति सदा मुक्ता ध्यानयोगबलान्विताः । प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥ २८१ ॥ श्रद्दधानः सदा युक्तः सदा धर्मपरायणः । आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ॥ २८२ ॥ अनुक्रमणिकाध्यायं भारतस्येममादितः । आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ॥ २८३ ॥ उभे सन्ध्ये जपन्किञ्चित्सद्यो मुच्येत किल्बिषात् । अनुक्रमण्या यावत्स्यादह्नारात्र्या च सञ्चितम् ॥ २८४ ॥ भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च । नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥ २८५ ॥ आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा । ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् । यथैतानीतिहासानां तथा भारतमुच्यते ॥ २८६ ॥ यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यमन्नपानं वै पितृंस्तस्योपतिष्ठते ॥ २८७ ॥ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ २८८ ॥ कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते । भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम् ॥ २८९ ॥ य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि । अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ॥ २९० ॥ यश्चैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः । स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ॥ २९१ ॥ एकतश्चतुरो वेदा भारतं चैतदेकतः । पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम् ॥ २९२ ॥ चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा । तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते ॥ २९३ ॥ महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम् । महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ २९४ ॥ तपो नकल्कोऽध्ययनं नकल्कः स्वाभाविको वेदविधिर्नकल्कः । प्रसह्य वित्ताहरणं नकल्कस्तान्येव भावोपहतानि कल्कः ॥ २९५ ॥ ॥ इति श्रीमन्माहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि प्रथमोऽध्यायः ॥ -------------------------------------------------------------- शान्तिपर्व (Shaanti Parva) -------------------------------------------------------------- अध्यायः ४६ (Adhyaaya 46) ===================================================== जनमेजय उवाच शरतल्पे शयानस्तु भरतानां पितामहः । कथमुत्सृष्टवान्देहं कं च योगमधारयत् ॥ १ ॥ वैशम्पायन उवाच शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः । भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ॥ २ ॥ प्रवृत्तमात्रे त्वयनमुत्तरेण दिवाकरे । शुक्लपक्षस्य चाष्टभ्यां माघमासस्य पार्थिव ॥ ३ ॥ प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे । समावेशयदात्मानमात्मत्येव समाहितः ॥ ४ ॥ विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः । शुशुभे परया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ॥ ५ ॥ व्यासेन देवश्रवसा नारदेन सुरर्षिणा । देवस्थानेन वात्स्येन तथाऽश्मकसुमन्तुना ॥ ६ ॥ तथा जैमिनिना चैव पैलेन च महात्मना । शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता ॥ ७ ॥ असितेन वसिष्ठेन कौशिकेन महात्मना । हारितलोमशाभ्यां च तथाऽऽत्रेयेण धीमता ॥ ८ ॥ बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः । सनत्कुमारः कपिलो चाल्मीकिस्तुम्बुरुः कुरुः ॥ ९ ॥ मौद्गल्यो भार्गवो रामस्तृणबिन्दुर्महामुनिः । पिप्पलादोऽथ वायुश्च सवर्तः पुलहः कचः ॥ १० ॥ काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः । मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः ॥ ११ ॥ धौम्यो विभाण्डो माण्डव्योधौम्रः कृष्णानुभौतिकः । उलूकः परमो विप्रो मार्कण्डेयो महामुनिः । भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः ॥ १२ ॥ एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः । श्रद्धादमशमोपेतैर्वृतश्चन्द्र इव ग्रहैः ॥ १३ ॥ भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा । शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः ॥ १४ ॥ स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम् । योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् । अनादिनिधनं विष्णुमात्मयोनिं सनातनम् ॥ १५ ॥ कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः । भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ॥ १६ ॥ भीष्म उवाच आरिराधयिषुः कृष्णं वाचं जिगदिषामि याम् । तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥ १७ ॥ शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् । युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ॥ १८ ॥ अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः । एकोऽयं वेद भगवान्धाता नारायणो हरिः ॥ १९ ॥ नारायणादृषिगणास्तथा सिद्धमहोरगाः । देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् ॥ २० ॥ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । यं न जानन्ति को ह्येष कुतो वा भगवानिति ॥ २१ ॥ यमाहुर्जगतः कोशं यस्मिंश्च निहिताः प्रजाः । यस्मिँल्लोकाः स्फुरन्त्येते जाले शकुनयो यथा ॥ २२ ॥ यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च । गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥ २३ ॥ यं च विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् । वदन्ति जगतोऽध्यक्षमध्यात्मपरिचिन्तकाः ॥ २४ ॥ यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति । सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥ २५ ॥ हरिं सहस्रशिरसं सहस्रचरणेक्षणम् । सहस्रबाहुमकुटं सहस्रवदनोज्ज्वलम् ॥ २६ ॥ प्राहुर्नारायणं देवं यं विश्वस्य परायणम् । अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् । गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥ २७ ॥ त्वं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च । गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥ २८ ॥ चतुर्भिश्चतुरात्मानं सत्वस्थं सात्वतां पतिम् । यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥ २९ ॥ यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति । सर्वात्मा सर्ववित्सर्वः सर्वज्ञः सर्वभावनः ॥ ३० ॥ यं देवं देवकी देवी वसुदेवादजीजनत् । भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ॥ ३१ ॥ यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् । इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि ॥ ३२ ॥ अप्रतर्क्यमविज्ञेयं हरिं नारायणं विभुम् । अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् । अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥ ३३ ॥ पुराणे पुरुषं प्रोक्तं ब्रह्मप्रोक्तं युगादिषु । क्षये सङ्कर्षणं प्रोक्तं तमुपास्यमुपास्महे ॥ ३४ ॥ यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम् । नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ॥ ३५ ॥ ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् । अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ॥ ३६ ॥ यं सुरासुरगन्धर्वाः सिद्धा ऋषिमहोरगाः । प्रयता नित्यमर्चन्ति परमं सुखभेषजम् ॥ ३७ ॥ अनादिनिधनं देवमात्मयोनिं सनातनम् । अप्रेक्ष्यमनभिज्ञेयं हरिं नारायणं प्रभुम् ॥ ३८ ॥ हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् । एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥ ३९ ॥ शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः । यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ ४० ॥ हुताशनमुखैर्देवैर्धार्यते सकलं जगत् । हविः प्रथमभोक्ता यस्तस्मै होत्रात्मने नमः ॥ ४१ ॥ महतस्तमसः पारे पुरुषं ह्यतितेजसम् । यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥ ४२ ॥ यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे । यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः ॥ ४३ ॥ पादाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनभूषितम् । यमाहुरक्षरं विप्रास्तस्मै वागात्मने नमः ॥ ४४ ॥ यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहारह । लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः ॥ ४५ ॥ ऋग्यजुस्सामधामानं दशार्धहविराकृतिम् । यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥ ४६ ॥ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः ॥ ४७ ॥ यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः । रथन्तरबृहत्पक्षस्तस्मै स्तोत्रात्मने नमः ॥ ४८ ॥ यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः । हिरण्यपक्षः शकुनिस्तस्मै तार्क्ष्यात्मने नमः ॥ ४९ ॥ यश्चिनोति सतां सेतुमृतेनामृतयोनिना । धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ॥ ५० ॥ यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः । पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥ ५१ ॥ यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः । उन्मादः सर्वभूतानां तस्मै कामात्मने नमः ॥ ५२ ॥ यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः । क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥ ५३ ॥ यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः । प्राहुः सप्तदशंसाङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ॥ ५४ ॥ यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मेन नमः ॥ ५५ ॥ अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः । शान्ताः सन्न्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥ ५६ ॥ यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः ॥ ५७ ॥ युगेष्वावर्तते योऽशैर्मासर्त्वयनहायनैः । सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥ ५८ ॥ योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः । संभक्षयति भूतानि तस्मै घोरात्मने नमः ॥ ५९ ॥ संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् । बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥ ६० ॥ सहस्रशिरसे तस्मै पुरुषायामितात्मने । चतुस्समुद्रपयसि योगनिद्रात्मने नमः ॥ ६१ ॥ अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् । पुष्करं पुष्कराक्षस्य तस्मै पझात्मने नमः ॥ ६२ ॥ यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ ६३ ॥ यस्मात्सर्गाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः ॥ ६४ ॥ यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः । इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः ॥ ६५ ॥ अकार्यः सर्वकार्येषु धर्मकार्यार्थमुद्यतः । वैकुण्ठस्य हि तद्रूपं तस्मै कार्यात्मने नमः ॥ ६६ ॥ ब्रह्म वक्तं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः । पादौ यस्याश्रिताः शूद्रास्तस्मैवर्णात्मने नमः ॥ ६७ ॥ अन्नपानेन्धनमयो रसप्राणविवर्धनः । यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥ ६८ ॥ प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम् । अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः ॥ ६९ ॥ विषये वर्तमानानां यं तं वैषयिकैर्गुणैः । प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥ ७० ॥ अप्रमेयशरीराय सर्वतो बुद्धिचक्षुषे । अपारपरिमाणाय तस्मै दिव्यात्मने नमः ॥ ७१ ॥ परः कालात्परो यज्ञात्परः सदसतश्च यः । अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ॥ ७२ ॥ वैद्युतो जाठरश्चैव पावकः शुचिरेव च । दहनः सर्वभक्षाणां तस्मै वह्न्यात्मने नमः ॥ ७३ ॥ रसातलगतः श्रीमार्ननन्तो भगवान्प्रभुः । जगद्धारयते योऽसौ तस्मै शेषात्मने नमः ॥ ७४ ॥ ज्वलनार्केन्दुताराणां ज्योतिषां दिव्यमूर्तिनाम् । यस्तेजयति तेजांसि तस्मै तेजात्मने नमः ॥ ७५ ॥ आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् । यं ज्ञानेनाधिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥ ७६ ॥ साङ्ख्यैर्योगैर्विनिश्चित्य साध्यैश्च परमर्षिभिः । यस्य तु ज्ञायते तत्वं तस्मै गुह्यात्मने नमः ॥ ७७ ॥ जटिने दण्डिने नित्यं लम्बोदरशरीरिणे । कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥ ७८ ॥ शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने । भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः ॥ ७९ ॥ चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने । पिनाकशूलहस्ताय तस्मै उग्रात्मने नमः ॥ ८० ॥ यो जातो वसुदेवेन देवक्यां यदुनन्दनः । शङ्खचक्रगदापाणिर्वासुदेवात्मने नमः ॥ ८१ ॥ शिरःकपालमालाय व्याघ्रचर्मनिवासिने । भस्मदिग्धशरीराय तस्मै रुद्रात्मने नमः ॥ ८२ ॥ यो मोहयति भूतानि सर्वपाशानुबन्धनैः । सर्वस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥ ८३ ॥ चैतन्यं सर्वतो नित्यं सर्वप्राणिहृदि स्थितम् । सर्वातीततरं सूक्ष्मं तस्मै सूक्ष्मात्मने नमः ॥ ८४ ॥ पञ्चभूतात्मभूताय भूतादिनिधनाय च । अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥ ८५ ॥ यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः । यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः ॥ ८६ ॥ यः शेते क्षीरपर्यङ्के दिव्यनागविभूषिते । फणासहस्ररचिते तस्मै निद्रात्मने नमः ॥ ८७ ॥ विश्वे च मरुतश्चैव रुद्रादित्याश्विनावपि । वसवः सिद्धसाध्याश्च तस्मै देवात्मने नमः ॥ ८८ ॥ अव्यक्तं बुद्ध्यहङ्कारो मनोबुद्धीन्द्रियाणि च । तन्मात्राणि विशेषाश्च तस्मै तत्वात्मने नमः ॥ ८९ ॥ भूतं भव्यं भविष्यच्च भूतादिप्रभवाव्ययः । योऽग्रजः सर्वभूतानां तस्मै भूतात्मने नमः ॥ ९० ॥ यं हि सूक्ष्मं विचिन्वन्ति परं सूक्ष्मविदो जनाः । सूक्ष्मात्सूक्ष्मं च यद्ब्रह्म तस्मै सूक्ष्मात्मने नमः ॥ ९१ ॥ मत्स्यो भूत्वा विरिञ्चाय येन वेदाः समाहृताः । रसातलगतः शीघ्रं तस्मै मत्स्यात्मने नमः ॥ ९२ ॥ मन्दराद्रिर्धृतो येन प्राप्ते ह्यमृतमन्थने । अतिकर्कशदेहाय तस्मै कूर्मात्मने नमः ॥ ९३ ॥ वाराहं रूपमास्थाय महीं सवनपर्वताम् । उद्धरत्येकदंष्ट्रेण तस्मै क्रोडात्मने नमः ॥ ९४ ॥ नारसिंहवपुः कृत्वा सर्वलोकभयङ्करम् । हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः ॥ ९५ ॥ पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखैर्युतम् । दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः ॥ ९६ ॥ यं न देवा न गन्धर्वा न दैत्या न च दानवाः । तत्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः ॥ ९७ ॥ वामनं रूपमास्थाय बलिं संयम्य मायया । त्रैलोक्यं क्रान्तवान्यस्तु तस्मै क्रान्तात्मने नमः ॥ ९८ ॥ जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः । महीं निःक्षत्रियां चक्रे तस्मै रामात्मने नमः ॥ ९९ ॥ त्रिस्सप्तकृत्वो यश्चैको धर्मे व्युत्क्रान्तिगौरवात् । जघान क्षत्रियान्सङ्ख्ये तस्मै क्रोधात्मने नमः ॥ १०० ॥ विभज्य पञ्चधाऽऽत्मानं वायुर्भूत्वा शरीरगः । यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः ॥ १०१ ॥ रामो दशिरथिर्भूत्वा पुलस्त्यकुलनन्दनम् । जघान रावणं सङ्ख्ये तस्मै क्षत्रात्मने नमः ॥ १०२ ॥ यो हली मुसली श्रीमान्नीलाम्बरधरः स्थितः । रामाय रौहिणेयाय तस्मै भोगात्मने नमः ॥ १०३ ॥ शङ्खिने चक्रिणे नित्यं शार्ङ्गिणे पीतवाससे । वनमालाधरायैव तस्मै कृष्णात्मने नमः ॥ १०४ ॥ वसुदेवसुतः श्रीमान्क्रीडितो नन्दगोकुले । कंसस्य निधनार्थाय तस्मै क्रीडात्मने नमः ॥ १०५ ॥ वासुदेवत्वमागम्य यदोर्वंशसमुद्भवः । भूभारहरणं चक्रे तस्मै कृष्णात्मने नमः ॥ १०६ ॥ सारथ्यमर्जुनस्याजौ कुर्वन्गीतामृतं ददौ । लोकत्रयोपकाराय तस्मै ब्रह्मात्मने नमः ॥ १०७ ॥ दानवांस्तु वशे कृत्वा पुनर्बुद्धत्वमागतः । सर्गस्य रक्षणार्थाय तस्मै बुद्धात्मने नमः ॥ १०८ ॥ हनिष्यति कलौ प्राप्ते म्लेच्छांस्तुरगवाहनः । धर्मसंस्थापको यस्तु तस्मै कल्क्यात्मने नमः ॥ १०९ ॥ तारान्वये कालनेमिं हत्वा दानवपुङ्गवम् । ददौ राज्यं महेन्द्राय तस्मै साङ्ख्यात्मने नमः ॥ ११० ॥ यः सर्वप्राणिनां देहे साक्षिभूतो ह्यवस्थितः । अक्षरः क्षरमाणानां तस्मै साक्ष्यात्मने नमः ॥ १११ ॥ नमोस्तु ते महादेव नमस्ते भक्तवत्सल । सुब्रह्मण्य नमस्तेऽस्तु प्रसीद परमेश्वर ॥ ११२ ॥ अव्यक्तव्यक्तरूपेण व्याप्तं सर्वं त्वया विभो । नारायणं सहस्राक्षं सर्वलोकमहेश्वरम् ॥ ११३ ॥ हिरण्यनाभ यज्ञाङ्गममृतं विश्वतोमुखम् । सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ॥ ११४ ॥ येषां हृदिस्थो देवेशो मङ्गलायतनं हरिः । मङ्गलं भगवान्विष्णुर्मङ्गलं मधुसूदनः ॥ ११५ ॥ मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः । विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ॥ ११६ ॥ अपवर्गस्थभूतानां पञ्चानां परमास्थित । नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु ॥ ११७ ॥ नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् । नमस्ते भगवन्विष्णो त्वेकानां प्रभवाव्यय ॥ ११८ ॥ त्वं हि कर्ता हृषीकेशः संहर्ता चापराजितः । तेन पश्यामि ते दिव्यान्भावान्हि त्रिषुवर्त्मसु ॥ ११९ ॥ तच्च पश्यामि तत्वेन यत्ते रूपं सनातनम् । दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा । विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ॥ १२० ॥ दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः । सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः ॥ १२१ ॥ व्यक्ताव्यक्तस्वरूपेण व्याप्तं सर्वं त्वया विभो । अव्यक्तं ब्राह्मणं रूपं व्यक्तमेतच्चराचरम् ॥ १२२ ॥ अतसीपुष्पसङ्काशं पीतवाससमच्युतम् । ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥ १२३ ॥ एकोऽपि कृष्णस्य कृतः प्रणामोदशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्मकृष्णप्रणामी न पुनर्भवाय ॥ १२४ ॥ कृष्णव्रताः कृष्णमनुस्मरन्तोरात्रौ च कृष्णं पुनरुत्थिता ये । ते कृष्णदेहाः प्रविशन्ति कृष्णमाज्यं यथा मन्त्रहुतं हुताशे ॥ १२५ ॥ नमो नरकसन्त्रासरक्षामण्डलकारिणे । संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे ॥ १२६ ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ १२७ ॥ प्राणकान्तारपाथेयं संसारोच्छेदभेषजम् । दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् ॥ १२८ ॥ नारायणपरं ब्रह्म नारायणपरं तपः । नारायणपरं सत्यं नारायणपरं परम् ॥ १२९ ॥ यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः । तथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ॥ १३० ॥ तस्य यज्ञवराहस्य विष्णोरमिततेजसः । प्रणामं येऽपि कुर्वन्ति तेषामपि नमोनमः ॥ १३१ ॥ त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे । यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥ १३२ ॥ इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः । वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ १३३ ॥ वैशम्पायन उवाच एतावदुक्त्वा वचनं भीष्मस्तद्रतमानसः । नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥ १३४ ॥ तस्मिन्नुपरते वाक्ये ततस्ते ब्रह्मवादिनः । भीष्मं वाग्भिर्वाष्पगलास्तमानर्चुर्महाद्युतिम् ॥ १३५ ॥ तेऽस्तुवन्तश्च विप्रेन्द्राः केशवं पुरुषोत्तमम् । भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥ १३६ ॥ अधिगम्य तु योगेन भक्तिं भीष्मस्य माधवः । त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः ॥ १३७ ॥ विदित्वा भक्तियोगं तं भीष्मस्य पुरुषोत्तमः । सहसोत्थाय तं हृष्टो यानमेवान्वपद्यत ॥ १३८ ॥ केशवः सात्यकिश्चैव रथेनैकेन जग्मतुः । अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ॥ १३९ ॥ भीमसेनो यमौ चोभौ रथमेकं समास्थिताः । कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम् ॥ १४० ॥ ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः । नेमिघोषेण महता कम्पयन्ते वसुन्धराम् ॥ १४१ ॥ ततो गिरः पुरुषवरस्तवेरितां द्विजेरिताः पथि सुमनाः स शुश्रुवे । कृताञ्जलिं प्रणतमथापरं जनं स केशिहा मुदितमनास्थनन्दत ॥ १४२ ॥ इति स्मरन्पठति च शार्ङ्गधन्वनः शृणोतु वा यदुकुलनन्दनस्तवम् । स चक्रभृत्प्रतिहतसर्वाकिल्विषो जनार्दनं प्रविशति देहसङ्क्षये ॥ १४३ ॥ यं योगिनः प्राणवियोगकाले यत्नेन चित्ते विनिवेशयन्ति । स तं पुरस्ताद्धरिमीक्षमाणः प्राणाञ्जहौ प्राप्तफलो हि भीष्मः ॥ १४४ ॥ स्ववराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः । गाङ्गेयेन पुरा गीतो महापातकनाशनः ॥ १४५ ॥ इमं नरः स्तवराजं मुमुक्षुः पठन्शुचिः कलुषितकल्मषापहम् । अतीत्य लोकान्मलिनः समामतान्पदं स गच्छत्यमृतं महात्मनः ॥ १४६ ॥ इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्चत्वारिंशोऽध्यायः ॥ अध्यायः १६५ (Adhyaaya 165) ===================================================== वैशम्पायन उवाच इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः । पप्रच्छावसथं गत्वा भ्रातृन्विदुरपञ्चमान् ॥ १ ॥ धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता । तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ॥ २ ॥ कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै । संपृष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ ॥ ३ ॥ ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् । जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् ॥ ४ ॥ विदुर उवाच बहुश्रुतं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा । भावशुद्धिर्दया सत्यं संयमश्चात्मसंपदः ॥ ५ ॥ एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः । एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ॥ ६ ॥ धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः । धर्मेण देवा दिवि च धर्मे चार्थः समाहितः ॥ ७ ॥ धर्मो राजन्गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते । कामो यवीयानिति च प्रवदन्ति मनीषिणः ॥ ८ ॥ तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना । तथा च सर्वभूतेषु वर्तितव्यं यतात्मना ॥ ९ ॥ वैशम्पायन उवाच समाप्तवचने तस्मिन्भीमकर्मा धनञ्जयः । ततोऽर्थगतितत्त्वज्ञो जगौ वाक्यं प्रचोदितः ॥ १० ॥ कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते । कृषिर्वाणिज्यगोरक्षं शिल्पानि विविधानि च ॥ ११ ॥ अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः । निवृत्तेऽर्थे न वर्तेते धर्मकामाविति श्रुतिः ॥ १२ ॥ विषहेतार्थवान्धर्ममाराधयितुमुत्तमम् । कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥ १३ ॥ अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः । अर्थसिद्ध्या विनिर्वृत्तावृभावेतौ भविष्यतः ॥ १४ ॥ तद्गतार्थं हि पुरुषं विशिष्टतरयोनयः । ब्रह्माणमिव भूतानि सततं पर्युपासते ॥ १५ ॥ जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः । मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ॥ १६ ॥ काषायवसनाश्चान्ये श्मश्रुला हि सुसंयताः । विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः । अर्थार्थिनः सन्ति नित्यं परितष्यन्ति कर्मभिः ॥ १७ ॥ अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः । कुलप्रत्यागमाश्चैके स्वंस्वं धर्ममनुष्ठिताः ॥ १८ ॥ आस्तिका नास्तिकाश्चैव नियताः संयमे परे । अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता ॥ १९ ॥ भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् । एतन्मतिमतांश्रेष्ठ मतं मम यथातथम् । अनयोस्तु विबोध त्वं वचनं शक्रकण्वयोः ॥ २० ॥ वैशम्पायन उवाच तथा धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् । नकुलः सहदेवश्च वाक्यमूचतुरुत्तमम् ॥ २१ ॥ आसीनश्च शयानश्च विचरन्नपि वा स्थितः । अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥ २२ ॥ अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये । इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥ २३ ॥ योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः । मध्विवामृतसंसृष्टं तस्मादेतौ मताविह ॥ २४ ॥ अनर्थस्य न कामोस्ति तथाऽर्थोऽधर्मिणः कुतः । तस्मादुद्विजले लोको धर्मार्थाभ्यां बहिष्कृतात् ॥ २५ ॥ तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना । विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि ॥ २६ ॥ धर्मं समाचरेत्पूर्वं ततोऽर्थं धर्मसंयुतम् । ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ॥ २७ ॥ वैशम्पायन उवाच विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ । भीमसेनस्ततो वाक्यमिदं वक्तुं प्रचक्रमे ॥ २८ ॥ नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति । नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥ २९ ॥ कामेन युक्ता ऋषयस्तपस्येव समाहिताः । पलाशाः शाकमूलाशा वायुभक्षाः सुसंयताः ॥ ३० ॥ वेदोपवेदेष्वपरे युक्ताः स्वाध्यायपारगाः । श्राद्धे यज्ञक्रियायां च तथा दानप्रतिग्रहे ॥ ३१ ॥ वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा । देशधर्मकृतश्चैव युक्ताः कामेन कर्मसु ॥ ३२ ॥ समुद्रं वा विशन्त्यन्ये नराः कामेन संयुताः । कामो हि विविधाकारः सर्वं कामेन सन्ततम् ॥ ३३ ॥ नास्ति नासीन्न भविता भूतं काममृते परम् । एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ॥ ३४ ॥ नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः । श्रेयस्तैलं न पिण्याको घृतं श्रेय उदश्वितः ॥ ३५ ॥ श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः । पुष्पतो मध्विव परं कामात्सञ्जायते सुखम् । कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः ॥ ३६ ॥ नाकामतो ब्राह्मणाः स्वन्नमर्थान्नाकामतो ददति ब्राह्मणेभ्यः । नाकामतो विविधा लोकचेष्टा तस्मात्कामः प्राक् त्रिवर्गस्य दृष्टः ॥ ३७ ॥ सुचारुवेषाभिरलङ्कृताभिर्मदोत्कटाभिः प्रियवादिनीभिः । रमस्व योषिद्भिरुपेत्य कामं कामो हि राजन्परमाभिरामः ॥ ३८ ॥ बुद्धिर्ममैषा परिखास्थितस्य माभूद्विचारस्तव धर्मपुत्र । स्वात्संहितं सद्भिरफल्गुसारमसस्तवाक्यं परमानृशंसम् ॥ ३९ ॥ धर्मार्थकामाः सममेव सेव्या यो ह्येकभक्तः स नरो जघन्यः । द्वयोस्तु सक्तं प्रवदन्ति मध्यमं स उत्तमो योऽभिरतस्त्रिवर्गे ॥ ४० ॥ प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः । ततो वचः सङ्ग्रहविस्तरेण प्रोक्त्वाऽथ वीरान्विरराम भीमः ॥ ४१ ॥ ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषामनुचिन्त्य सम्यक् । उवाच वाचाऽवितथं स्मयन्वैबहुश्रुतो धर्मभृतां वरिष्ठः ॥ ४२ ॥ निःसंशयं निश्चितसर्वशास्त्राः सर्वे भवन्तो विदितप्रमाणाः । विज्ञातुकामस्य ममेह वाक्यमुक्तं यद्वो नैष्ठिकं तच्छ्रुतं मे । इहानुवंशं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः ॥ ४३ ॥ यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे । विमुक्तदोषः समफल्गुसारो विमुच्यते दुःखसुखात्स सिद्धः ॥ ४४ ॥ भूतानि जातीमरणान्वितानि जराविकारैश्च समन्वितानि । भूयश्च तैस्तैरुपसेवितानि मोक्षं प्रशंसन्ति न तं च विद्मः ॥ ४५ ॥ स्नेहेन बद्धस्य न सन्ति तानि चैवं स्वयंभूर्भगवानुवाच । बोधाय निर्वाणपरा भवन्ति तस्मान्न कुर्यात्प्रियमप्रियं च ॥ ४६ ॥ एतच्च मुख्यं न तु कामकारो यथा नियुक्तोऽस्मि तथा करोमि । भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्त सर्वे ॥ ४७ ॥ न कर्मणाऽप्नोत्यनवाप्यमर्थं यद्भावि तद्वै भवतीति विद्मः । त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्माददो लोकहिताय गुह्यम् ॥ ४८ ॥ वैशम्पायन उवाच तदग्र्यबुद्धेर्वचनं मनोनुगं समस्तमाज्ञाय तथाहि हेतुमत् । तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रिरेऽञ्जलिम् ॥ ४९ ॥ सुचारुवर्णाक्षरशब्दभूषितां मनोनुगां निर्गतवाक्यकण्टकाम् । निशम्य तां पार्थिवभाषितां गिरं पार्थस्य सर्वे प्रणता बभूवुः ॥ ५० ॥ तथैव राजा प्रशशंस्वीर्यवान् पुनश्च पप्रच्छ सरिद्वरासुतम् । धर्मार्थकामेषु विनिश्चयज्ञं ततः परं धर्ममहीनचेतसम् ॥ ५१ ॥ इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ अध्यायः ३२१ (Adhyaaya 321) ===================================================== याज्ञवल्क्य उवाच साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे । यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ॥ १ ॥ नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम् । तावुभावेकचर्यौ तावुभावनिधनौ स्मृतौ ॥ २ ॥ पृथक्पृथक्प्रपश्यन्ति येऽप्यबुद्धिरता नराः । वयं तु राजन्पश्याम एकमेव तु निश्चयात् ॥ ३ ॥ यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते । एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४ ॥ रुद्रप्रधानानपरान्विद्धि योगानरिन्दम् । तेनैव चाथ देहेन विचरन्ति दिशो दश ॥ ५ ॥ यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन ह । योगेन लोकान्विचरन्सुखं सन्न्यस्य चानघ ॥ ६ ॥ तावेदवाष्टगुणिनं योगप्राहुर्मनीषिणः । सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम ॥ ७ ॥ द्विगुणं योगत्यं तु योगानां प्राहुरुत्तमम् । सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ॥ ८ ॥ धारणं चैव मनसः प्राणायामश्च पार्थिव । एकाग्रता च मनसः प्राणायामस्तथैव च ॥ ९ ॥ प्राणायामो हि सगुणो निर्गुणं धारयेन्मनः । यद्यदृश्यति मुञ्चन्वै प्राणान्मैथिलसत्तम । वाताधिक्यं भवत्येव तस्मात्तं न समाचरेत् ॥ १० ॥ निशायाः प्रथमे यामे चोदना द्वादश स्मृताः । मध्ये स्वप्नात्परे यामे द्वादशैव तु चोदनाः ॥ ११ ॥ तदेवमुपशान्तेन दान्तेनैकान्तशीलिना । आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ॥ १२ ॥ पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा । शब्दं रूपं तथा स्पर्शं रसं गन्धं तथैव च ॥ १३ ॥ प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल । इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ॥ १४ ॥ मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप । अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ॥ १५ ॥ एवं हि परिसङ्ख्याय ततो ध्यायन्ति केवलम् । विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् ॥ १६ ॥ तस्थुषं पुरुषं नित्यमभेद्यमजरामरम् । शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाख्यम् ॥ १७ ॥ युक्तस्य तु महाराज लक्षणान्युपधारम् । लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वयेत् ॥ १८ ॥ निर्वाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः । निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिण ॥ १९ ॥ पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः । नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम् ॥ २० ॥ शक्तदुन्दुभिनिर्घोषैर्विधिधैर्गीतवादितैः । क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ॥ २१ ॥ तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः । सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिषणिभिः ॥ २२ ॥ संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् । तथैवोत्तरमागम्य एकाग्रमनसस्तथा ॥ २३ ॥ स्थिरत्वादिन्द्रियाणां तु निश्चलस्तथैव च । एवं युक्तस्य तु मुनेर्लक्षणान्युपल ॥ २४ ॥ स्वयुक्तः पश्यते ब्रह्म यत्तत्परममव्ययम् । महतस्तमसो मध्ये स्थितं ज्वलनसन्निभम् ॥ २५ ॥ एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् । कालेन महता राजञ्श्रुतिरेषा सनातनी ॥ २६ ॥ एतद्धि योगं योगानां किमन्यद्योगलक्षणम् । विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥ २७ ॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकविंशत्यधिकत्रिशततमोऽध्यायः ॥ अध्यायः ३२३ (Adhyaaya 323) ===================================================== याज्ञवल्क्य उवाच अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप । परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ॥ १ ॥ यथार्षेणेह विधिना चरताऽवमतेन ह । मयाऽऽदित्यादवाप्तानि यजूंषि मिथिलाधिप ॥ २ ॥ महता तपसा देवस्तपिष्णुः सेवितो मया । प्रीतेन चाहं विभुना सूर्येणोक्तस्तदाऽनघ ॥ ३ ॥ वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् । तं ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥ ४ ॥ ततः प्रणम्य शिरसा मयोक्तस्तपतांवरः । यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥ ५ ॥ ततो मां भगवानाह वितरिष्यामि ते द्विज । सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥ ६ ॥ ततो मामाह भगवानास्यं स्वं विवृतं कुरु । विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ॥ ७ ॥ ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदाऽनघ । अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ॥ ८ ॥ ततो विदह्यमानं मामुवाच भगवान्रविः । मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यति ॥ ९ ॥ शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः । प्रतिभास्यति ते वेदः सखिलः सोत्तरो द्विज ॥ १० ॥ कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ । तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति ॥ ११ ॥ प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम् । एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥ १२ ॥ ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ । गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥ १३ ॥ ततः प्रवृत्ताऽतिशुभा स्वरव्यञ्जनभूषिता । ओंकारमादितः कृत्वा मम देवी सरस्वती ॥ १४ ॥ ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् । परं यत्नमवाप्यैव निषण्णस्तत्परायणः ॥ १५ ॥ ततः शतपथं कृत्स्नं सरहस्यं ससङ्ग्रहम् । चक्रे सपरिशेषं च हर्षेण परमेण ह ॥ १६ ॥ कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् । विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः ॥ १७ ॥ ततः सशिष्येण मया सूर्येणेव गभस्तिभिः । व्यस्तो यज्ञो महाराज पितुस्तव महात्मनः ॥ १८ ॥ मिषतो देवलस्यापि ततोऽर्धं हृतवान्वसु । स्ववेददक्षिणायार्थे विमर्दे मातुलेन ह ॥ १९ ॥ सुमन्तुनाऽथ पैलेन तथा जैमिनिना च वै । पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥ २० ॥ दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयाऽनघ । तथैव रोमहर्षेण पुराणमवधारितम् ॥ २१ ॥ बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् । सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ॥ २२ ॥ कर्तुं शतपथं चेदमपूर्वं च कृतं मया । यथाभिलषितं मार्गं तथा तच्चोपपादितम् ॥ २३ ॥ शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम् । सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥ २४ ॥ शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिता । प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचितयम् ॥ २५ ॥ किमत्र ब्रह्मण्यमृतं किञ्च वेद्यमनुत्तमम् । चिन्तयंस्तत्र चागत्य गन्धर्वो मामपृच्छत ॥ २६ ॥ विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः । चतुर्विशांस्ततोऽपृच्छत्प्रश्नान्वेदस्य पार्थिव ॥ २७ ॥ पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तदा । तथैव पुरुषव्याघ्र मित्रं वरुणमेव च ॥ २८ ॥ ज्ञानं ज्ञेयं तथा ज्ञोऽज्ञः कस्तपा अतपास्तथा । सूर्यातिसूर्य इति च विद्याविद्ये तथैव च ॥ २९ ॥ वेद्यावेद्यं तथा राजन्नचलं चलमेव च । अव्ययं चाक्षरं क्षेम्यमेतत्प्रश्नमनुत्तमम् ॥ ३० ॥ अथोक्तश्च महाराज राजा गन्धर्वसत्तमः । पृष्टवानानुपूर्वेण प्रश्नमर्थवदुत्तमम् ॥ ३१ ॥ मुहूर्तमुष्यतां तावद्यावदेनं विचिन्तये । बाढमित्येव कृत्वा स तूर्ष्णीं गन्धर्व आस्थितः ॥ ३२ ॥ ततोऽनुचिन्तयमहं भूयो देवीं सरस्वतीम् । मनसा स च मे प्रश्नो दध्नो धृतमिवोद्धृतः ॥ ३३ ॥ तत्रोपनिषदं चैव परिशेषं च पार्थिव । मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥ ३४ ॥ चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी । उदीरिता मया तुभ्यं पञ्चविंशाऽधितिष्ठता ॥ ३५ ॥ अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा । श्रूयतां यद्भवानस्मान्प्रश्नं संपृष्टवानिह ॥ ३६ ॥ विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि । विश्वाव्यक्तं परं विद्याद्भूतभव्यभयङ्करम् ॥ ३७ ॥ त्रिगुणं गुणकर्तृत्वाद्विश्वान्यो निष्कलस्तथा । विश्वाविश्वेति मिथुनमेवमेवानुदृश्यते ॥ ३८ ॥ अव्यक्तं प्रकृतिः प्राहुः पुरुषेति च निर्गुणम् । तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥ ३९ ॥ ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं पुरुषमेव च । अज्ञमव्यक्तमित्युक्तं ज्ञस्तु निष्कल उच्यते ॥ ४० ॥ कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते । तपास्तु प्रकृतिं प्राहुरतपा निष्कलः स्मृतः ॥ ४१ ॥ सूर्यमव्यक्तमित्युक्तमतिसूर्यस्तु निष्कलः । अविद्या प्रोक्तमव्यक्तं विद्या पुरुष उच्यते ॥ ४२ ॥ तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते । चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ॥ ४३ ॥ चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः । अक्षेपसर्गयोः कर्ता निश्चलः पुरुषः स्मृतः ॥ ४४ ॥ अज्ञावुभौ ध्रुवौ चैव अक्षयौ चाप्युभावपि । अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः ॥ ४५ ॥ अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् । अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥ ४६ ॥ गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः । एषा तेऽन्वीक्षिकी विद्या चतुर्थी सांपरायिकी ॥ ४७ ॥ विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि । एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥ ४८ ॥ जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः । वेदार्थं ये न जानीते वेद्यं गन्धर्वसत्तम ॥ ४९ ॥ साङ्गोपाङ्गानपि यदि यश्च वेदानधीयते । वेदवेद्यं न जानीते वेदभारवहो हि सः ॥ ५० ॥ यो घृतार्थी खराक्षीरं मथेद्गन्धर्वसत्तम । विष्ठां तत्रानुपश्येत न मण्डं न च वै घृतम् ॥ ५१ ॥ तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति । स केवलं मूढमतिर्वेदभारवहः स्मृतः ॥ ५२ ॥ द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना । यथाऽस्य जन्मनिधने न भवेतां पुनः पुनः ॥ ५३ ॥ अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् । परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥ ५४ ॥ यदाऽनुपश्यतेऽत्यन्तमहन्यहनि काश्यप । तदा स केवलीभूतः षड्विंशमनुपश्यति ॥ ५५ ॥ अन्यश्च शाश्वतोऽव्यक्तस्तथाऽन्यः पञ्चविंशकः । तत्स्थं समनुपश्यन्ति तमेकमिति साधवः ॥ ५६ ॥ तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् । जन्ममृत्युभयाद्योगाः साङ्ख्याश्च परमैषिणः ॥ ५७ ॥ विश्वावसुरुवाच पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम । तदहं न तथा वेद्मि तद्भवान्वक्तुमर्हति ॥ ५८ ॥ जैगीषव्यस्यासितस्य देवलस्य मया श्रुतम् । पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥ ५९ ॥ भृगोः पञ्चशिखस्यास्य कपिलस्य शुकस्य च । गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः ॥ ६० ॥ नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः । सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥ ६१ ॥ कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् । तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥ ६२ ॥ दैवतेभ्यः पितृभ्यश्च दैतेयेभ्यस्ततस्ततः । प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥ ६३ ॥ तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण । भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥ ६४ ॥ न तवाविदितं किञ्चिद्भवाञ्श्रुतिनिधिः स्मृतः । कथ्यसे देवलोके च पितृलोके च ब्राह्मण ॥ ६५ ॥ ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः । पतिश्च तपतां शश्वदादित्यस्तव भाषिता ॥ ६६ ॥ साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च । तथैव योगशास्त्रं च याज्ञवल्क्य विशेषतः ॥ ६७ ॥ निःसन्दिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् । श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा ॥ ६८ ॥ याज्ञवल्क्य उवाच कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम । जिज्ञासमे च मां राजंस्तन्निबोध यथाश्रुतम् ॥ ६९ ॥ बुध्यमानो हि प्रकृतिं बुध्यते पञ्चविंशकः । न तु बुध्यति गन्धर्वप्रकृतिः पञ्चविंशकम् ॥ ७० ॥ अनेन प्रतिबोधेन प्रधानं प्रवदन्ति तत् । साङ्ख्ययोगार्थतत्त्वज्ञा यथ्नाश्रुतिनिदर्शनात् ॥ ७१ ॥ पश्यंस्तथैव चापश्यन्पश्यत्यन्यः सदाऽनघ । षड्विंशं पञ्चविंशं च चतुर्विशं च पश्यति ॥ ७२ ॥ न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति । पञ्चविंशोऽभिमन्येत नान्योऽस्ति परतो मम ॥ ७३ ॥ न चतुर्विंशको ग्राह्यो मनुजैर्ज्ञानदर्शिभिः । मत्स्यो वोदकमन्वेति प्रवर्तेत प्रवर्तनात् ॥ ७४ ॥ यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते । स स्नेहात्सहवासाच्च साभिमानाच्च नित्यशः ॥ ७५ ॥ स निमज्जति कालस्य यदैकत्वं न बुध्यते । उन्मज्जति हि कालस्य समत्वेनाभिसंवृतः ॥ ७६ ॥ यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विज । तदा स केवलीभूतः षड्विंशमनुपश्यति ॥ ७७ ॥ अन्यश्च राजन्परमस्तथाऽन्यः पञ्चविंशकः । तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ॥ ७८ ॥ तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् । जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप । षड्विंशमनुपश्यन्तः शुचयस्तत्परायणाः ॥ ७९ ॥ यदा स केवलीभूतः षड्विंशमनुपश्यति । तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥ ८० ॥ एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ । बुद्धिश्चोक्ता यथातत्त्वं मया श्रुतिनिदर्शनात् ॥ ८१ ॥ पश्यापश्यं यो न पश्येत्क्षेम्यं तत्वं च काश्यप । केवलाकेवलं चान्यत्पञ्चविंशं परं च यत् ॥ ८२ ॥ विश्वावसुरुवाच तथ्यं शुभं चैतदुक्तं त्वया विभो सम्यक्क्षेम्यं दैवताद्यं यथावत् । स्वस्त्यक्षयं भवतश्चास्तु नित्यं बुद्ध्या सदा बुद्धियुक्तं नमस्ये ॥ ८३ ॥ याज्ञवल्क्य उवाच एवमुक्त्वा संप्रयातो दिवं सविभ्राजन्वै श्रीमता दर्शनेन । दृष्टश्च तुष्ट्या परयाऽभिनन्द्य प्रदक्षिणं मम कृत्वा महात्मा ॥ ८४ ॥ ब्रह्मादीनां खेचराणां क्षितौ च ये चाधस्तात्संवसन्ते नरेन्द्र । तत्रैव तद्दर्शनं दर्शयन्वै सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥ ८५ ॥ साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश्चतद्वद्योगा योगधर्मे रताश्च । ये चाप्यन्ये मोक्षकामा मनुष्यास्तेषामेतद्दर्शनं ज्ञानदृष्टम् ॥ ८६ ॥ ज्ञानान्मोक्षो जायते राजसिंहनास्त्यज्ञानादेवमाहुर्नरेन्द्र । तस्माज्ज्ञानं तत्त्वतोऽन्तेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः ॥ ८७ ॥ प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छूद्रादपि नीचादभीक्ष्णम् । श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं जन्ममृत्यू विशेताम् ॥ ८८ ॥ सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च सर्वे नित्यं व्याहरन्ते च ब्रह्म । येनात्मानं मोक्षयेज्जन्ममृत्योस्तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि । तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि सर्वं विश्वं ब्रह्म चैतत्समस्तम् ॥ ८९ ॥ ब्रह्मास्यतो ब्राह्मणाः संप्रसूता बाहुभ्यां वै क्षत्रियाः संप्रसूताः । नाभ्यां वैश्याः पादतश्चापि शूद्राः सर्वे वर्णा नान्यथा वेदितव्याः ॥ ९० ॥ अज्ञानतः कर्मयोनिं भजन्ते तां तां राजंस्ते यथा यान्त्यभावम् । तथा वर्णा ज्ञानहीनाः पतन्तेघोरादज्ञानात्प्राकृतं योनिजालम् ॥ ९१ ॥ तस्माज्ज्ञानं सर्वतो मार्गितव्यं सर्वत्रस्थं चैतदुक्तं मया ते । तत्स्थो ब्रह्मा तस्थिवांश्चापरो यस्तस्मै नित्यं मोक्षमाहुर्नरेन्द्र ॥ ९२ ॥ यत्ते पृष्टं तन्मया चोपदिष्टं याथातथ्यं तद्विशोको भजस्व । राजन्गच्छस्वैतदर्थस्य पारं सम्यक्प्रोक्तं स्वस्ति ते त्वस्तु नित्यम् ॥ ९३ ॥ भीष्म उवाच स एवमनुशिष्टस्तु याज्ञवल्क्येन धीमता । प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥ ९४ ॥ गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणम् । दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥ ९५ ॥ गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च । रत्नाञ्जलिमथैकैकं ब्राह्मणेभ्यो ददौ तदा ॥ ९६ ॥ विदेहराज्यं च तदा प्रतिष्ठाप्य सुतस्य वै । यतिधर्ममुपास्यंश्चाप्यवसन्मिथिलाधिपः ॥ ९७ ॥ साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः । धर्माधर्मं च राजेन्द्र प्राकृतं परिगर्हयन् ॥ ९८ ॥ अनन्त इति कृत्वा स नित्यं केवलमेव च । धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥ ९९ ॥ जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् । ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥ १०० ॥ पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः । इष्टानिष्टविमुक्तं हि तस्थौ ब्रह्म परात्परम् ॥ १०१ ॥ नित्यं तदाहुर्विद्वांसः शुचि तस्माच्छुचिर्भव । दीयते यच्च लभते दत्तं यच्चानुमन्यते ॥ १०२ ॥ अव्यक्तेनेति तच्चिन्त्यमन्यथा मा विचन्तय । ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह । ददात्यव्यक्त इत्येतत्प्रतिगृह्णाति यच्च वै ॥ १०३ ॥ आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्तस्मात्परो भवेत् । एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥ १०४ ॥ यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः । तेन तीर्थानि यज्ञाश्च सेवितव्या विपश्चिता ॥ १०५ ॥ न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन । लभतेऽव्यक्तिकं स्थानं ज्ञात्वाऽव्यक्तं महीयते ॥ १०६ ॥ तथैव महतः स्थानमाहङ्कारिकमेव च । अहङ्कारात्परं चापि स्थानानि समवाप्नुयात् ॥ १०७ ॥ ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः । जन्ममृत्युविमुक्तं च विमुक्तं सदसच्च यत् ॥ १०८ ॥ एतन्मयाऽऽप्तं जनकात्पुरस्तात्तेनापि चाप्तं नृप याज्ञवल्क्यात् । ज्ञानं विशिष्टं न तथा हि यज्ञाज्ञानेन दुर्गं तरते न यज्ञैः ॥ १०९ ॥ दुर्गं जन्मनिधनं चापि राजन्न भौतिकं ज्ञानविदो वदन्ति । यज्ञैस्तपोभिर्नियमैर्व्रतैश्च दिवं समासाद्य पतन्ति भूमौ ॥ ११० ॥ तस्मादुपासस्व परं महच्छुचिशिवं विमोक्षं विमलं पवित्रम् । क्षेत्रं ज्ञात्वा पार्थिव ज्ञानयज्ञमुपास्य वै तत्त्वमृषिर्भविष्यसि ॥ १११ ॥ युदुपनिषदमुपाकरोत्तथाऽसौजनकनृपस्य पुरा हि याज्ञवल्क्यः । यदुपगणितशाश्वताव्ययं तच्छुभममृतत्वमशोकमर्च्छति ॥ ११२ ॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रयोविंशत्यधिकत्रिशततमोऽध्यायः ॥ अध्यायः ३२३ (Adhyaaya 350) ===================================================== जनमेजय उवाच अस्तौषीद्वैदिकैर्व्यासः सशिष्यो मधुसूदनम् । नामभिर्विविधैरेषां निरुक्तं भगवन्मम ॥ १ ॥ वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः । श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः ॥ २ ॥ वैशम्पायन उवाच शृणु राजन्यथाचष्ट फाल्गुनस्य हरिः प्रभुः । प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ॥ ३ ॥ नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः । पृष्टवान्केशवं राजन्फाल्गुनः परवीरहा ॥ ४ ॥ अर्जुन उवाच भगवन्भूतभव्येश सर्वभूतसृगव्यय । लोकधाम जगन्नाथ लोकानामभयप्रद ॥ ५ ॥ यानि नामानि ते देव कीर्तितानि महर्षिभिः । वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ॥ ६ ॥ तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव । न ह्यन्यो वर्णयेन्नाम्नां निरुक्तं त्वामृते प्रभो ॥ ७ ॥ श्रीभगवानुवाच ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु । पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ॥ ८ ॥ साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च । बहूनि मम नामानि कीर्तितानि महर्षिभिः ॥ ९ ॥ गौणानि तत्र नामानि कर्मजानि च कानिचित् । निरुक्तं कर्मजानां त्वं शृणुष्व प्रयतोऽनघ ॥ १० ॥ कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा । नमोऽतियशमे तस्मै देवानां परमात्मने ॥ ११ ॥ नारायणाय विश्वाय निर्गुणाय गुणात्मने । यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसंभवः ॥ १२ ॥ योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च । अष्टादशगुणं यत्तत्सत्वं सत्ववतांवर ॥ १३ ॥ प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी । ऋता सत्याऽमरा जय्या लोकानामात्मसंज्ञिता ॥ १४ ॥ तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । तपो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् ॥ १५ ॥ अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः । ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः ॥ १६ ॥ प्रसादात्प्रादुरभवत्पद्ममर्कनिभं क्षणात् । तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः ॥ १७ ॥ अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा । क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः ॥ १८ ॥ एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजावुभौ । तदादर्शितपन्थानौ सृष्टिसंहारकारकौ ॥ १९ ॥ निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ । कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः ॥ २० ॥ उग्रव्रतचरो रुद्रो योगी त्रिपुरदारणः । दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा ॥ २१ ॥ नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे । तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे ॥ २२ ॥ संपूजितो भवत्पार्थ देवो नारायणः प्रभुः । अहमात्मा हि लोकानां विश्वेषां पाण्डुनन्दन ॥ २३ ॥ तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम् । यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् ॥ २४ ॥ आत्मानं नार्चयेत्कश्चिदिति मे भावितात्मनः । मया प्रमाणं हि कृतं लोकः समनुवर्तते ॥ २५ ॥ प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् । यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु ॥ २६ ॥ रुद्रो नारायणश्चैव सत्वमेकं द्विधा कृतम् । लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु ॥ २७ ॥ न हि मे केनचिद्देयो वरः पाण्डवनन्दन । इति सञ्चिन्त्य मनसा पुराणं रुद्रमीश्वरम् ॥ २८ ॥ पुत्रार्थमाराधितवानहमात्मानमात्मना । न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय च ॥ २९ ॥ ऋते आत्मानमेवेति ततो रुद्रं नमाम्यहम् । सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः ॥ ३० ॥ अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् । भविष्यतां वर्ततां च भूतानां चैव भारत ॥ ३१ ॥ सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः । नमस्व हव्यदं विष्णुं तथा शरणदं नमः ॥ ३२ ॥ वरदं नमस्व कौन्तेय हव्यकव्यभुजं नमः । चतुर्विधा मम जना भक्ता एव हि मे श्रुतम् ॥ ३३ ॥ तेषामेकान्तिनः श्रेष्ठा ये चैवानन्यदेवताः । अहमेव गतिस्तेषां निराशीः कर्मकारिणाम् ॥ ३४ ॥ ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः । सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक् ॥ ३५ ॥ ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलम् ॥ ३६ ॥ भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः । त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ ॥ ३७ ॥ भारावतरणार्थं तु प्रविष्टौ मानुषीं तनुम् । जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत ॥ ३८ ॥ निवृत्तिलक्षणो धर्मस्तथाऽऽभ्युदयिकोऽपि च । नराणामयनं ख्यातमहमेकः सनातनः ॥ ३९ ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं मम ताः पूर्वमतो नारायणोस्म्यहम् ॥ ४० ॥ छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः । सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् ॥ ४१ ॥ गतिश्च सर्वभूतानां प्रजनश्चापि भारत । व्याप्ते मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ॥ ४२ ॥ अधिभूतनिविष्टश्च तद्विश्वं चास्मि भारत । क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः ॥ ४३ ॥ दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति ह । दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम् ॥ ४४ ॥ पृश्निरित्युच्यते चान्नं वेद आपोऽमृतं तथा । ममैतानि सदा गर्भः पृश्निगर्भस्ततो ह्यहम् ॥ ४५ ॥ ऋषयः प्राहुरेवं मां त्रितं कूपनिपातितम् । पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् ॥ ४६ ॥ ततः स ब्रह्मणः पुत्र आद्यो ह्यृषिवरस्त्रितः । उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् ॥ ४७ ॥ सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत । अंशवो यत्प्रकाशन्ते ममैते केशसंज्ञिताः ॥ ४८ ॥ सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः । स्वपत्न्यामाहितो गर्भ उचथ्येन महात्मना ॥ ४९ ॥ उचथ्येऽन्तहिन्ते चैव कदाचिद्देवताज्ञया । बृहस्पतिरथाविन्दत्तां पत्नीं तस्य धीमतः ॥ ५० ॥ ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा । उवाच गर्भः कौन्तेय पञ्चभूतगुणात्मकः ॥ ५१ ॥ पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् । एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च ॥ ५२ ॥ मैथुनायागतो यस्मात्त्वयाऽहं विनिवारितः । तस्मादन्धो यास्यसि त्वं मच्छापान्नात्र संशयः ॥ ५३ ॥ स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् । स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा ॥ ५४ ॥ वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् । प्रयोजयामास तदा नाम गुह्यमिदं मम ॥ ५५ ॥ आनुपूर्व्येण विधिना केशवेति पुनः पुनः । स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः ॥ ५६ ॥ एवं हि वरदं नाम केशवेति ममार्जुन । देवानामथ सर्वेषामृषीणां च महात्मनाम् ॥ ५७ ॥ अग्निः सोमेन संयुक्त एकयोनिर्मुखं कृतम् । अग्नीषोममयं तस्माज्जगत्कृत्स्नं चराचरम् ॥ ५८ ॥ अपि हि पुराणे भवति एकयोन्यावग्नीषोमौ देवाश्चाग्निमुखा इति । एकयोनित्वाच्च परस्परं हर्षयन्तो लोकान्धारयन्त इति ॥ ५९ ॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये पञ्चाशदधिकत्रिशततमोऽध्यायः ॥ अध्यायः ३५५ (Adhyaaya 355) ===================================================== वैशम्पायन उवाच कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः । दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् ॥ १ ॥ ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः । क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते ॥ २ ॥ त्वया मतिमतां श्रेष्ठ तन्मे शंस यथातथम् । किमेतत्क्रियते कर्म फलं वाऽस्य किमिष्यते ॥ ३ ॥ नारद उवाच त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि । दैवतं च परो ज्ञेयः परमात्मा सनातनः ॥ ४ ॥ ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम् । तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः ॥ ५ ॥ मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत् । अहं सङ्कल्पजस्तस्य पुत्रः प्रथमकल्पितः ॥ ६ ॥ यजामि वै पितॄन्साधो नारायणविधौ कृते । एवं स एव भगवान्पिता माता पितामहः ॥ ७ ॥ इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः । श्रुतिश्चाप्यपरा देवाः पुत्रान्हि पितरोऽयजन् ॥ ८ ॥ वेदश्रुतिः प्रनष्टा च पुनरध्यापिता सुतैः । ततस्ते मन्त्रदाः पुत्राः पितॄणामिति वैदिकम् ॥ ९ ॥ नूनं सुरैस्तद्विदितं युवयोर्भावितात्मनोः । पुत्राश्च पितरश्चैव परस्परमपूजयन् ॥ १० ॥ त्रीन्पिण्डान्न्यस्य वै पित्र्यान्पूर्वं दत्त्वा कुशानिति । कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा ॥ ११ ॥ नरनारायणावूचतुः इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् । गोविन्द उज्जहाराशु वाराहं रूपमास्थितः ॥ १२ ॥ स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः । जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः ॥ १३ ॥ प्राप्ते चाह्निककाले तु मध्यदेशगते रवौ । दंष्ट्राविलग्नांस्त्रीन्पिण्डान्विधूय सहसा प्रभुः ॥ १४ ॥ स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद । स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि ॥ १५ ॥ सङ्कल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः । आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस्तिलैरपि ॥ १६ ॥ प्रोक्ष्यापसव्यं देवेशः प्राङ्मुखः कृतवान्स्वयम् । मर्यादास्थापनार्थं च ततो वचनमुक्तवान् ॥ १७ ॥ वृषाकपिरुवाच अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम् । तस्य चिन्तयतः सद्यः पितृकार्यविधीन्परान् ॥ १८ ॥ दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् । आश्रिता धरणीं पीड्य तस्मात्पितर एव ते ॥ १९ ॥ त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे । भवन्तु पितरो लोके मया सृष्टाः सनातनाः ॥ २० ॥ पिता पितामहश्चैव तथैव प्रपितामहः । अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः । नास्ति मत्तोऽधिकः कश्चित्को वान्योर्च्यो मया स्वयं ॥ २१ ॥ अहमेव पिता लोके अहमेव पितामहः । पितामहपिता चैव अहमेवात्र कारणम् ॥ २२ ॥ इत्येतदुक्त्वा वचनं देवदेवो वृषाकपिः । वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान् । आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः ॥ २३ ॥ एतदर्थं सुभमते पितरः पिण्डसंज्ञिताः । लभन्ते सततं पूजां वृषाकपिवचो यथा ॥ २४ ॥ ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिथींस्तथा । गाश्चैव द्विजमुख्यांश्च पितरं मातरं तथा ॥ २५ ॥ कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते । अन्तर्गतः स भगवान्सर्वसत्वशरीरगः ॥ २६ ॥ समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः । महान्महात्मा सर्वात्मा नारायण इति श्रुतिः ॥ २७ ॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये पञ्चपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ अध्यायः ३५६ (Adhyaaya 356) ===================================================== वैशम्पायन उवाच श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् । अत्यन्तं भक्तिमान्देवे एकान्तित्वमुपेयिवान् ॥ १ ॥ उषित्वा वर्षसाहस्रं नरनारायणाश्रमे । श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् । जगाम हिमवत्कुक्षावाश्रमं स्वं सुरार्चितम् ॥ २ ॥ तावपि ख्यातयशसौ नरनारायणावृषी । तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप उत्तमम् ॥ ३ ॥ त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः । पावितात्माऽद्य संवृत्तः श्रुत्वेमामादितः कथाम् ॥ ४ ॥ नैव तस्यापरो लोको नायं पार्थिवसत्तम । कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ॥ ५ ॥ मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः । यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम् ॥ ६ ॥ कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् । आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति श्रुतिः ॥ ७ ॥ य एष गुरुरस्माकमृषिर्गन्धवतीसुतः । तेनैतत्कथितं तात माहात्म्यं परमात्मनः । तस्माच्छ्रुतं मया चेदं कथितं च तवानघ ॥ ८ ॥ नारदेन तु सम्प्राप्तः सरहस्यः ससङ्ग्रहः । एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥ ९ ॥ एवमेष महान्धर्मः स ते पूर्वं नृपोत्तम । कथितो हरिगीतासु समासविधिकल्पितः ॥ १० ॥ कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् । धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम् ॥ ११ ॥ वर्ततां ते महायज्ञो यथासङ्कल्पितस्त्वया । सङ्कल्पिताश्वमेधस्त्वं श्रुतधर्मा च तत्त्वतः ॥ १२ ॥ सौतिरुवाच एतत्तु महदाख्यानं श्रुत्वा पारीक्षितो नृपः । ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् ॥ १३ ॥ नारायणीयमाख्यानमेतत्ते कथितं मया । पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु ॥ १४ ॥ नारदेन पुरा यद्वै गुरवे तु निवेदितम् । ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः ॥ १५ ॥ स हि परमर्षिर्जनभुवनपतिः पृथुधरणिधरः श्रुतिविनयपरः । शमनियमनिधिर्यमनियमपरो द्विजवरसहितस्तव च भवतु गतिर्हरिरमरहितः ॥ १६ ॥ असुरवधकरस्तपसांनिधिः सुमहतां यशसां च भाजनम् । एकान्तिनां शरणदोऽभयदो गतिदो गतिदोऽस्तु वः सुखभागकरः । मधुकैटभहा कृतधर्मविदां गतिदोऽभयदो मखभागहरोऽस्तु शरणं स ते ॥ १७ ॥ त्रिगुणो विगुणश्चतुरात्मधरः पूर्तेष्टयोश्च फलभागहरः । विदधातु नित्यमजितोऽतिचलो गतिरात्मवतां सुकृतिनामृषीणाम् ॥ १८ ॥ तं लोकसाक्षिणमजं पुरुषं पुराणं रविवर्णमीश्वरं गतिं बहुशः । प्रणमध्वमेकमतयो यतः सलिलोद्भवोऽपि तमृषिं प्रणतः ॥ १९ ॥ स हि लोकयोनिरमृतस्य पदं सूक्ष्मं परायणमचलं हि पदम् । तत्साङ्ख्ययोगिभिरुदाहृतं तं बुद्ध्या यतात्मभिरिदं सनातनम् ॥ २० ॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये षट्पञ्चाशदधिकत्रिशततमोऽध्यायः ॥ अध्यायः ३५७ (Adhyaaya 357) ===================================================== शौनक उवाच श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः । जन्मधर्मगृहे चैव नरनारायणात्मकम् ॥ १ ॥ महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी । प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः ॥ २ ॥ तथा स नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयाऽनघ । हव्यकव्यभुजो विष्णुरुदक्पूर्वे महोदधौ ॥ ३ ॥ यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् । तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥ ४ ॥ किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा । रूपं प्रभावं महतामपूर्वं धीमतांवर ॥ ५ ॥ दृष्ट्वा हि विवुधश्रेष्ठमपूर्वममितौजसम् । तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने ॥ ६ ॥ एतन्नः संशयं ब्रह्मन्पुराणं ब्रह्मसंभवम् । कथयस्वोत्तममते महापुरुषसंश्रितम् । पाविताः स्म त्वया ब्रह्मन्पुण्याः कथय ताः कथाः ॥ ७ ॥ सौतिरुवाच कथयिष्यामि ते सर्वं पुराणं वेदसंमितम् । जगौ यद्भगवान्व्यासो राज्ञः पारिक्षितस्य वै ॥ ८ ॥ श्रुत्वाऽश्वशिरसो मूर्ति देवस्य हरिमेधसः । उत्पन्नसंशयो राजा एतदेवमचोदयत् ॥ ९ ॥ जनमेजय उवाच यत्तद्दर्शितवान्ब्राह्म देवं हयशिरोधरम् । किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् ॥ १० ॥ वैशम्पायन उवाच यत्किञ्चिदिह लोके वै देहबद्धं विशांपते । सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥ ११ ॥ ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् । भूतान्तरात्मा वरदः सगुणो निर्गुणोपि च । भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम ॥ १२ ॥ धरण्यामथ लीनायामप्सु चैकार्णवे पुरा । ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥ १३ ॥ वायौ चाकाशसंलीने आकाशे च मनोनुगे । व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ॥ १४ ॥ अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च । तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन ॥ १५ ॥ तमसो ब्रह्मसंभूतं तमोमूलमृतात्मकम् । तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमाश्रितम् ॥ १६ ॥ सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते । तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम ॥ १७ ॥ विद्यासहायवान्देवो विषष्वक्सेनो हरिः प्रभुः । आदिकर्ता स भूतानामप्रमेयो हरिः प्रभुः ॥ १८ ॥ अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः । जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् ॥ १९ ॥ तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः । अहङ्कारस्ततो जातो ब्रह्मा शुभचतुर्मुखः । हिरण्यगर्भो भगवान्सर्वलोकपितामहः ॥ २० ॥ पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः । सहस्रपत्रे द्युतिमानुपविष्टः सनातनः ॥ २१ ॥ ददृशेऽद्भुतसङ्काशो लोकानाप्याययन्प्रभुः । सत्वस्थः परमेष्ठी स ततो भूतगणान्सृजन् ॥ २२ ॥ पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे । नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ॥ २३ ॥ तावपश्यत्स भगवाननादिनिधनोऽच्युतः । एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः ॥ २४ ॥ स तामसो मधुर्जातस्तदा नारायणाज्ञया । कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः ॥ २५ ॥ तावभ्यधातवां श्रेष्ठौ तमोरजगुणान्वितौ । बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ ॥ २६ ॥ ददृशाते अरविन्दस्थं ब्रह्माणममितप्रभवम् । सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् ॥ २७ ॥ ततो विग्रहवन्तस्तान्वेदान्दृष्ट्वाऽसुरोत्तमौ । सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा ॥ २८ ॥ अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान् । रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ ॥ २९ ॥ ततो हृतेषु देवेषु ब्रह्मा कश्मलमाविशत् । ततो वचनमीशानं प्राह वेदैर्विनाकृतः ॥ ३० ॥ ब्रह्मोवाच वेदा मे परमं चक्षुर्वेदा मे परमं बलम् । वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तरम् ॥ ३१ ॥ मम वेदा हृताः सर्वे दानवाभ्यां बलादितः । अन्धकारा हि मे लोका जाता वेदैर्विना कृताः ॥ ३२ ॥ वेदानृते हि किं कुर्या लोकानां सृष्टिमुत्तमाम् । अहो बत महद्दुःखं वेदनाशनजं मम ॥ ३३ ॥ प्राप्तं दुनोति हृदयं तीव्रं शोकपरायणम् । को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् ॥ ३४ ॥ वदांस्तांश्चानयेन्नष्टान्कस्य चाहं प्रियो भवे । इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम ॥ ३५ ॥ हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर । ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ॥ ३६ ॥ ब्रह्मोवाच ॐ नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज । लोकाद्यभुवनश्रेष्ठ साङ्ख्ययोगनिधे प्रभो ॥ ३७ ॥ व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थितः । विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज । अहं प्रसादजस्तुभ्यं लोकधाम स्वयंभुवः ॥ ३८ ॥ त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् । चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम् ॥ ३९ ॥ त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत् । त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो ॥ ४० ॥ नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते । अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितं ॥ ४१ ॥ इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो । सर्गेसर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जित ॥ ४२ ॥ प्रथमः पुण्डरीकाक्ष प्रधानगुणकल्पितः । त्वमीश्वरः स्वभावश्च भूतानां त्वं प्रभावन ॥ ४३ ॥ त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिग । ते मे वेदा हृताश्चक्षुरन्धो जातोस्मि जागृहि । ददस्व चक्षूंषि मम प्रियोऽहं ते प्रियोसि मे ॥ ४४ ॥ एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः । जहौ निद्रामथ तदा वेदकार्यार्थमुह्यतः ॥ ४५ ॥ ऐश्वर्येण प्रयोगेण द्वितीयां तनुमास्थितः । सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा । कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ॥ ४६ ॥ तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारकाः । केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः ॥ ४७ ॥ कर्णावाकाशपाताले ललाटं भूतधारिणी । गङ्गासरस्वती पुण्ये भ्रुवावास्तां महाद्युती ॥ ४८ ॥ चक्षुषी सोमसूर्यौ ते नासा सन्ध्या पुनः स्मृता । ओंकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥ ४९ ॥ दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः । गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः । ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा ॥ ५० ॥ एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् । अन्तर्दधौ स विश्वेशो विवेश च रसां प्रभुः ॥ ५१ ॥ रसां पुनः प्रविष्टश्च योगं परममास्थितः । शैक्ष्यं स्वरं समास्थाय उद्गीतं प्रासृजत्स्वरम् ॥ ५२ ॥ सस्वरः सानुनादी च सर्वशः स्निग्ध एव च । बभूवान्तर्जलगतः सर्वभूतगुणोदितः ॥ ५३ ॥ ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान् । रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ ॥ ५४ ॥ एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः । जग्राह वेदानखिलान्रसालगतान्हरिः । प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः ॥ ५५ ॥ स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ । वेदानामालयश्चापि बभूवाश्वरिरास्ततः ॥ ५६ ॥ अथ किञ्चिदपश्यन्तौ दानवौ मधुकैटभौ । यत्र वेदा विनिक्षिप्तास्तत्स्थानं शून्यमेव च ॥ ५७ ॥ तत उत्तममास्थाय वेगं बलवतां वरौ । पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा ॥ ५८ ॥ ददृशाते च पुरुषं तमेवादिकरं प्रभुम् । श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम् । भूयोप्यमितविक्रान्तं निद्रायोगमुपागतम् ॥ ५९ ॥ आत्मप्रमाणरचिते अपामुपरि कल्पिते । शयने नागभोगाढ्ये ज्वालामालासमावृते ॥ ६० ॥ निष्कल्मषेण सत्वेन संपन्नं रुचिरप्रभम् । तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥ ६१ ॥ ऊचतुश्च समाविष्टौ रजसा तमसा च तौ । अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥ ६२ ॥ अनेन नूनं वेदानां कृतमाहरणं रसात् । कस्यैष कोनु खल्वेष किञ्च स्वपिति भोगवान् । इच्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् ॥ ६३ ॥ युद्धार्थिनौ हि विज्ञाय विबुद्धः पुरुषोत्तमः । निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनोदधे । अथ युद्धं समभवत्तयोर्नारायणस्य वै ॥ ६४ ॥ रजस्तमोविष्टतनू तावुभौ मधुकैटभौ । ब्रह्मणोपचितिं कुर्वन् जघान मधुसूदनः ॥ ६५ ॥ ततस्तयोर्वधेनाशु वेदापहरणेन च । शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥ ६६ ॥ ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः । निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥ ६७ ॥ दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम् । तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥ ६८ ॥ तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् । पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥ ६९ ॥ एवमेष महाभागो बभूवाश्वशिरा हरिः । पौराणमेतत्प्रख्यातं रूपं वरदमैश्वरम् ॥ ७० ॥ यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयीत वा । न तस्याध्ययनं नाशमुपगच्छेत्कदाचन ॥ ७१ ॥ आराध्य तपसोग्रेण देवं हयशिरोधरम् । पाञ्चालेन क्रमः प्राप्तो देवेन पथि देशिते ॥ ७२ ॥ एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् । पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ॥ ७३ ॥ यांयामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् । तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥ ७४ ॥ एष वेदनिधिः श्रीमानेष वै तपसोनिधिः । एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हविर्विभुः ॥ ७५ ॥ नारायणपरा वेदा याज्ञा नारायणात्मकाः । तपो नारायणपरं नारायणपरा गतिः ॥ ७६ ॥ नारायणपरं सत्यमृतं नारायणात्मकम् । नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ॥ ७७ ॥ प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः । नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥ ७८ ॥ अपां चापि गुणा राजन्रसा नारायणात्मकाः । ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम् ॥ ७९ ॥ नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः । नारायणात्मकश्चैव शब्द आकाशसंभवः ॥ ८० ॥ मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् । नारायणपरं कालो ज्योतिषामयनं च यत् ॥ ८१ ॥ नारायणपरा कीर्तिः श्रीश्च लक्ष्णीश्च देवताः । नारायणपरं साङ्ख्यं योगो नारायणात्मकः ॥ ८२ ॥ कारणं पुरुषो ह्येषां प्रधानं चापि कारणम् । स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ॥ ८३ ॥ अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् ॥ ८४ ॥ पञ्चकारणसङ्ख्यातो निष्ठा सर्वत्र वै हरिः । तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः ॥ ८५ ॥ तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः । ब्रह्मादीनां सलोकानामृषीणां च महात्मनाम् ॥ ८६ ॥ साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम् । मनीषितं विजानाति केशवो न तु तस्य ते ॥ ८७ ॥ ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते । दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत् ॥ ८८ ॥ सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः । सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥ ८९ ॥ अयं हि नित्यः परमो महर्षिर्महाविभूतिर्गुणवान्गुणाख्यः । गुणैश्च संयोगमुपैति शीघ्रं कालो यथर्तावृतुसंप्रयुक्तः ॥ ९० ॥ नैवास्य विन्दन्ति गतिं महात्मनो न चागतिं कश्चिदिहानुपश्यति । ज्ञानात्मकाः संयमिनो महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ ९१ ॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये सप्तपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ अध्यायः ३५८ (Adhyaaya 358) ===================================================== जनमेजय उवाच अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः । विधिप्रयुक्तां पूजां च गृह्णाति शिरसा स्वयम् ॥ १ ॥ ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः । तेषां च या हि निर्दिष्टा पारम्पर्यागता गतिः ॥ २ ॥ चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् । एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ॥ ३ ॥ नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः । अगत्वा गतयस्तिस्रो यद्गच्छत्यव्ययं हरिम् ॥ ४ ॥ सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः । पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ॥ ५ ॥ तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् । केनैष धर्मः कथितो देवेन ऋषिणाऽपि वा ॥ ६ ॥ एकान्तिनां च का चर्या कदा चोत्पादिता विभो । एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥ ७ ॥ वैशम्पायन उवाच समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे । अर्जुने विमनस्के च गीता भगवता स्वयम् ॥ ८ ॥ आगतिश्च गतिश्चैव पूर्वं ते कथिता मया । गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥ ९ ॥ सम्मितः सामवेदेन पुरैवादियुगे कृतः । धार्यते स्वयमीशेन राजन्नारायणेन ह ॥ १० ॥ एतदर्थं महाराज पृष्टः पार्थेन नारदः । ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ॥ ११ ॥ गुरुणा च मयाऽप्येष कथितो नृपसत्तम । यथा तत्कथितं तत्र नारदेन तथा शृणु ॥ १२ ॥ यदाऽऽसीन्मानजं जन्म नारायणमुखोद्गतम् । ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् ॥ १३ ॥ तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत । फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे ॥ १४ ॥ वैखानसाः फेनपेभ्यो धर्मं तं प्रतिपदिरे । वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः ॥ १५ ॥ यदाऽऽसीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप । तदा पितामहेनैव सोमाद्धर्मः परिश्रुतः ॥ १६ ॥ नारायणात्मको राजन्रुद्राय प्रददौ च तम् । ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप ॥ १७ ॥ वालखिल्यानृषीन्सर्वान्धर्ममेनमपाठयत् । अन्तर्दधे ततो भूयस्तस्य देवस्य मायया ॥ १८ ॥ तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् । तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप ॥ १९ ॥ सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् । तपसा वै सुतप्तेन दमेन नियमेन च ॥ २० ॥ त्रिःपरिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम् । यस्मात्तस्माद्व्रतं ह्येतत्रिसौपर्णमिहोच्येत ॥ २१ ॥ ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् । सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ॥ २२ ॥ वायुना द्विपदश्रिष्ठे प्रथितो जगदायुषा । वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ॥ २३ ॥ तेभ्यो महोदधिश्चैव प्राप्तवान्धर्ममुत्तमम् । अन्तर्दधे ततो भूयो नारायणसमाहृतः ॥ २४ ॥ यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः । ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥ २५ ॥ जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम् । चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुम् ॥ २६ ॥ अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः स्मृतः । प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः ॥ २७ ॥ सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा । श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत ॥ २८ ॥ धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः । तेन सृष्टं कृतयुगं स्थापयस्व यथाविधि ॥ २९ ॥ ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे । धर्मं चाग्र्यं स जग्राह सरहस्यं ससङ्ग्रहम् ॥ ३० ॥ आरण्यकेन सहितं नारायणमुखोद्गतम् । उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे ॥ ३१ ॥ त्वं कर्ता युगधर्माणं निराशीः कर्मसंज्ञितम् । जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ॥ ३२ ॥ ततोऽथ वरदो देवो ब्रह्मा लोकपितामहः । असृजत्स ततो लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥ ३३ ॥ ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् । ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ॥ ३४ ॥ तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् । पूजयामास देवेशं हरिं नारायणं प्रभुम् ॥ ३५ ॥ धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः । अध्यापयामास तदा लोकानां हितकाम्यया ॥ ३६ ॥ ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप । अध्यापयत्पुराऽव्यग्रः सर्वलोकपतिर्विभुः ॥ ३७ ॥ ततश्शङ्खपदश्चापि पुत्रमात्मजमौरसम् । दिशापालं सुधर्माणमध्यापयत भारत । सोऽन्तर्दधे ततो भूयः प्राप्ते त्रेतायुगे पुनः ॥ ३८ ॥ नासिक्ये जन्मनि पुरा ब्रह्मणः पार्थिवोत्तम । धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः ॥ ३९ ॥ तज्जगादारविन्दाक्षो ब्रह्मणः पश्यतस्तदा । सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप ॥ ४० ॥ सनत्कुमारादपि च वीरणो वै प्रजापतिः । कृतादौ कुरुशार्दूल धर्ममेतदधीतवान् ॥ ४१ ॥ वीरणश्चाप्यधीत्यैनं रैभ्याय मुनये ददौ । रैभ्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥ ४२ ॥ कुक्षिपालाय च ददौ विशालाय च धर्मिणे । ततोऽप्यन्तर्दधे भूयो नारायणमुखोद्गतः ॥ ४३ ॥ अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये । एष धर्मः समुद्भूतो नारायणमुखात्पुनः ॥ ४४ ॥ गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि । अध्यापिताश्च मुनयो नाम्ना बर्हिपदो नृप ॥ ४५ ॥ बर्हिषद्भ्यश्च संप्राप्तः सामवेदान्तगं द्विजम् । ज्येष्ठं नामाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥ ४६ ॥ ज्येष्ठाच्चाप्यनुसङ्क्रान्तो राजानमविकम्पनम् । अन्तर्दधे ततो राजन्नेष धर्मः प्रभो हरेः ॥ ४७ ॥ यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप । तत्रैष धर्मः कथितः स्वयं नारायणेन ह ॥ ४८ ॥ पितामहाय शुद्धाय युगादौ लोकधारिणे । पितामहश्च दक्षाय धर्ममेतं पुरा ददौ ॥ ४९ ॥ ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम । आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ॥ ५० ॥ त्रेतायुगादौ च ततो विवस्वान्मनवे ददौ । मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥ ५१ ॥ इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः । गमिष्यति क्षयान्ते च पुनर्नारायणं नृप ॥ ५२ ॥ यतीनां चापि यो धर्मः स ते पूर्वं नृपोत्तम । कथितो हरिगीतासु समासविधिकल्पितः ॥ ५३ ॥ नारदेन सुसंप्राप्तः सरहस्यः ससङ्ग्रहः । एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥ ५४ ॥ एवमेष महान्धर्म आद्यो राजन्सनातनः । दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥ ५५ ॥ धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा । अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ॥ ५६ ॥ एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः । त्रिव्यूहश्चापि सङ्ख्यातश्चतुर्व्यूहश्च दृश्यते ॥ ५७ ॥ हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा । जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ॥ ५८ ॥ मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम् । एष लोकनिधिः श्रीमानेष लोकविसर्गकृत् ॥ ५९ ॥ अकर्ता चैव कर्ता च कार्यं कारणमेव च । यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः ॥ ६० ॥ एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम । मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः ॥ ६१ ॥ एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप । यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दनः ॥ ६२ ॥ अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः । भवेत्कृतयुगप्राप्तिराशीः कर्मविवर्जिता ॥ ६३ ॥ एवं स भगवान्व्यासो गुरुर्मम विशांपते । कथयामास धर्मज्ञो धर्मराजे द्विजोत्तमः ॥ ६४ ॥ ऋषीणां सन्निधौ राजञ्शृण्वतोः कृष्णभीष्मयोः । तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः ॥ ६५ ॥ देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् । यत्र चैकान्तिनो यान्ति नारायणपरायणाः । तदेव परमं स्थानं मुक्तानां केवलं भवेत् ॥ ६६ ॥ जनमेजय उवाच एवं बहुविधं धर्मं प्रविबुद्धैर्निषेवितम् । न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ॥ ६७ ॥ वैशम्पायन उवाच तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः । सात्विकी राजसी चैव तामसी चैव भारत ॥ ६८ ॥ देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह । सात्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः ॥ ६९ ॥ अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम् । नारायणपरो मोक्षेस्ततो वै सात्विकः स्मृतः ॥ ७० ॥ मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम् । एकान्तभक्तः सततं नारायणपरायणः ॥ ७१ ॥ मनीषिणो हि ये केचिद्यतयो मोक्षधर्मिणः । तेषां विच्छिन्नतृष्णानां योगक्षेमवहो हरिः ॥ ७२ ॥ जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥ ७३ ॥ साङ्ख्ययोगेन तुल्यो हि धर्म एकान्तिसेवितः । नारायणात्मके मोक्षे ततो यान्ति परां गतिं ॥ ७४ ॥ नारायणेन दृष्टस्तु प्रतिबुद्धो भवेत्पुमान् । एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते ॥ ७५ ॥ राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते । तदात्मकं हि पुरुषं जायमानं विशांपते । प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् ॥ ७६ ॥ पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः । रजसा तपसा चैव मानसं समभिप्लुतम् ॥ ७७ ॥ कामं देवाश्च ऋषयः सत्वस्था नृपसत्तम । हीनाः सत्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥ ७८ ॥ जनमेजय उवाच कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् । वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम् ॥ ७९ ॥ वैशम्पायन उवाच सुसूक्ष्मं तत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः । पुरुषः पुरुषं गच्छेन्निष्क्रियं पञ्चविंशकम् ॥ ८० ॥ एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च । परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते । एष एकान्तिनां धर्मो नारायणपरात्मकः ॥ ८१ ॥ यथा समुद्रात्प्रसृता जलौघास्तमेव राजन्पुनराविशन्ति । इमे तथा ज्ञानमहाजलौघा नारायणं वै पुनराविशन्ति ॥ ८२ ॥ एष ते कथितो धर्मः सात्वतो यदुबान्धव । कुरुष्वैनं यथान्यायं यदि शक्तोऽसि भारत ॥ ८३ ॥ एवं हि स महाभागो नारदो गुरवे मम । श्वेतानां यतिनां चाह एकान्तगतिमाख्याम् ॥ ८४ ॥ व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते । स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः ॥ ८५ ॥ इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम । यथैव त्वं तथैवान्ये न भजन्ति च मोहिताः ॥ ८६ ॥ कृष्ण एव हि लोकानां भावनो मोहनस्तथा । संहारकारकश्चैव कारणं च विशांपते ॥ ८७ ॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये अष्टपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ अध्यायः ३५९ (Adhyaaya 359) ===================================================== जनमेजय उवाच साङ्ख्यं योगः पाञ्चरात्रं वेदारण्यकमेव च । ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह ॥ १ ॥ किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने । प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥ २ ॥ कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् । वदस्व त्वं मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥ ३ ॥ वैशम्पायन उवाच जज्ञे बहुज्ञं परमत्युदारं यं द्वीपमध्ये सुतमात्मवन्तम् । पराशरात्सत्यवती महर्षिं तस्मै नमोऽज्ञानतमोनुदाय ॥ ४ ॥ पितामहाद्यं प्रवदन्ति षष्ठं महर्षिमार्षेयविभूतियुक्तम् । नारायणस्यांशजमेकपुत्रं द्वैपायनं वेदमहानिधानम् ॥ ५ ॥ तमादिकालेषु महाविभूतिर्नारायणो ब्रह्म महानिधानम् । ससर्ज पुत्रार्थमुदारतेजा व्यासं महात्मानमजं पुराणम् ॥ ६ ॥ वैशम्पायन उवाच एष ते कथितः पूर्वः संभवोऽस्मद्गुरोर्नृप । व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु ॥ ६१ ॥ साङ्ख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥ ६२ ॥ साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते । हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥ ६३ ॥ अपान्तपतमाश्चैव वेदाचार्यः स उच्यते । प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥ ६४ ॥ उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः । उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ॥ ६५ ॥ पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् । सर्वेष्वेतेषु राजेन्द्र ज्ञानेष्वेतद्विशिष्यते ॥ ६६ ॥ ज्ञानेष्वेतेषु राजेन्द्र साङ्ख्यपाशुपतादिशु । यथायोगं यथान्यायं निष्ठा नारायणः परः । न चैनमेवं जानन्ति तमोभूता विशांपते ॥ ६७ ॥ तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः । निष्ठां नारायणमृषिं नान्योस्तीऽति च वादिनः ॥ ६८ ॥ निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः । ससंशयान्हेतुबलान्नाध्यावसति माधवः ॥ ६९ ॥ पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप । एकान्तभावोपगता वासुदेवं विशन्ति वै ॥ ७० ॥ साङ्ख्यं च योगं च सनातने द्वेवेदाश्च सर्वे निखिलेन राजन् । सर्वैः समस्तैर्ऋषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम् ॥ ७१ ॥ शुभाशुभं कर्म समीरितं यत्प्रवर्तते सर्वलोकेषु किञ्चित् । तस्मादृपेस्तद्भवतीति विद्याद्दिव्यन्तरिक्षे भुवि चाप्सु चेति ॥ ७२ ॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये एकोनषष्ट्यधिकत्रिशततमोऽध्यायः ॥ अध्यायः ३६० (Adhyaaya 360) ===================================================== जनमेजय उवाच बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु । को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हसि ॥ १ ॥ वैशम्पायन उवाच बहवः पुरुषा लोके साङ्ग्ययोगविचारणे । नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥ २ ॥ बहूनां पुरुषाणां च यथैका योनिरुच्यते । तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ॥ ३ ॥ नमस्कृत्वा च गुरवे व्यासाय विदितात्मने । तपोयुक्ताय दान्ताय वन्द्याय परमर्षये ॥ ४ ॥ इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव । ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् ॥ ५ ॥ उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः । अध्यान्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ॥ ६ ॥ समासतस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् । तत्तेऽहं संप्रवक्ष्यामि प्रसादादमितौजसः ॥ ७ ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ब्रह्मणा सह संवादं त्र्यम्बकस्य विशांपते ॥ ८ ॥ क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः । वैजयन्त इति ख्यातः पर्वतप्रवरो नृप ॥ ९ ॥ तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् । वैराजसदनान्नित्यं वैजयन्तं निषेवते ॥ १० ॥ अथ तत्राऽऽसतस्तस्य चतुर्वक्त्रस्य धीमतः । ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया । आकाशेन महायोगी पुरा त्रिनयनः प्रभुः ॥ ११ ॥ ततः खान्निपपाताशु धरणीधरमूर्धनि । अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः ॥ १२ ॥ तं पादयोनिंपतितं दृष्ट्वा सव्येन पाणिना । अत्थापयामास तदा प्रभुरेकः प्रजापतिः । उवाच चैनं भगवांश्चिरस्यागतमात्मजम् ॥ १३ ॥ पितामह उवाच स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मेऽन्तिकम् । कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा । नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः ॥ १४ ॥ रुद्र उवाच त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम । कुशलं चाव्ययं चैव सर्वस्य जगतस्त्वथ ॥ १५ ॥ चिरदृष्टो हि भगवन्वैराजसदने मया । ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् ॥ १६ ॥ कौतूहलं चापि हि मे एकान्तगमनेन ते । नैतत्कारणमल्पं हि भविष्यति पितामह ॥ १७ ॥ किं नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् । सुरासुरैरध्युपितमृषिभिश्चामितप्रभैः ॥ १८ ॥ गन्धर्वैरप्सरोभिश्च सततं सन्निषेवितम् । उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ॥ १९ ॥ ब्रह्मोवाच वैजयन्तो गिरिवरः सततं सेव्यते मया । अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् ॥ २० ॥ रुद्र उवाच बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयंभुव । सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट् ॥ २१ ॥ को ह्यसौ चिन्त्यते ब्रह्मंस्त्वयैकः पुरुषोत्तमः । एतन्मे संशयं छिन्धि महत्कौतूहलं हि मे ॥ २२ ॥ ब्रह्मोवाच बहवः पुरुषाः पुत्र त्वया ये समुदाहृताः । एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि ॥ २३ ॥ आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते । बहूनां पुरुषाणां स यथैका योनिरुच्यते ॥ २४ ॥ तथा तं पुरुषं विश्वं परमं सुमहत्तमम् । निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ॥ २५ ॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये षष्ट्यधिकत्रिशततमोऽध्यायः ॥ अध्यायः ३६१ (Adhyaaya 361) ===================================================== ब्रह्मोवाच शृणु पुत्र यथाह्येष पुरुषः शाश्वतोऽव्ययः । अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥ १ ॥ न स शक्यस्त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम । सगुणैर्निर्गुणैर्विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥ २ ॥ अशरीरः शरीरेषु सर्वेषु निवसत्यसौ । वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ॥ ३ ॥ ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित् ॥ ४ ॥ विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥ ५ ॥ क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभम् । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ ६ ॥ नागतिर्न गतिस्तस्य ज्ञेया भूतेषु केनचित् । साङ्ख्येन विधिना चैव योगेन च यथाक्रमम् ॥ ७ ॥ चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तराम् । यथाज्ञानं तु वक्ष्यामि पुरुषं तु सनातनम् ॥ ८ ॥ तस्यैकस्य ममत्त्वं हि स चैकः पुरुषो विराट् । महापुरुषशब्दं स बिभर्त्येकः सनातनः ॥ ९ ॥ एको हुताशो बहुधा समिध्यते एकः सूर्यस्तपसो योनिरेका । एको वायुर्बहुधा वाति लोकेमहोदधिश्चाम्भसां योनिरेकः । पुरुषश्चैको निर्गुणो विश्वरूपस्तं निर्गुणं पुरुषं चाविशन्ति ॥ १० ॥ हित्वा गुणमयं सर्वं कर्मं हित्वा शुभाशुभम् । उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥ ११ ॥ अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् । विचरेद्योऽसमुन्नद्धः स गच्छेत्पुरुषं शुभम् ॥ १२ ॥ एकं हि परमात्मानं केचिदिच्छन्ति पण्डिताः । एकात्मानं तथाऽऽत्मानमपरेध्यात्मचिन्तकाः ॥ १३ ॥ तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः । स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥ १४ ॥ न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा । कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते ॥ १५ ॥ स सप्तदशकेनापि राशिना युज्यते च सः । एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ॥ १६ ॥ यत्तत्कृत्स्नं लोकतन्त्रस्य धामवेद्यं परं बोधनीयं च वेदैः । मन्ता मन्तव्यं प्राशिता प्राशनीयं घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ॥ १७ ॥ द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं ज्ञाता ज्ञेयं सगुणं निर्गुणं च । यद्वै प्रोक्तं तात सम्यक्प्रधानं नित्यं चैतच्छाश्वतं चाव्ययं च ॥ १८ ॥ यद्वै सूते धातुराद्यं विधानं तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् । यद्वै लोके वैदिकं कर्म साध्वाशीर्युक्तं तद्धि तस्योपभोग्यम् ॥ १९ ॥ देवाः सर्वे मनुयः साधु दान्तास्तं प्राग्वंशे यज्ञभागं भजन्ते । अहं ब्रह्मा चाऽद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः । मत्तो जगत्स्थावरं जङ्गमं च सर्वे वेदाः सरहस्याश्च पुत्र ॥ २० ॥ चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति । एवं स भगवान्देवः स्वेन ज्ञानेन बोधयत् ॥ २१ ॥ एतत्ते कथितं पुत्र यथावदनुपृच्छतः । साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम् ॥ २२ ॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये एकषष्ट्यधिकत्रिशततमोऽध्यायः ॥ -------------------------------------------------------------- अनुशासनपर्व (Anushaasana Parva) -------------------------------------------------------------- अध्यायः १८६ (Adhyaaya 186) ===================================================== युधिष्ठिर उवाच यज्ज्ञेयं परमं कृत्यमनुष्ठेयं महात्मभिः । सारं मे सर्वशास्त्राणां वक्तुमर्हस्यनुग्रहात् ॥ १ ॥ भीष्म उवाच श्रूयतामिदमत्यन्तं गूढं संसारमोचनम् । श्रोतव्यं च त्वया सम्यग्ज्ञातव्यं च विशाम्पते ॥ २ ॥ पुण्डरीकः पुरा विप्रः पुण्यतीर्थे जपान्वितः । नारदं परिपप्रच्छ श्रेयो योगपरं मुनिम् । नारदश्चाब्रवीदेनं ब्रह्मणोक्तं महात्मना ॥ ३ ॥ शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम् । अप्रभूतं प्रभूतार्थं वेदशास्त्रार्थसंयुतम् ॥ ४ ॥ यः परः प्रकृते प्रोक्तः पुरुषः पञ्चविंशकः । स एव सर्वभूतात्मा नर इत्यभिधीयते ॥ ५ ॥ नराज्जातानि तत्वानि नाराणीति ततो विदुः । तान्येव चायनं तस्य तेन नारायणस्स्मृतः ॥ ६ ॥ नारायणाज्जगत्सर्वं सर्गकाले प्रजायते । तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥ ७ ॥ नारायणः परं ब्रह्म तत्त्वं नारायणः परः । परादपि परश्चासौ तस्मान्नास्ति परात्परः ॥ ८ ॥ वासुदेवं तथा विष्णुमात्मानं च तथा विदुः । संज्ञाभेदैः स एवैकः सर्वशास्त्राभिसंस्कृतः ॥ ९ ॥ आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा ॥ १० ॥ तस्मात्त्वं गहनान्सर्वांस्त्यक्त्वा शास्त्रार्थविस्तरान् । अनन्यचेता ध्यायस्व नारायणमजं विभुम् ॥ ११ ॥ मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः । सोऽपि तद्गतिमाप्नोति किं पुनस्तत्परायणः ॥ १२ ॥ नमो नारायणायेति यो वेद ब्रह्म शाश्वतम् । अन्त्यकाले जपन्नेति तद्विष्णोः परमं पदम् ॥ १३ ॥ श्रवणान्मननाच्चैव गीतिस्तुत्यर्चनादिभिः । आराध्यं सर्वदा ब्रह्म पुरुषेण हितैषिणा ॥ १४ ॥ लिप्यते न स पापेन नारायणपरायणः । पुनाति सकलं लोकं सहस्रांशुरिवोदितः ॥ १५ ॥ ब्रह्मचारी गृहस्थोऽपि वानप्रस्थोऽथ भिक्षुकः । केशवाराधनं हित्वा नैव याति परां गतिम् ॥ १६ ॥ जन्मान्तरसहस्रेषु दुर्लभा तद्गता मतिः । तद्भक्तवत्सलं देवं समराधय सुव्रत ॥ १७ ॥ नारदेनैवमुक्तस्तु स विप्रोऽभ्यर्चयद्धरिम् । स्वप्नोऽपि पुण्डरीकाक्षं शङ्खचक्रगदाधरम् ॥ १८ ॥ किरीटकुण्डलधरं लसच्छ्रीवत्सकौस्तुभम् । तं दृष्ट्वा देवदेवेशं प्राणमत्सम्भ्रमान्वितः ॥ १९ ॥ अथ कालेन महता तथा प्रत्यक्षतां गतः । संस्तुतः स्तुतिभिर्वेदैर्देवगन्धर्वकिन्नरैः ॥ २० ॥ अथ तेनैव भगवानात्मलोकमधोक्षजः । गतः सम्प्रजितः सर्वैः स योगिनिलयो हरिः ॥ २१ ॥ तस्मात्त्वमपि राजेन्द्र तद्भक्तस्तत्परायणः । अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम् ॥ २२ ॥ अजरममरमेकं ध्येयमाद्यन्तशून्यं सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम् । निरुपममुपमेयं योगिविज्ञानगम्यं त्रिभुवनगुरुमीशं सम्प्रपद्यस्व विष्णुम् ॥ २३ ॥ इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडशीत्यधिकशतितमोऽध्यायः ॥ अध्यायः २५४ (Adhyaaya 254) ===================================================== वैशम्पायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ १ ॥ किमेकं दैवतं लोके किं वाऽप्येकं परायणम् । स्तुवन्तः कं कर्मर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ २ ॥ को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ३ ॥ भीष्म उवाच जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ ४ ॥ तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ ५ ॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ ६ ॥ ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ ७ ॥ एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ ८ ॥ परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥ ९ ॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १० ॥ यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ ११ ॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १२ ॥ यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३ ॥ ऋषिर्नाम्नां सहस्रस्य देवव्यासो महामुनिः । छन्दोनुष्टुप्तथा देवो भगवान्देवकीसुतः ॥ १४ ॥ अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः । त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ १५ ॥ ओं विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १६ ॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ १७ ॥ योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ १८ ॥ सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ १९ ॥ स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ २० ॥ अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ २१ ॥ अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ २२ ॥ ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ २३ ॥ ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ २४ ॥ सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ २५ ॥ अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ २६ ॥ वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ २७ ॥ रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः ॥ २८ ॥ सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ २९ ॥ लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ ३० ॥ भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ ३१ ॥ उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ ३२ ॥ वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ ३३ ॥ महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ ३४ ॥ महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ ३५ ॥ मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ ३६ ॥ अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ ३७ ॥ गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ ३८ ॥ अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ ३९ ॥ आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ ४० ॥ सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ ४१ ॥ असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ ४२ ॥ वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ ४३ ॥ सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ ४४ ॥ ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ४५ ॥ अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ४६ ॥ भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ४७ ॥ युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ४८ ॥ इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ४९ ॥ अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ५० ॥ स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ५१ ॥ अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ५२ ॥ पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ५३ ॥ अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ५४ ॥ विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥ ५५ ॥ उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ५६ ॥ व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ५७ ॥ रामो विरामो विरजो मार्गो नेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ५८ ॥ वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ५९ ॥ ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ६० ॥ विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ६१ ॥ अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ६२ ॥ यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ६३ ॥ सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ६४ ॥ स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ६५ ॥ धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ६६ ॥ गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ६७ ॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ६८ ॥ सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसंधो दाशार्हः सात्त्वतांपतिः ॥ ६९ ॥ जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ७० ॥ अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ७१ ॥ महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ७२ ॥ महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ७३ ॥ वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ७४ ॥ भगवान् भगहाऽऽनन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ७५ ॥ सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ७६ ॥ त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ७७ ॥ शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ७८ ॥ अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः॥ ७९ ॥ श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ८० ॥ स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ८१ ॥ उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ८२ ॥ अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ८३ ॥ कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ८४ ॥ कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ॥ ८५ ॥ ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ८६ ॥ महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ८७ ॥ स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ८८ ॥ मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ८९ ॥ सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ९० ॥ भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ९१ ॥ विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ९२ ॥ एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ९३ ॥ सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ९४ ॥ अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ९५ ॥ तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ९६ ॥ चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ९७ ॥ समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ९८ ॥ शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ९९ ॥ उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ १०० ॥ सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥ १०१ ॥ कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ १०२ ॥ सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ १०३ ॥ सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ १०४ ॥ अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ १०५ ॥ भारभृत् कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ १०६ ॥ धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ १०७ ॥ सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ १०८ ॥ विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ १०९ ॥ अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ११० ॥ सनात्सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ १११ ॥ अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ११२ ॥ अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ११३ ॥ उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ११४ ॥ अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ ११५ ॥ अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ ११६ ॥ आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ ११७ ॥ प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ ११८ ॥ भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ ११९ ॥ यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः । यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १२० ॥ आत्मयोनिः स्वयंजातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १२१ ॥ शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १२२ ॥ वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १२३ ॥ श्री वासुदेवोऽभिरक्षतु ओं नम इति । इतीदं कीर्तनीयस्यि केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १२४ ॥ य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किञ्चित्सोमुत्रेह च मानवः ॥ १२५ ॥ वेदान्तो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १२६ ॥ धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ १२७ ॥ भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः । सहस्रं वासुदेवस्य नाम्नातेमत्प्रकीर्तयेत् ॥ १२८ ॥ यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ १२९ ॥ न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ १३० ॥ रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु मुच्येदापन्न आपदः ॥ १३१ ॥ दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ १३२ ॥ वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १३३ ॥ न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ १३४ ॥ इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १३५ ॥ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ १३६ ॥ द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १३७ ॥ ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् । जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १३८ ॥ इन्द्रियाणि मनो बुद्धिः सत्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १३९ ॥ सर्वागमानामाचारः प्रथमं परिकल्प्यते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १४० ॥ ऋषयः पितरो देवा महाभूतनि धातवः । जङ्गमाजङ्गमं चेदं जगन्नारयणोद्भवम् ॥ १४१ ॥ योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादिकर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १४२ ॥ एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ १४३ ॥ इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् । पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ १४४ ॥ विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् । भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् । न ते यान्ति पराभवम् ओं नम इति ॥ १४५ ॥ अर्जुन उवाच पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम । भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ १४६ ॥ श्रीभगवानुवाच यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव । सोहमेकेन श्लोकेन स्तुत एव न संशयः । स्तुत एव न संशय ओं नम इति ॥ १४७ ॥ व्यास उवाच वासनाद्वासुदेवः स्या वासितं ते जगत्त्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोस्तु ते ॥ १४८ ॥ नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ १४९ ॥ इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःपञ्चाशदधिकद्विशततमोऽध्यायः ॥ अध्यायः २६७ (Adhyaaya 267) ===================================================== वैशम्पायन उवाच इत्युक्तवति तद्वाक्यं कृष्णे देवकिनन्दने । भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः ॥ १ ॥ निर्णये वा महाबुद्धे सर्वधर्मविदांवर । प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ॥ २ ॥ भीष्म उवाच नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः । शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वं मेऽनुपृच्छसि ॥ ३ ॥ संशयः सुगमस्तत्र दुर्गमस्तस्य निर्णयः । दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् ॥ ४ ॥ प्रत्यक्षं कारणं दृष्ट्वा हैतुकाः प्राज्ञमानिनः । नास्तीत्येवं व्यवस्यन्ति सत्यमागममेव वा ॥ ५ ॥ तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः । अथ सञ्चिन्त्यमेवैकं कारणं किं भवेदिति ॥ ६ ॥ शक्यं दीर्घेण कालेन युक्तेनामन्त्रितेन च । प्राणयात्रामनेकां च कल्पयानेन भारत ॥ ७ ॥ तत्परेणैव नान्येषु शक्यते तत्तु कारणम् । हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् ॥ ८ ॥ ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते । न त्वेव गमनं राजन्हेतुतो गमनं तथा । अग्राह्यमनिबद्धं च वाचा सम्परिवर्जयेत् ॥ ९ ॥ युधिष्ठिर उवाच प्रत्यक्षं लोकतः सिद्धिर्लोकश्चागमपूर्वकः । शिष्टाचारो बहुविधस्तन्मे ब्रूहि पितामह ॥ १० ॥ भीष्म उवाच धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः । संस्था यत्नैरपि कृता कालेन प्रतिभिद्यते ॥ ११ ॥ अधर्मो धर्मरूपेण तृणैः कूप इवावृतः । ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ॥ १२ ॥ अवृत्त्या ये तु निन्दनि श्रुतत्यागपरायणाः । धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ॥ १३ ॥ अतृप्यन्तस्तु साधूनां यावदागमबुद्धयः । परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च ॥ १४ ॥ कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ । धर्म इत्येव सम्बुद्धस्तानुपास्व च पृच्छ च ॥ १५ ॥ न तेषां भिद्यते वृत्तं यज्ञाः स्वाध्यायकर्म च । आचारः कारणं चैव धर्मश्चैकस्त्रयं पुनः ॥ १६ ॥ युधिष्ठिर उवाच पुनरेव हि मे बुद्धिस्संशये परिमुह्यति । अपरो मज्जमानस्य परं तीरमपश्यतः ॥ १७ ॥ वेदः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि । पृथक्त्वं लभ्यते चैषां धर्मश्चैतत्त्रयं कथम् ॥ १८ ॥ भीष्म उवाच धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः । यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ॥ १९ ॥ एक एवेति जानीहि त्रिधा धर्मस्य दर्शनम् । पृथक्त्वे च न मे बुद्धिस्त्रयाणामपि वै तथा ॥ २० ॥ उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर । जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात् ॥ २१ ॥ सदैव भरतश्रेष्ठ मा तेऽभूदत्र संशयः । अन्धो जड इवाशङ्की यद्ब्रवीमि तदाचर ॥ २२ ॥ अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम् । अजातशत्रो सेवस्य धर्म एष सनातनः ॥ २३ ॥ ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता । तामन्वेहि महाबाहो धर्मस्यैते हि देशिका ॥ २४ ॥ प्रमाणमप्रमाणं वै यः कुर्यादबुधो जनः । न स प्रमाणतामर्हो विषादजननो हि सः ॥ २५ ॥ ब्राह्मणानेव सेवस्व सत्कृत्य बहुमान्य च । एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ॥ २६ ॥ इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तषष्ट्यधिकद्विशततमोऽध्यायः ॥ -------------------------------------------------------------- आश्वमेधिकपर्व (Aashvamedhika Parva) -------------------------------------------------------------- अध्यायः ११६ (Adhyaaya 116) ===================================================== युधिष्ठिर उवाच कीदृशा ब्राह्मणाः पुण्या भावशुद्धाः सुरेश्वर । यत्कर्म सफलं नेति कथयस्व ममानघ ॥ १ ॥ श्रीभगवानुवाच शृणु पाण्डव तत्सर्वं ब्राह्मणानां यथाक्रमम् । सफलं निष्फलं चैव तेषां कर्म ब्रवीमि ते ॥ २ ॥ त्रिदण्डधारणं मौनं जटाधारणमुण्डनम् । वल्कलाजिनसंवासो व्रतचर्याऽभिषेचनम् ॥ ३ ॥ अग्निहोत्रं गृहे वासः स्वाध्यायं दारसत्क्रिया । सर्वाण्येतानि वै मिथ्या यदि भावो न निर्मलः ॥ ४ ॥ अग्निहोत्रं वृथा राजन्वृथा वेदास्तथैव च । शीलेन देवास्तुष्यन्ति श्रुतयस्तत्र कारणम् ॥ ५ ॥ क्षान्तः दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम् । तमग्र्यं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः ॥ ६ ॥ अग्निहोत्रव्रतपरान्स्वाध्यायनिरताञ्शुचीन् । उपवासरतान्दान्तांस्तान्देवा ब्राह्मणान्विदुः ॥ ७ ॥ न जात्या पुजीतो राजन्गुणाः कल्याणकारणाः । चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः ॥ ८ ॥ मनश्शौचं कर्मशौचं कुलशौचं च भारत । शरीरशौचं वाक्छौचं शौचं पञ्चविधं स्मृतम् ॥ ९ ॥ पञ्चस्वेतेषु शौचेषु हृदिं शौचं विशिष्यते । हृदयस्य च शौचेन स्वर्गं गच्छन्ति मानवाः ॥ १० ॥ अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रयैः । वर्णसङ्करकर्ता च ब्राह्मणो वृषलैः समः ॥ ११ ॥ यस्य वेदश्रुतिर्नष्टा कर्षकश्चापि यो द्विजः । विकर्मसेवी कौन्तेय स वै वृषल उच्यते ॥ १२ ॥ वृषो हि धर्मो विज्ञेयस्तस्य यः कुरुते लयम् । वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि ॥ १३ ॥ स्तुतिभिर्ब्रह्मगीताभिर्यः शूद्रं स्तौति मानवः । न तु मां स्तौति पापात्मा स तु चण्डालतः समः ॥ १४ ॥ श्वदृतौ तु यथा क्षीरं ब्रह्म वै वृषले तथा । दुष्टतामेति तत्सर्वं शुना लीढं हविर्यथा ॥ १५ ॥ अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश ॥ १६ ॥ यान्युक्तानि मया सम्यग्विद्यास्थानानि भारत । उत्पन्नानि पवित्राणि भुवनार्थं तथैव च ॥ १७ ॥ तस्मात्तानि न शूद्रस्य स्प्रष्टव्यानि युधिष्ठिर । सर्वं त्रीण्यपवित्राणि पञ्चामेध्यानि भारत ॥ १८ ॥ श्वा च शूद्रः श्वपाकश्च अपवित्राणि पाण्डव । गायकः कुक्कुटो यूपो ह्युदक्या वृषलीपतिः ॥ १९ ॥ पञ्चैते स्युरमेध्याश्च स्प्रष्टव्या न कदाचन । स्पृष्ट्वैतानष्ट वै विप्रः सचेलो जलमाविशेत् ॥ २० ॥ मद्भक्ताञ्शूद्रसामान्यादवमन्यन्ति ये नराः । नरकेष्वेव तिष्ठन्ति वर्षकोटिं नराधमाः ॥ २१ ॥ चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् । अवमानात्पतन्त्येव नरके रौरवे नराः ॥ २२ ॥ मम भक्तस्य भक्तेषु प्रीतिरभ्यधिका मम । तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः ॥ २३ ॥ कीटपक्षिमृगाणां च मयि संन्यस्तचेतसाम् । ऊर्ध्वामेव गतिं विद्धि किं पुनर्ज्ञानिनां नृणाम् ॥ २४ ॥ पत्रं वाऽप्यथवा पुष्पंक फलं वाऽप्यप एव वा । ददाति मम शूद्रो यच्छिरसा धारयामि तत् ॥ २५ ॥ विप्रानेवार्चयेद्भक्त्या शूद्रप्रायांश्च मत्प्रियान् । तेषां तेनैव रूपेण पूजां गृह्णामि भारत ॥ २६ ॥ वेदोत्तेनैव मार्गेण सर्वभूतहृदि स्थितम् । मामर्चयन्ति ये विप्रा मत्सायुज्यं व्रजन्ति ते ॥ २७ ॥ मद्भक्तानां हितायैव प्रादुर्भावः कृतो मया । प्रदुर्भावकृता काचिदर्चनीया युधिष्ठिर ॥ २८ ॥ आसामन्यतमां मूर्तिं यो मद्भक्त्या समर्चति । तेनैव परितुष्टोऽहं भविष्यामि न संशयः ॥ २९ ॥ मृदा च मणिरत्नैश्च ताम्रेण रजतेन च । कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा । पुण्यं दशगुणं विद्यादेतेषामुत्तरोत्तरम् ॥ ३० ॥ जयकामो भवेद्राजा विद्याकामो द्विजोत्तमः । वैश्यो वा धनकामस्तु शूद्रः सुखफलप्रियः । सर्वकामाः स्त्रियो वाऽपि सर्वान्कामानवाप्नुयुः ॥ ३१ ॥ इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि षोडशाधिकशततमोऽध्यायः ॥ अध्यायः ११७ (Adhyaaya 117) ===================================================== युधिष्ठिर उवाच कीदृशानां तु शूद्राणां नानुगृह्णासि चार्चनम् । उद्वेगस्तव कस्माद्धि तन्मे ब्रूहि सुरेश्वर ॥ १ ॥ श्रीभगवानुवाच अव्रतेनाप्यभक्तेन स्पृष्टां शूद्रेण चार्चनाम् । तां वर्जयामि राजेन्द्र श्वपाकविहितामिव ॥ २ ॥ नन्वहं शङ्करश्चापि गावो विप्रास्तथैव च । अश्वत्थोऽमररूपं हि त्रयमेतद्युधिष्ठिर ॥ ३ ॥ एतत्त्रयं हि मद्भक्तो नावमन्येत कर्हिचित् । अवमानितमेतत्तु दहत्यासप्तमं कुलम् ॥ ४ ॥ अश्वत्थो ब्राह्मणा गावो मन्मयास्तारयन्ति हि । तस्मादेतत्प्रयत्नेन त्रयं पूजय पाण्डव ॥ ५ ॥ युधिष्ठिर उवाच ब्राह्मणेनैव देहेन कथं शूद्रत्वमाप्नुयात् । ब्रह्म वा नश्यति कथं वक्तुं देव त्वमर्हसि ॥ ६ ॥ श्रीभगवानुवाच कूपस्नानं तु यो विप्रः कुर्याद्द्वादशवार्षिकम् । स तेनैव शरीरेण शूद्रत्वं यात्यसंशयम् ॥ ७ ॥ यस्तु राजाश्रयेणैव जीवेद्द्वादशवार्षिकम् । स शूद्रत्वं व्रजेद्विप्रो वेदानां पारगोपिसन् ॥ ८ ॥ पत्तने नगरे वाऽपि यो द्वादशसमा वसेत् । स शूद्रत्वं व्रजेद्विप्रो नात्र कार्या विचारणा ॥ ९ ॥ उत्पादयति यः पुत्रं शूद्रायां काममोहितः । तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥ १० ॥ यः सोमलतिकां विप्रः केवलं भक्षयेद्वृथा । तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥ ११ ॥ मैथुनं कुरुते यस्तु जिह्वायां ब्राह्मणो नृप । तस्य कायगतं ब्रह्म सद्य एव विनश्यति ॥ १२ ॥ विप्रत्वं दुर्लभं प्राप्य दुर्मर्गैरेवमादिभिः । विनाशयन्ति ये तत्तु ताञ्शोचामि युधिष्ठिर ॥ १३ ॥ तस्मात्सर्वप्रयत्नेन मत्प्रियो यो युधिष्ठिर । जातिभ्रंशकरं कर्म न कुर्यादीदृशं द्विजः ॥ १४ ॥ इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ अध्यायः ११८ (Adhyaaya 118) ===================================================== युधिष्ठिर उवाच देशान्तरगते विप्रे संयुक्ते कालधर्मणा । शरीरनाशे संप्राप्ते कथं प्रेतत्वकल्पना ॥ १ ॥ श्रीभगवानुवाच श्रूयतामाहिताग्नेस्तु तथाभूतस्य संस्क्रिया । पालाशवृन्दैः प्रतिमा कर्तव्या कल्पचोदिता ॥ २ ॥ त्रीणि षष्टिशतान्याहुरस्थीन्यस्य युधिष्ठिर । तेषां विकल्पना कार्या यथाशास्त्रं विनिश्चितम् ॥ ३ ॥ अशीत्यर्धं शिरसि च ग्रीवायां दश एव च । बाह्वोश्चापि शतं दद्यादङ्गुलीषु पुनर्दश ॥ ४ ॥ उरसि त्रिंशतं दद्याज्जठरे वाऽपि विंशतिम् । वृषणे द्वादशार्धं तु शिश्ने चाष्टार्धमेव च ॥ ५ ॥ दद्यात्तु शतमूर्वोऽस्तु षष्ट्यर्धं जानुजङ्घयोः । दश दद्याच्चरणयोरेषा प्रेतस्य निष्कृतिः ॥ ६ ॥ युधिष्ठिर उवाच विशेषतीर्थं सर्वेषामशक्तानामनुग्रहात् । भक्तानां तारणार्थं तु वक्तुमर्हसि धर्मतः ॥ ७ ॥ श्रीभगवानुवाच पावनं सर्वतीर्थानां सत्यं गायन्ति सामगाः । सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते ॥ ८ ॥ तपस्तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर । अल्पसन्तोषकं तीर्थं नारी तीर्थं पतिव्रता ॥ ९ ॥ सन्तुष्टो ब्राह्मणस्तीर्थं ज्ञानं वा तीर्थमुच्यते । मद्भक्तः सततं तीर्थं शङ्करस्य विशेषतः ॥ १० ॥ यतयस्तीर्थमित्येवं विद्वांसस्तीर्थमुच्यते । शरण्यपुरुषस्तीर्थमभयं तीर्थमुच्यते ॥ ११ ॥ त्रैलोक्येऽस्मिन्निरुद्विग्नो न बिभेमि कुतश्चन । न दिवा यदि वा रात्रावुद्वेगः शूद्रलङ्घनात् ॥ १२ ॥ न भयं देवदैत्येभ्यो रक्षोभ्यश्चैव मे नृप । शूद्रवक्त्राच्च्युतं ब्रह्म भयं तु मम सर्वदा ॥ १३ ॥ तस्मात्सप्रणवं शूद्रो मन्नामापि न कीर्तयेत् । प्रणवं हि परं लोके ब्रह्म ब्रह्मविदो विदुः ॥ १४ ॥ द्विजशुश्रूषणं धर्मः शूद्राणां भक्तितो मयि । तेन गच्छन्ति ते स्वर्गं चिन्तयन्तो हि मां सदा ॥ १५ ॥ द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति । द्विजशुश्रूषणादन्यन्नास्ति शूद्रस्य निष्कृतिः ॥ १६ ॥ रागो द्वेषश्च मोहश्च पारुष्यं चानृशंसता । शाठ्यं च दीर्घवैरित्वमतिमानमनार्जवम् ॥ १७ ॥ अनृतं चापवादं च पैशुन्यमतिलोभता । हिंसा स्तेयो मृषावादो वञ्चना रोषलोभता ॥ १८ ॥ अबुद्धिता च नास्तिक्यं भयमालस्यमेव च । अशौचं चाकृतज्ञत्वं डंभता स्तंभ एव च । निकृतिश्चाप्यविज्ञानं जातके शूद्रमाविशेत् ॥ १९ ॥ सृष्ट्वा पितामहः शूद्रमभिभूतं तु तामसैः । द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान् । नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः ॥ २० ॥ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतं मूर्ध्ना गृह्णामि शूद्रतः ॥ २१ ॥ अग्रजो वाऽपि यः कश्चित्सर्वपापसमन्वितः । यदि मां सततं ध्यायेत्सर्वपापैः प्रमुच्यते ॥ २२ ॥ विद्याविनयसंपन्ना ब्राह्मणा वेदपारगाः । मयि भक्ति न कुर्वन्ति चण्डालसदृशा हि ते ॥ २३ ॥ वृथा दानं वृथा तप्तं वृथा चेष्टं वृथा हुतम् । वृथाऽऽतिथ्यं च तत्तस्य यो न भक्तो मम द्विजः ॥ २४ ॥ यत्कृतं च हुतं चापि यदिष्टं दत्तमेव च । अभक्तिमत्कृतं सर्वं राक्षसा एव भुञ्जते ॥ २५ ॥ स्थावरे जङ्गमे वाऽपि सर्वभूतेषु पाण्डव । समत्वेन यदा कुर्यान्मद्भक्तो मित्रशत्रुषु ॥ २६ ॥ आनृशंस्यमहिंसा च यथा सत्यं तथाऽऽर्जवम् । अद्रोहश्चैव भूतानां मद्गतानां व्रतं नृप ॥ २७ ॥ नम इत्येव यो ब्रूयान्मद्भक्तं श्रद्धयाऽन्वितः । तस्याक्षयाऽभवँल्लोकाः श्वपाकस्यापि पार्थिव ॥ २८ ॥ किं पुनर्ये यजन्ते मां सदारं विधिपूर्वकम् । मद्भक्ता मद्गतप्राणाः कथयन्तश्च मां सदा ॥ २९ ॥ बहुवर्षसहस्राणि तपस्तप्यति यो नरः । नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ ३० ॥ मामेव तस्माद्राजेन्द्र ध्यायन्नित्यमतन्द्रितः । अवाप्स्यति ततः सिद्धिं द्रक्ष्यत्येव परं पदम् ॥ ३१ ॥ अपार्थकं प्रभाषन्तः शूद्रा भागवता इति । न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः ॥ ३२ ॥ द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित् । अच्छिद्रपञ्चकालज्ञः स वै भागवतः स्मृतः ॥ ३३ ॥ ऋग्वेदेनैव होता च यजुषाऽध्वर्युरेव च । सामवेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम् ॥ ३४ ॥ अथर्वशिरसा चैव नित्यमाथर्वाणा द्विजाः । स्तुवन्ति सततं ये मां ते वै भागवताः स्मृताः ॥ ३५ ॥ वेदाधीनाः सदा यज्ञा यज्ञाधीनास्तु देवताः । देवता ब्राह्मणाधीनास्तस्माद्विप्रास्तु देवताः ॥ ३६ ॥ अनाश्रित्योच्छ्रयं नास्ति मुख्यमानश्रयमाश्रयेत् । रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ॥ ३७ ॥ ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः । ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम् ॥ ३८ ॥ एवमेतन्मया प्रोक्तं रहस्यमिदमुत्तमम् । धर्मप्रियस्य ते नित्यं राजन्नेवं समाचर ॥ ३९ ॥ इदं पवित्रमाख्यानं पुण्यं वेदेन सम्मितम् । यः पठेन्मामकं धर्ममहन्यहनि पाण्डव ॥ ४० ॥ धर्मोऽपि वर्धते तस्य बुद्धिश्चापि प्रसीदति । पापक्षयमुपेत्यैवं कल्याणं च विवर्धते ॥ ४१ ॥ एतत्पुण्यं पवित्रं च पापनाशनमुत्तमम् । श्रोतव्यं श्रद्धया युक्तैः श्रोत्रियैश्च विशेषतः ॥ ४२ ॥ श्रावयेद्यस्त्विदं भक्त्या प्रयतोऽथ शृणोति वा । स गच्छेन्मम सायुज्यं नात्र कार्या विचारणा ॥ ४३ ॥ यश्चेमं श्रावयेच्छ्राद्धे मद्भक्तो मत्परायणः । पितरस्तस्य तृप्यन्ति यावदाभूतसंप्लवम् ॥ ४४ ॥ वैशम्पायन उवाच श्रुत्वा भागवतान्धर्मान्साक्षाद्विष्णोर्जगद्गुरोः । प्रहृष्टमनसो भूत्वा चिन्तयन्तोद्भुताः कथाः ॥ ४५ ॥ ऋष यः पाण्डवाश्चैव प्रणेमुस्तं जनार्दनम् । पूजयामास गोविन्दं धर्मपुत्रः पुनः पुनः ॥ ४६ ॥ देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस्तथा । ऋषयश्च महात्मानो गुह्यका भुजगास्तता ॥ ४७ ॥ वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः । तथा भागवताश्चापि पञ्चकालमुपासकाः ॥ ४८ ॥ कौतूहलसमायुक्ता भगवद्भक्तिमागताः । श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम् ॥ ४९ ॥ विमुक्तपापाः पूतास्ते संवृत्तास्तत्क्षणेन् तु । प्रणम्य शिरसा विष्णुं प्रतिनन्द्य च ताः कथाः ॥ ५० ॥ द्रष्टारो द्वारकायां वै वयं सर्वे जगद्गुरुम् । इति प्रहृष्टमनसो ययुर्देवगणैः सह । सर्वे ऋषिगणा राजन्ययुः स्वं स्वं निवेशनम् ॥ ५१ ॥ गतेषु तेषु सर्वेषु केशवः केशिहा हरिः । सस्मार दारुकं राजन्स च सात्यकिना सह । समीपस्थोऽभवत्सूतो याहि देवेति चाब्रवीत् ॥ ५२ ॥ ततो विषण्णवदनाः पाण्डवाः पुरुषोत्तमम् । अञ्जलिं मूर्ध्नि सन्धाय नेत्रैरश्रुपरिप्लुतैः । पिबन्तः सततं कृष्णं नोचुरार्ततरास्तदा ॥ ५३ ॥ कृष्णोऽपि भगवान्देवः पृथामामन्त्र्य चार्तवत् । धृतराष्ट्रं च गान्धारीं विदुरं द्रौपदीं तथा ॥ ५४ ॥ कृष्णद्वैपायनं व्यासमृषीनन्यांस्च मन्त्रिणः । सुभद्रामात्मजयुतामुत्तरां स्पृश्य पाणिना । निर्गत्य वेश्मनस्तस्मादारुरोह तदा रथम् ॥ ५५ ॥ वाजिभिः शैब्यसुग्रीवमेघपुष्पबलाहकैः । युक्तं तु ध्वजभूतेन पतगेन्द्रेण धीमता ॥ ५६ ॥ अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः । अपास्य चाशु यन्तारं दारुकं सूतसत्तमम् । अभीशून्प्रतिजग्राह स्वयं कुरुपतिस्तदा ॥ ५७ ॥ उपारुह्यार्जुनश्चापि चामरव्यजनं शुभम् । रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ॥ ५८ ॥ तथैव भीमसेनोऽपि रथमारुह्य वीर्यवान् । छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ॥ ५९ ॥ वैडूर्यमणिदण्डं च चामीकरविभूषितम् । दधार तरसा भीमश्छत्रं तच्छार्ङ्गधन्वनः ॥ ६० ॥ उपारुह्य रथं शीघ्रं चामरव्यजने सिते । नकुलः सहदेवश्च धूयमानौ जनार्दनम् ॥ ६१ ॥ भीमसेनोऽर्जुनश्चैव यमावप्यरिसूदनौ । पृष्ठतोऽनुययुः कृष्णं माशब्द इति हर्षिताः ॥ ६२ ॥ त्रियोजने व्यतीते तु परिष्वज्य च पाण्डवान् । विसृज्य कृष्णस्तान्सर्वान्प्रणतान्द्वारकां ययौ ॥ ६३ ॥ तथा प्रणम्य गोविन्दं तदाप्रभृति पाण्डवाः । कपिलाद्यानि दानानि ददुर्धर्मपरायणाः ॥ ६४ ॥ मधुसूदनवाक्यानि स्मृत्वा स्मृत्वा पुनः पुनः । मनसा पूजयामासुर्हृदयस्थानि पाण्डवाः ॥ ६५ ॥ युधिष्ठिरस्तु धर्मात्मा हृदि कृत्वा जनार्दनम् । तद्भक्तस्तन्मना युक्तस्तद्याजी तत्परोऽभवत् ॥ ६६ ॥ एवमुक्तं पुरावृत्तं वैष्णवं धर्मशासनम् । मया ते कथितं राजन्पिवित्रं पापनाशनम् ॥ ६७ ॥ तच्छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह । तेन गच्छसि नान्येन तद्विष्णोः परमं पदम् ॥ ६८ ॥ इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि अष्टादशाधिकशततमोऽध्यायः ॥ ॥ इत्याश्वमेधिकपर्व समाप्तम् ॥ -------------------------------------------------------------- FOOTNOTES -------------------------------------------------------------- Aadi Parva ===================================================== Adhyaaya 1, Shloka 2: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparyya Nirnnaya, Adhyaaya 2, Shloka 58 Adhyaaya 1, Shlokas 288: Quoted by Shri Madhvacharya, in the introduction of his Bhagavat Geeta bhaashya; also in the Vaasishtha Smrti, Adhyaaya 27, Shloka 6 Adhyaaya 1, Shloka 294: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparyya Nirnnaya, Adhyaaya 2, Shloka 10 Shaanti Parva ===================================================== Adhyaaya 46, Shloka 19: Quoted by Shri Madhvacharya, in his Bhagavat Geeta bhaashya, Adhyaaya 15, Shloka 4 Adhyaaya 46, Shlokas 124 and 144: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 26 Adhyaaya 323, Shloka 88: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 25 Adhyaaya 349, Shlokas 76 and 77: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 6 Adhyaaya 350, Shloka 12: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparya Nirnaya, Adhyaaya 2, Shloka 115 Adhyaaya 350, Shloka 19: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 6 Adhyaaya 350, Shloka 30: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 6 Adhyaaya 350, Shlokas 33-35: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 6 Adhyaaya 350, Shloka 34: Quoted by Shri Madhvacharya, in his Bhagavat Geeta bhaashya, Adhyaaya 12, Shloka 6 Adhyaaya 350, Shloka 36: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, in the section 'Japaalambana Vishayasyaiva Archyatamatvaavadhaaranam'; Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 29 Alternate Reading: प्रबुद्धचर्याः सेवन्तो मामेवैष्यन्ति यत्फलम् ॥ Adhyaaya 355, Shloka 24: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 13 Adhyaaya 355, Shloka 26: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 29 Adhyaaya 357, Shloka 76: Quoted by Shri Madhvacharya, in his Bhagavat Geeta bhaashya, Adhyaaya 2, Shloka 24. It has been quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, in the section 'Bhagavatsambandhenaiva Teerthaadinaam Pavitrata' Adhyaaya 358, Shlokas 73 and 77: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 6 Adhyaaya 359, Shloka 55: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 14 Adhyaaya 359, Shloka 66: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparya Nirnaya, Adhyaaya 2, Shloka 106; Shri Jaya Teertha, in his Bhagavat Geeta Bhaashya, Adhyaaya 2, Shloka 39; Shri Ramanujacharya, in his Brahma Sutra bhaashya, Adhyaaya 2, Paada 2, Sutra 43 Alternate Reading: वक्ता तु भगवान्स्वयम् । सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥ Adhyaaya 359, Shloka 67: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparya Nirnaya, Adhyaaya 2, Shloka 107 Alternate Reading: यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः । Adhyaaya 359, Shloka 69: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 23 Adhyaaya 359, Shloka 70: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparya Nirnaya, Adhyaaya 2, Shloka 108 Alternate Reading: पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥ Adhyaaya 360, Shloka 1: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparya Nirnaya, Adhyaaya 2, Shloka 109 Alternate Reading: को ह्यत्र पुरुषश्रेष्ठः को वा योनिरिहोच्यते ॥ Adhyaaya 360, Shlokas 2-3: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparya Nirnaya, Adhyaaya 2, Shloka 110 Adhyaaya 361, Shloka 4: Quoted by Shri Aadi Shankaracharya, in his Brahma Sutra bhaashya, Adhyaaya 2, Paada 1, Sutra 1 Adhyaaya 361, Shloka 9: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparya Nirnaya, Adhyaaya 2, Shloka 111 Alternate Reading: तस्यैकत्वं महत्त्वं च स चैकः पुरुषः स्मृतः । Adhyaaya 361, Shloka 20: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparya Nirnaya, Adhyaaya 2, Shloka 112 Alternate Reading: मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदाः सरहस्या हि पुत्र ॥ Anushaasana Parva ===================================================== Adhyaaya 186, Shloka 6: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Adhyaaya 27 Adhyaaya 186, Shloka 10: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparya Nirnaya, Adhyaaya 2, Shloka 72, and Krshnaamrta Mahaarnava, Shloka 55; Shri Vedaanta Deshika, in Rahasyatraya Saara, Chapter 24; Shri Jeeva Gosvaami, in Bhakti-Sandarbha) Shlokas 14-15 (Alternate Reading): जगतः सृष्टिसंहारपरिपालनतत्परः । नारायणः परो धर्मस्तपो नारायणस्तथा ॥ १४ ॥ नारायणः परं पुण्यं शास्त्राणि विविधानि च । वेदाः साङ्गास्तथा चान्ये विष्णुः सर्वेश्वरो हरिः ॥ १५ ॥ पृथिव्यादीनि च तथा पञ्चभूतानि सोऽव्ययः । सर्वं विष्णुमयं ज्ञेयं यदेतत्सकलं जगत् । तद्भक्तास्तद्गतप्राणाः पश्यन्ति परमार्थतः ॥ १६ ॥ Adhyaaya 254, Shloka 9: Quoted by Shri Madhvacharya, in the introduction of his Bhagavat Geeta bhaashya, Adhyaaya 2, Shloka 72 Adhyaaya 254, Shloka 106: Ibid., Adhyaaya 9, Shloka 2 Adhyaaya 254, Shloka 136: Quoted by Shri Vedaanta Deshika, in Rahasyatraya Saara, Chapter 23 Aashvamedhika Parva ===================================================== Adhyaaya 116, Shloka 8: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 25 Adhyaaya 116, Shloka 23: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapters 16 and 27 Adhyaaya 118, Shlokas 14 and 32: Quoted by Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 25 Adhyaaya 118, Shlokas 37-38: Quoted by Shri Madhvacharya, in the Mahaabhaarata Taatparya Nirnaya, Adhyaaya 2, Shloka 116; Shri Vedaanta Deshika, in Rahasyatraya-Saara, Chapter 27 *********************************************************************** This document has been provided by Achyuta Bhakti Deets. Visit https://bhaktideets.org or https://elib.bhaktideets.org for more Shaastra related content. © Copyrights 2022-26 Achyuta Bhakti Deets श्री हरये नमः । श्रीकृष्णार्पणमस्तु ॥