श्री नारायणाय नमः । ===================================================== Filename : ShriVishnuPuraana-Amsha6WithSamskrtaVivarana.txt Name of the Text: Shri Vishnu Puraana - Amsha 6 with Samskrta Vivarana Category : Shaastra (Puraana) Details : Language/Script : Samskrta (Devanaagari) Author : Shri Krshna Dvaipaayana Vyaasa Deva (Commentator: Praajna Pattada Hari Kumaara) Published on : 28 October 2025 Last updated on : - © Copyrights 2022-25 Achyuta Bhakti Deets ===================================================== Shri Vishnu Puraana - Amsha 6 with Samskrta Vivarana श्रीविष्णुपुराणम् – षष्ठः अंशः – संस्कृतश्लोकैः विवरणैश्च सहितम् -------------------------------------------------------------- परिचयभागः -------------------------------------------------------------- परिचयः (About) ===================================================== एतत्पुस्तकं श्री विष्णुपुराणस्य संस्कृतविवरणम् । पूर्वे एतस्य अनुवादः आङ्ग्लाभाषायाम् अक्रियत । विष्णुपुराणम् अष्टादशानं पुराणानाम् एकम् मुख्यवैष्णवपुराणम् । एतस्मिन् वैष्णवधर्मस्य श्रीविष्णोश्च विषये मुख्यज्ञानमस्ति । अतः एतत्पुस्तके श्रीविष्णुपुराणस्य मूलश्लोकानि तेषां विवरणानि च सन्ति ॥ © Copyrights: Praajna Pattada आशीर्वचनानि ===================================================== ॥ श्रीहरिवायुगुरुभ्यो नमः ॥ नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः । (महाभारते शान्तिपर्वे अध्याय २३४ श्लोक ८४) श्रीविष्णोरनुग्रहमात्रेण एतत् पुस्तकं तस्य विवरणञ्च संपूर्णे अभवताम् मम संस्कृतभाषा-वैष्णवसिद्धान्तयोः लघुज्ञानेन । एषः ग्रन्थः श्री बन्नञ्जेगोविन्दाचार्येभ्यः स्मृत्यर्पणः । मम प्रति मध्वसिद्धान्तस्य व्यवहारयोग्यता उत्कृष्टव्याख्यानानि च प्रकाशयितुं प्रमुखेषु व्यक्तिषु सः एकः आसीत् । तस्य प्रभावेनैव अहं माध्वः अभवम् । सः विष्णुपुराणस्य कतिपयानां भागानाम् अनुवादं कर्तुमपि प्रयत्नम् अकरोत् । अस्य अंशस्य ४९० श्लोकानां भाषानुवादकार्ये मम लघुतरं योगदानं दातुं श्रीहरेरनुग्रहेणैव शक्यं यतः विदुषां पूर्वाचार्याणाञ्च तुलनया अहं न कश्चन । तेषु केचन देवतारूपिणः आसन् ये शास्त्रव्याख्यानकौशले मत्तः अतीवश्रेष्ठाः । मुख्यतया अहं मम गुरवे, श्री भरत राजे अरसे, धन्योऽस्मि यतः तेषाम् अनुग्रहेण साहायतया च अहम् एतं ग्रन्थम् अलिखम् । श्रीमते प्रत्यर्थिगजकेसरिणे अहं धन्योऽस्मि यतः तेन विष्णुपुराणस्य प्रथमांशस्य श्रीबन्नञ्जेगोविन्दाचार्यकृतः भाषानुवादग्रन्थः मह्यं प्रदत्तः । अस्य ग्रन्थस्य कतिपयपरीक्षणसुधारणादि कार्यार्थं श्रीमते महासुदर्शनाय अहम् अपि धन्योऽस्मि । अप्रवीणेभ्यो भक्तेभ्यो वैष्णवदर्शनस्य तत्त्ववाददर्शनस्य च मुख्यज्ञानस्य दानाय अयं ग्रन्थः विरचितः । अन्यग्रन्थानाम् अध्ययनात् पूर्वे एषः पठितव्यः । अतः भगवता श्रीकृष्णद्वैपायन व्यासेन जगतः उत्तमगुरुणा ज्ञानार्थं सम्यग्रूपे एषः ग्रन्थः रचितः । सः ऋजूनामपि गुरुः । तस्य श्रीमदाचार्यस्य च कार्येणैव वयं सामान्यमनुष्याः शास्त्रेभ्यः उत्तमज्ञानं लभामहे ॥ एषः ग्रन्थः संस्कृतभाषायाः न उत्तमज्ञानेन विरचितः । अतः केषाञ्चिद् दोषानाम् अस्तित्वम् शक्यम् ॥ —प्राज्ञ पट्टड हरि कुमारः शास्त्राध्ययनस्य नियमाः ===================================================== शास्त्रेभ्यः ज्ञानप्राप्तिकार्यं 'शास्त्र-अध्ययन' इत्युक्तम् । आचार्यस्य आश्रमे वा गृहे वा देवालये वा आचार्यस्य निर्देशनेन शास्त्राध्ययनं कुर्यात् इति युक्तम् । एतस्मिन् काले तु अनेकेभ्यः तत् न साध्यम् । सौभाग्येन तन्त्रज्ञानविकासेन अद्यापि आचार्येभ्यः दूरस्थनिर्देशनरूपेण शास्त्राध्ययनलाभस्य प्राप्तिः शक्यते । तस्मात् सर्वेषां हितार्थम् अस्माकं योजना शास्त्रस्य यथोचितव्याख्यानभाषानुवादप्रदानरूपा अभवत् । अतः वयं शास्त्राणि प्राचीनाचार्याणां भाष्यव्याख्यानैः सहा सिद्धान्तानुसारव्याख्यानैश्च सह प्रकाशयामः येन शास्त्रस्य सम्यग्बोधः सर्वेभ्यः शक्यते । अतः शास्त्राध्ययनस्य फलं प्राप्नुवन् इति आशया अधोलिखितानां नियमानि कठोरपालनं वयं पाठकेभ्यः इच्छामः । ·शास्त्राध्ययनस्य समये एकस्मिन् शान्तस्थले वस । अध्ययनस्य पूर्वे शास्त्रस्य मङ्गलाश्लोकान् वद । सर्वेषु शास्त्रेषु मङ्गलश्लोकाः आदौ अन्ते च सन्ति । ·भवतः/भवत्याः संस्कृतभाषायाः ज्ञानस्य प्रगतिं सदा कुरु । संस्कृतभाषायाः सम्यक् ज्ञानं विना कस्यचित् शास्त्रस्य अवगन्तुं न शक्यते । अस्माकं संस्कृत पुस्तके संस्कृतभाषायाः मूलभूतस्य विवरणम् अस्ति । https://elib.bhaktideets.org/publications ·प्रतिदिनं १५-३० निमिषेभ्यः शास्त्राध्ययनस्य प्रयत्नं कुर्याः । अनुशासनेन शास्त्रज्ञाने सर्वाज्ञानेऽपि च प्रावीण्यं शक्यम् । अध्ययनप्रक्रियायां कतिपयदिनानि नियमितया कर्तुं अशक्तः चेत् न खेदः करणीयः । अत्यन्तदुष्करे स्थितौ अपि चत्वारि पञ्च वा श्लोकानेव पठेः । कश्चित्प्रयत्नोऽपि अयुक्तप्रयत्नात् श्रेष्ठः इति स्मर सदा । एषः नियमः अन्येषु आचारेषु अपि प्रवर्तते । ·संस्कृतश्लोकानां मन्त्राणां वा उच्चारणं स्वमुखेन कर्तव्यम् । एषः शास्त्राध्ययनस्य मुख्य नियमः । एवं कृत्यमाने स्मरणशक्तिर्बहुधा वर्धते यतः मस्तिष्कस्य पूर्णसामर्त्थ्यं प्रकाशते । सर्ववेदा अपि सहस्राधिकवर्षेभ्यः केवलं उच्चारणेन स्मरणेन हि पूर्णशुद्धतया सञ्चारिताः सन्ति । ·कस्यचित् ग्रन्थस्य सम्यक् अध्ययनार्थं स्मरणार्थं च एष नियमः मुख्यः – स त्रिवारं पठितव्यः । प्रथमे पठने सामन्यरूपेण पठनं कर्तव्यम् । द्वितीये पठने दृढरूपेण कर्तव्यम् । सर्वेषां शब्दानां प्रयोगस्य अर्थं ज्ञायते । तृतीये पठने अधिकदृढरूपेण कर्तव्यम् । शास्त्राणां श्लोकमन्त्रादि संस्कृतवाक्यानाम् उच्चारणं सम्यग्रूपेण कर्तव्यम् । एवं भवतः/भवत्याः उच्चारणं सम्यक् भविष्यति ॥ शास्त्राणाम् अवगमनम् ===================================================== हिन्दूग्रन्थाः 'शास्त्र' इत्युक्तानि । ते बृहान्तः सन्ति । अनेकदर्शनानां अनुयायिनः तेषां नानाव्याख्यानानि अकुर्वन् । आदौ न्यायमीमांसादिदर्शनैः षड्भिरास्तिकदर्शनैः वेदाङ्गैश्च अधीत्य एव शास्त्राणां विस्तृताध्ययनं कर्तव्यम् । ततः एकः तेषां तात्पर्यः प्राप्नोति । किन्तु श्रीमध्वाचार्यैरेव अन्यैः दार्शनिकैः उपेक्षिताः केचन अत्यावश्यकाः विषयाः प्रकाशिताः । स्वयं शास्त्राणि अपि स्वस्य नानार्थत्वं नानाव्याख्यानयोग्यतां च वदन्ति । स्कन्दपुराणस्य एषः श्लोकः श्रीमध्वाचार्येण तस्य ऋग्संहिताभाष्ये उद्धृतः– 'त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते । विष्णोः सहस्रनामापि निरन्तरशतार्थकम्' इति ॥ वाल्मीकि रामायणस्य 'रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् । अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्' (वाल्मीकि रामायणे, अयोध्य काण्दे, सर्गः ४०, श्लोकः १०) इति श्लोकः एतस्य उदाहरणम् । एतानि श्रीरामसीतालक्ष्मणानां वनवासस्य पूर्वे लक्ष्मणाय सुमित्रायाः वचनानि ॥ एतस्य अर्थः लक्ष्मणाय विधयः इति दृष्यते । किन्तु अत्र एकः परोक्षार्थः अस्ति । 'दशरथ' इति शब्दस्य अर्थः 'यस्य वाहनः पक्षिः' इति । एतत् विष्णोर्नाम । 'मा' (माम्) इति शब्दः लक्ष्म्याः नाम । मेदिनीकोशादि वेदाङ्गादिशास्त्रानुसारेण 'अ' इति अक्षरः विष्णोर्नाम । 'ई'-अक्षरस्य 'मा' शब्दस्य च अर्थः 'लक्ष्मी' इति । 'अयोध्यः' शब्दस्य 'यत्र युद्ध नास्ति' इति अर्थः । एतत् वैकुण्ठस्य नाम । अतः अस्य श्लोकस्य अर्थोऽपि 'रामः विष्णुः । लक्ष्मी जनकस्य पुत्री । तयोः अस्तित्वात् आरण्यकः एव वैकुण्ठः' इति ॥ पुराणानां श्लोकाः एतेषु त्रिभाषासु सन्ति– (१) समाधि भाषा – एते श्लोकाः तेषां शब्दानां साक्षादर्थान् वदन्ति । तेषां पठनेन चिन्तनेन चैव तेषाम् अर्थाः स्पष्टाः भविष्यन्ति । (२) दर्शन भाषा – एतत् वक्रार्थम् । एते श्लोकाः कदाचित् पूर्णग्रन्थस्य तात्पर्यस्य विरोधाः इति प्रायशः दृश्यते । स्वल्पानां दर्शनानामेव दृष्टौ एते मान्याः । तेषां वाक्यानां साक्षादर्थं न स्वीकर्तव्यानि किन्तु अन्यशास्त्रानुसारेण पुनर्व्याख्येयानि । (३) गुह्य भाषा – गुह्य शब्दस्य अर्थः 'परोक्षः' इति । एतेषु श्लोकेषु अनर्थकवाक्यानि कदाचित् दृश्यन्ते । किन्तु यदा ते अन्यतर्केण ज्ञायन्ते तदा तेषु भिन्नार्थाः प्रकाशन्ते । ते गुरोः शास्त्राणां च सहायतया ज्ञायन्ते । 'नारायण' इति शब्दः एतस्यापि उदाहरणम् । तस्य साक्षादर्थः 'यस्य अयनं नाराः (जलम्)' इति यतः जगतः आदिकाले भगवान् नारायणः जले वसति स्म । किन्तु एतस्य शब्दस्य 'यस्य अयनं जगतः सर्वाणि तत्त्वानि', 'दिव्य गुणानां मूलः', 'सर्वेषां मनुष्याणाम् आश्रयः' इत्याद्यन्यार्था अपि सन्ति । 'नारायण शब्दार्थ निर्वचनम्' इति नाम ग्रन्थे श्रीविजयीन्द्रतीर्थ-श्रीपादः नारायणनामस्य शताधिकार्थानां व्याख्यानम् अकरोत् । अथ गुह्य भाषायाः एकः उदाहरणं– 'केशवं पतितं दृष्ट्वा पाण्डवाः हर्ष निर्भराः । रुदन्ति कौरवाः सर्वे हा हा केशव केशव' इति श्लोकः ॥ अस्य श्लोकस्य अर्थे दोषाः दृष्यन्ते । किन्तु तानि न सन्ति । 'के' इत्यक्षरस्य 'जले' इत्यर्थः । 'शव' शब्दस्य 'मृतशरीर' इति अर्थः । 'पाण्डव' शब्दस्य 'यः जले अण्डात् जायते' इत्यर्थः । 'कौरव' शब्दस्य अर्थः 'वृकः' अथवा 'काकः' इति । अतः एतच्छ्लोकस्य अर्थः 'वृकाः नद्यां पतितशवम् दृष्ट्वा अरुदन् । जलस्य मृगाः अहसन्' इति ॥ वेदेष्वपि सर्ववाक्यानां बहवोऽर्थाः सन्ति निरुक्तस्य अनुसारेऽपि– (१) आध्यात्मिक: आत्मनः संबन्धस्य अनुसारकः (२) आधिदैविक: परमात्मनः संबन्धस्य अनुसारकः (३) आधिभौतिक: अन्येभूतानां संबन्धस्य अनुसारकः ततः अस्माकं शास्त्रज्ञानं सदा अल्पमेव इति ज्ञातव्यम् । अस्मिन् काले शास्त्राणां सर्वार्थानां प्राप्तिः अधिककठिनः ॥ परिचयः ===================================================== कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ (भागवत पुराणे, दशमे स्कन्धे, अध्यायः ७०, श्लोकः १६) नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो ग्रन्थमुदीरयेत् ॥ १ ॥ नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम् ॥ २ ॥ (महाभारते, आदिपर्वे, अध्यायः १, श्लोकौ १-२) अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ १ ॥ नमो हिरण्यगर्भाय हरये शङ्कराय च । वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥ २ ॥ एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥ ३ ॥ सर्गस्थितिविनाशानां जगतोऽस्य जगन्मयः । मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ ४ ॥ (विष्णु पुराणे, प्रथमे अंशे, अध्यायः २, श्लोकाः १-४) हिन्दूशास्त्राणि द्विविधानि स्तः श्रुति-स्मृति इति । स्मृतिषु विष्णुपुराणम् एकं महापुराणम् । याः श्रोतव्याः ताः श्रुतयः । याः स्मरणीयाः ताः स्मृतयः । श्रुतिषु सर्वे वेदाः ब्राह्मण-आरण्यक-उपनिषत्सहिताः सन्ति । तेषां विविधाः शाखाः सन्ति । स्मृतिषु इतिहास-पुराण-धर्मशास्त्राणि प्रसिद्धानि । इतिहासशास्त्रेषु रामायण-महाभारते स्तः । पुराणेषु अष्टादशपुराणानि उपपुराणानि च सन्ति । तेषु भागवतं वैष्णवं च प्रसिद्धे यतः तयोः उत्तमाध्यात्मिकज्ञानम् अस्ति । यत्पुराणं श्रीविष्णोर्महात्म्यं वदति तत् वैष्णवपुराणम् इत्युकम् । यत्पुराणं श्रीरुद्रस्य महात्म्यं वदति तत् शैवपुराणम् इत्युकम् । यत्पुराणं ब्रह्मणः महात्म्यं वदति तत् ब्राह्मपुराणम् इत्युकम् । एकं पुराणम् सदैव न पूर्णरूपेण वैष्णवं वा शैवं वा ब्राह्मं वा भविष्यति । एकस्मिन् पुराणे हि वैष्णवशैवब्राह्मभागानाम् अस्तित्वं शक्यते । एतत् सत्यं स्पष्टरूपेण श्रीमध्वाचार्यः एव प्राचीनकाले अवर्णयत् । विष्णुपुराणे भागवतपुराणे च केवल विष्णोः माहात्म्यभागाः सन्ति । अतः सर्ववैष्णवेभ्यः तानि अधिकमुख्यानि । यानि पुराणानि सम्यक् संरक्षितानि सन्ति तेषु विष्णुपुराणम् एकम् । एतत् तस्य भाष्येभ्यः पुराणस्य वर्तमानसंस्करणेषु श्रीमध्वाचार्य-श्रीरामानुजाचार्य-श्रीपराशरभट्टादिभिः उद्धृतश्लोकानां अस्तित्वाच्च ज्ञायते । किन्तु श्रीबन्नञ्जेगोविन्दाचार्यादिविद्वांसः विष्णुपुराणस्य बहुभागाः लुप्ताः इति मन्यन्ते । विष्णुपुराणे २३,००० श्लोकाः आसन् इत्युक्तः किन्तु वर्तमानसंस्करणे तु केवलं ७,००० श्लोकाः दृश्यन्ते । एषः भेदः शक्यते यतः श्लोकसङ्ख्यानिर्णयः अन्यः । द्वात्रिंशद्-वर्णसमूहः यः एकः अनुष्टुप्छन्दः इति एकः श्लोकः इति गण्यते । विष्णुपुराणे केचन श्लोकाः साधारणश्लोकात् द्विगुणत्रिगुणपरिमाणवर्णान्विताः सन्ति । षष्ठांशेऽन्त्यश्लोका एवापि एतस्मिन् रूपे सन्ति । तस्मात् विष्णुपुराणस्य केचिद् भागाः प्रायशः न नष्टाः किन्तु लुप्तभागाः अवश्यं सन्ति । विष्णुपुराने षष्टाः भागाः सन्ति येषां नाम 'अंश' इति । एकांशेषु बह्वध्यायाः सन्ति । अन्त्यांशे अष्टाध्यायाः सन्ति ये वैष्णविज्ञानार्थं मुख्याः । ते भक्तिविषये मुख्यविज्ञानं वदन्ति । श्रीविष्णुं न लक्ष्मीदेवि ब्रह्माप्राणदयः स्पष्टरूपेण जानन्ति । तस्य विषये अल्पज्ञानम् एतत् पुराणम् ददति । विष्णु पुराणस्य अध्यायेषु श्रीपराशरऋषिः यः भगवतः व्यासस्य पिता श्रीमैत्रेयऋषये विविधान् विज्ञानविषयान् अवदत् । एतस्मिन् पुस्तके तेषां श्लोकानां विवरणानि सन्ति ॥ -------------------------------------------------------------- षष्टांशः (AMSHA 6) -------------------------------------------------------------- अध्यायः १ (Adhyaaya 1) ===================================================== श्रीमैत्रेय उवाच व्याख्याता भवता सर्गवंशमन्वन्तरस्थितः । वंशानुचरितञ्चवै विस्तरेण महामुने ॥ १ ॥ श्रोतुमिच्छाम्यहं त्वत्तो यथावदुपसंहृतिम् । महाप्रलयसंस्थानं कल्पान्ते च महामुने ॥ २ ॥ विवरणम् – श्रीविष्णुपुराणस्य पूर्वेषु अंशेषु एतेषां विषयाणां दीर्घविवरणानि श्रीपराशरऋषिना व्यासदेवस्य पित्रा अक्रियन्त । अत्र श्रीमैत्रेयऋषिः लोकस्य प्रळयविषयम् अपृच्छत् । अतः पराशरऋषिः समयस्य भागानां तेषां घटनानाञ्च विवरणं करिष्यति ॥ श्रीपराशर उवाच मैत्रेय श्रुयतां मत्तो यथावदुपसंहृतिः । कल्पान्ते प्राकृते चैव प्रलयो जायते यथा ॥ ३ ॥ अहोरात्रं पितृणान्तु मासोऽब्दस्त्रिदिवौकसाम । चतुर्युगसहस्रे तु ब्रह्मणो द्वे द्विजोत्तम ॥ ४ ॥ कृतं त्रेता द्वापरश्च कलिश्चैव चतुर्युगम् । दिव्यैर्वर्षसहस्रैस्तु तद्द्वादशभिरुच्यते ॥ ५ ॥ विवरणम् – शास्त्रानुसारेण समयस्य एते विधाः सन्ति । एते श्रीविष्णुपुराणस्य प्रथमांशस्य तृतीयेऽध्याये सन्ति । स्वल्पैः पाठान्तरैः अत्र षष्ठे अंशे तृतीयेऽध्यायेऽपि एते सन्ति । १५ निमेशाः/मात्राः - १ काष्ठा ३० काष्ठाः - १ कलाः ३० कलाः - १ मुहूर्त्तः (२ घटिके) ३० मुहूर्त्ताः - भूम्याम् दिनः रात्रिश्च ३० दिनाः रात्रयश्च - १ मासः (२ पक्षौ - शुक्ल कृष्ण च) ६ मासाः - १ अयनम् २ अयने - १ वर्षः १ दक्षिणायनम् - देवानाम् एकः रात्रिः (स्वर्गलोके) १ उत्तरायणम् - देवानाम् एकः दिनः देवानां १२००० वर्षाः - १ चतुर्युगम् (सत्य/कृतं, त्रेता, द्वापर, कलिश्च; मनुष्याणां ४३,२०,००० वर्षाः) कृत/सत्ययुगः - ४००० दिव्यवर्षाः (मनुष्याणां १४,४०,००० वर्षाः) त्रेतायुगः - ३००० दिव्यवर्षाः (मनुष्याणां १०,८०,००० वर्षाः) द्वापरयुगः - २००० दिव्यवर्षाः (मनुष्याणां ७,२०,००० वर्षाः) कलियुगः - १००० दिव्यवर्षाः (मनुष्याणां ३,६०,००० वर्षाः) सन्ध्यायाः सन्ध्यांशस्य च कालः तद्युगस्य कालस्य १००/१००० अथवा १/१० । अतः युगानां सम्पूर्णकालाः एते– कृत/सययुगः - ४,००० + ४०० + ४०० = ४८०० दिव्यवर्षाः (मनुष्याणां १७,२८,००० वर्षाः) त्रेतायुगः - ३,००० + ३०० + ३०० = ३६०० दिव्यवर्षाः (मनुष्याणां १२,९६,००० वर्षाः) द्वापरयुगः - २,००० + २०० + २०० = २,४०० दिव्यवर्षाः (मनुष्याणां ८,६४,००० वर्षाः) कलियुगः - १,००० + १०० + १०० = १,२०० दिव्यवर्षाः (मनुष्याणां ४,३२,००० वर्षाः) १,००० चतुर्युगाः - ब्रह्मणः १ दिनः (कल्पः) १ मन्वन्तरम् - ७१ चतुर्युगाः (८,५२,००० दिव्यवर्षाः; ३०,६७,२०,००० मानुष्यवर्षाः) १४ मन्वन्तराणि (मनोः कालः) - ब्रह्मणः १ कल्पस्य समीप समयकालः चक्रः । अतः कलियुगस्यान्ते सत्ययुगः पुनः आरम्भं करिष्यति । मन्वन्तरस्यान्ते इन्द्रादिदेवाः मनुश्च मरन्ति । ताः पदवीः अन्यदेवाः उपक्रमिष्यन्ते । तदन्तरं समानकालाय ते वसन्ति । एककल्पस्य अन्ते लोकाः रुद्रदेवेण विनष्टाः भविष्यन्ति । तस्मिन्काले महर्लोकस्य ऋषयादि वासिनि जनलोकं गमिष्यन्ति ॥ चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः । आद्य कृतयुगं मुक्त्वा मैत्रेयान्ते तथा कलिम् ॥ ६ ॥ आद्ये कृतयुगो सर्गा ब्रह्मणा क्रियते यतः क्रियते चोपसंहारस्तथान्ते च कलौ युगे ॥ ७ ॥ श्रीमैत्रेय उवाच कलेः स्वरूपं भगवन् विस्तराद्वक्तुमर्हसि । धर्म्मश्चतुष्पाद्भगवन् यस्मिन्विप्लवमृच्छति ॥ ८ ॥ विवरणम् – अर्थवादरूपेण सत्ययुगे धर्मस्य चतुर्पादाः सन्ति इत्युक्तम् । उत्तरयुगे एकः पादः लुप्तं भविष्यति । 'चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे । नाधर्मेणागमः कश्चिन् मनुष्यान् प्रति वर्तते ॥ इतरेष्वागमाद् धर्मः पादशस्त्ववरोपितः । चौरिकानृतमायाभिर्धर्मश्चापैति पादशः' इति मनुस्मृत्याम् (अध्यायः १, श्लोकौ ८१-८२) ॥ एतस्य अर्थवादस्य अर्थः सत्ययुगे धर्मस्य प्रभावः बह्वधिकः अतः धार्मिकमनुष्याणां सङ्गस्य प्राप्तिः सुलभा इति । अग्रिमेषु युगेषु एषा कठिना कलियुगे अधिककठिनाश्च । कलियुगे अधर्मस्य प्रभावः वर्तते । धार्मिकाणां प्रभावः प्रायसेन वर्तते । द्वेषलोभादीनां तामसलक्षणानां प्रभावः महान् भविष्यति । अधिकतामसानां अस्तित्वात् मनुष्याणाम् उद्देशः अन्येभ्यः हिंसा इत्येवं भविष्यति । एतस्य अध्यायस्य शेषभागे कलियुगस्य अन्यलक्षणानां विवरणम् अस्ति । एतेषु बहुलक्षणानि अद्य वर्तमानकालेऽपि दृश्यन्ते । संबन्धानाम् अर्थः न भविष्यति अधिकमनुष्याः धर्मकारुण्यरहिताः भविष्यन्ति च ॥ श्रीपराशर उवाच कलेः स्वरूपं मैत्रेय यद्भवान् प्रष्टुमिच्छति । तन्निबोध समासन्नं वर्त्तते यन्महामुने ॥ ९ ॥ वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् । नसामऋग्यजुर्वेदविनिष्पादनहेतुका ॥ १० ॥ विवाहा न कलौ धर्म्म्या न शिष्यगुरुसंस्थितिः । न दाम्पत्यक्रमो नैव वह्निदैवात्मकः क्रमः ॥ ११ ॥ यत्र तत्र कुले जातो बली सर्व्वेश्वरः कलौ । सर्व्वेभ्य एव वर्णेभ्यो योग्यः कन्यावरोधने ॥ १२ ॥ येन कैनैव योगेन द्विजातिर्दीक्षितः कलौ । यैव सैव च मैत्रेय प्रायश्चित्तक्रिया कलौ ॥ १३ ॥ सर्व्वमेव कलौ शास्त्रं यस्य यद्वचनं द्विज । देवाताश्च कलौ सर्व्वाः सर्व्वः सर्व्वस्य चाश्रमः ॥ १४ ॥ उपवासस्तथायासो वित्तोत्सर्गस्तथा कलौ । धर्म्मो यथाभिरुचितैरनुष्ठानैरनुष्ठितः ॥ १५ ॥ वित्तेन भविता पुंसां स्वल्पेनाढ्यमदः कलौ । स्त्रीणां रूपमदश्चैव केशैरेव भविष्यति ॥ १६ ॥ सुवर्णमणिरत्नादौ वस्त्रे चापि क्षयं गते । कलौ स्त्रियो भविष्यन्ति तदा केशैरलङ्कृताः ॥ १७ ॥ परित्यक्षन्ति भर्त्तारं वित्तहीनं तथा स्त्रियः । भर्त्ता भविष्यति कलौ वित्तवानेव योषिताम् ॥ १८ ॥ योयो ददाति बहुलं सस स्वामी तदा नृणाम् । स्वामित्वहेतुः सम्बन्ध भावी नाभिजनस्तदा ॥ १९ ॥ गृहान्ता द्रव्यसङ्घाता द्रव्यान्ता च तथा मतिः । अर्थाश्चात्मोपभोगान्ता भविष्यन्ति कलौ युगे ॥ २० ॥ स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः । अन्यायावाप्तवित्तेषु पुरुषाश्च स्पृहालवः ॥ २१ ॥ अभ्यर्थितोऽपि सुहृदा स्वार्थहानिं न मानवः । पणार्द्धार्द्धार्द्धमात्रेऽपि करिष्यति तदा द्विज ॥ २२ ॥ समानं पौरुषञ्चतो भावि विप्रेषु वै कलौ । क्षीरप्रदानसम्बन्धि भावि गोषु च गौरवम् ॥ २३ ॥ अनावृष्टिभयप्रायाः प्रजाः क्षुद्भयकातराः । भविष्यन्ति तदा सर्व्वा गगनासक्तदृष्टयः ॥ २४ ॥ कन्दपर्णफलाहारास्तापसा इव मानवाः । आत्मानं पातयिष्यन्ति तदा वृष्ट्यादिदुःखिताः ॥ २५ ॥ दुर्भिक्षमेव सततं तदा क्लेशमनीश्वराः । प्राप्स्यन्ति व्याहतसुखप्रमोदा मानवाः कलौ ॥ २६ ॥ अस्त्रानभोजिनो नाग्निदेवतातिथिपूजनम् । करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ २७ ॥ लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः । बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥ २८ ॥ उभाभ्यामेव पाणिभ्यां शिरः कण्डूयनं स्त्रियः । कुर्व्वन्त्यो गुरुभर्त्तृणामाज्ञां भेत्स्यन्त्यनादृताः ॥ २९ ॥ स्वपोषणपराः क्षुद्रा देहसंस्कारवर्ज्जिताः । परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ ३० ॥ दुःशीला दुष्टशीलेषु कुर्व्वन्त्यः सततं स्पृहाम् । असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ ३१ ॥ वेदादानं करिष्यन्ति वटवश्च तदाव्रताः । गृहस्थाश्च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥ ३२ ॥ वनावासा भविष्यन्ति ग्राम्याहारपरिग्रहाः । भिक्षवश्चाऽपि मित्रादिस्नेहसम्बन्धयन्त्रिताः ॥ ३३ ॥ अरक्षितारो हर्त्तारः शुल्कव्याजेन पार्थिवाः । हारिणो जनवित्तानां संप्राप्ते तु कलौ युगे ॥ ३४ ॥ यो योऽश्वरथनागाढ्यः स स राजा भविष्यति । यश्च यश्चाबलः सर्व्वः स स भृत्यः कलौ युगे ॥ ३५ ॥ वैश्याः कृषिवाणिज्यादि सन्त्यज्य निजकर्म्म यत् । शूद्रवृत्त्या प्रवत्स्यन्ति कारुकर्म्मोपजीविनः ॥ ३६ ॥ भैक्ष्यव्रतास्तथा शूद्रा प्रवज्यालिङ्गिनोऽधमाः । पाषण्डसंश्रयाः वृत्तिमाश्रयिष्यन्त्यसंस्कृताः ॥ ३७ ॥ दुर्भिक्षकरपीडाभिरतीवोपहता जनाः । गवेधुककदन्नाद्यान् देशान् यास्यन्ति दुःखिताः ॥ ३८ ॥ वेदमार्गे प्रलीने च पाषण्डाढ्ये ततो जने । अधर्म्मवृद्धया लोकानां स्वल्पमायुर्भविष्यति ॥ ३९ ॥ अशास्त्रविहित्तं घोरं तप्यमानेषु वै तपः । नरेषु नृपदोषेण बालमृत्युर्भविष्यति ॥ ४० ॥ भवित्री योषितां सूतिः पञ्चषट्सप्तवार्षिकी । नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥ ४१ ॥ पालितोद्भवश्च भविता तदा द्वादशवार्षिकः । नातिजीवति वै कश्चित् कलौ वर्षाणि विंशतिम् ॥ ४२ ॥ विवरणम् – पूर्वेषु युगेषु मनुष्याणाम् आयुष्यं शतवर्षाधिकम् आसीत् । कालस्य प्रगत्या सर्वभूतानाम् आयुष्यं स्वल्पं भविष्यति । द्वापरयुगे मनुष्याणाम् आयुष्यं प्रायः २०० वर्षाः आसीत् । किन्तु कलियुगे केवल प्रायः १०० वर्षाः अस्ति । तदा भविष्यकाले एतानि वचनानुसारेण स्वल्पः एव भविष्यति ॥ अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तः करणाः कलौ । यतस्ततो विनङ्क्ष्यन्ति कालेनाल्पेन मानवाः ॥ ४३ ॥ यदा यदा हि पाषणडवृद्धिर्मैत्रेय लक्ष्यते । तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ ४४ ॥ यदा यदा सतां हानिर्वेदमार्गानुसारिणाम् । प्रारम्भाश्चावसीदन्ति यदा धर्म्मभृतां नृणाम् । तदानुमेयं प्राधान्यं कलेर्मैत्रेय पण्डितैः ॥ ४५ ॥ यदा यदा न यज्ञानामीश्वरः पुरुषोत्तमः । इज्यते पुरुषैर्यज्ञैस्तदा ज्ञेयं कलेर्बलम् ॥ ४६ ॥ न प्रीतिर्वेदवादेषु पाषण्डेषु यदा रतिः । कलेर्वृद्धिस्तदा प्राज्ञैरनुमेया विचक्षणैः ॥ ४७ ॥ कलौ जगत्पतिं विष्णुं सर्व्वस्रष्टारमीश्वरम् । नार्च्चयिष्यन्ति मैत्रेय पाषणडोपहता नराः ॥ ४८ ॥ विवरणम् – कलियुगस्य प्रगत्या शास्त्रविज्ञानस्य विनाशं मन्दं भविष्यति । तदा तामसानां प्रभावात् मनुष्याः श्रीविष्णुं न अर्च्चयिष्यन्ति । 'नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी । तथापि नरके घोरे पतन्तीत्येतदद्भुतम्' इत्येषः श्लोकः श्रीकृष्णामृतमहार्णवे (श्लोकः ६६) श्रीमध्वाचार्येण उद्धृतः ॥ किं वेदैः किं द्विजैर्देवैः किं शौचेनाम्बुजन्मना । इत्येवं विप्र वक्ष्यन्ति पाषण्डोपहता नराः ॥ ४९ ॥ स्वल्पाम्बुवृष्टिः पर्ज्जन्यः सस्यं स्वल्पफल तथा । फलं तथाल्पसारञ्च विप्र प्राप्ते कलौ युगे ॥ ५० ॥ शाणीप्रायाणि वस्त्राणि शमीप्राया महीरुहाः । शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥ ५१ ॥ अणुप्रायाणि धान्यानि अजाप्रायं तथा पयः । भविष्यति कलौ प्राप्ते उषोरञ्चानुलेपनम् ॥ ५२ ॥ शश्रूश्वशुरभूयिष्ठा गुरवश्च नृणां कलौ । श्यालाद्या हारिभार्याश्च सुहृदो मुनिसत्तम ॥ ५३ ॥ विवरणम् – अत्र अनेकानि वचनानि सत्यानि अभवन् । अद्य न स्वजनाः अपि अस्माकं सुहृदः सन्ति यतः अधिकाः मनुष्याः तमोगुणप्रभावेन नीचाः अभवन् । स्वयं माता पिता अन्यसुहृदश्च पुत्रान् निन्दिष्यन्ति अथवा लोभेन पुत्राः मातरं पितरञ्च निन्दिष्यन्ति । तस्माद्संबन्धानां मौल्यं लुप्तम् अभवत् । एतस्य नार्थः कलियुगैव एताः घटनाः भविष्यन्ति इति । अन्येषु येगेष्वपि एताः भविष्यन्ति किन्तु तासां सङ्ख्या स्वल्पैव । तमोगुणस्य वर्धनात् अद्य अधर्मस्य प्रभावः वर्धते । कलियुगस्यादेः ५,००० वर्षाः एव अद्य अभवन् । कलियुगस्य प्रथमाः १०,००० वर्षाः तस्य सुवर्णकालः । अतः अद्यतनम् अधर्मस्य प्रभावः पूर्णकलियुगस्य प्रभावस्य अंशमेव । एतस्मादुत्तरकालात् अद्य भक्त्यादिकार्याणि अधिकसुलभानि ॥ कस्य माता पिता कस्य यदा कर्म्मानुगः पुमान् । इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥ ५४ ॥ वाङ्मनः कायिकैर्दोषैरभिभूताः पुनः पुनः । नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥ ५५ ॥ निःसत्त्वानामशौचानां निःश्रीकाणां तथा नृणाम् । यद्यद्दुःखाय यत् सर्व्वं कलिकाले भविष्यति ॥ ५६ ॥ निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्ज्जिते । तथा प्रविरलो विप्र क्वचिल्लोके निवत्स्यति ॥ ५७ ॥ तत्राल्पेनैव यत्नेन पुण्यस्कन्धमनुत्तमम् । करोति यं कृतयुगे क्रियते तपसा हि सः ॥ ५८ ॥ विवरणम् – अस्मिन् लोके सर्वाणि भूतानि संसारे सन्ति । अनेकानि जन्मानि भवन्ति । जीवनस्य काले बहुजनाः विज्ञानं न जानन्ति । तस्माद् संसारं चक्रम् भविष्यति । एतस्मात् दुश्चक्रात् मुक्तेः मार्गं केवलं भक्तिः । अपरोक्षज्ञानात् भक्तिः पूर्णं भविष्यन्ति । एतस्मात् उपफलेन जीवः संसारात् मुक्तः भविष्यति । तदा ते जीवाः सदा परमपदे श्रीनारायणस्यसहितैः वसिष्यन्ति । एतस्य प्राप्तेः विधिः भगवतः ज्ञानमेव । भगवानेव सर्वभूतानां पिता माता आश्रयः च इति एतत्सत्यम् एकः स्मरेत् । कृतयुगे सर्वेषु लोकेषु केवलाः धार्मिकजनाः वसिष्यन्ति विज्ञानस्य प्रभावः महान् भविष्यति च । कालस्य वर्धनेन एतत् न्यूनं न्यूनं भविष्यति । कलियुगे मुख्यानि साधनानि न साध्यानि । सर्वेभ्यः सुलभं साधनं श्रीनारायणस्य नामोच्चारणम् । भगवतः गुणानां चिन्तयन् भगवान्तं ध्यातव्यः । कालस्य अधिकवर्धनेन एतदपि कष्टं भविष्यति । उत्तराध्यायेषु एतेषां विवरणमस्ति । कलियुगस्यान्ते अग्रिमचतुर्युगः भविष्यति ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे प्रथमोऽध्यायः ॥ अध्यायः २ (Adhyaaya 2) ===================================================== श्रीपराशर उवाच व्यासश्चाह महाबुद्धिर्यदत्रैव हि वस्तुनि । तच्छ्रूयतां महाभाग गदतो मम तत्त्वतः ॥ १ ॥ कस्मिन् कालेऽल्पको धर्म्मो ददाति सुमहत् फलम् । मुनीनामित्यभूद्वादः कैश्चासौ क्रियते सुखम् ॥ २ ॥ सन्देहनिर्णयार्थाय वेदव्यासं महामुनिम् । ययुस्ते संशयं प्रष्टुं मैत्रेय मुनिपुङ्गवाः ॥ ३ ॥ ददृशुस्ते मुनिं तत्र जाह्नवीसलिले द्विजाः । वेदव्यासं महाभागमर्द्धस्त्रातं महामतिम् ॥ ४ ॥ स्नानावसानं तत्तस्य प्रतीक्षन्तो महर्षय । तस्थस्तटे महानद्यास्तरुषण्डमुपाश्रिताः ॥ ५ ॥ मग्नोऽथ जाह्नवीतोयादुत्थायाह सुतो मम । कलिः साधुः कलिः साधुरित्येवं शृण्वतां वचः ॥ ६ ॥ तेषां मुनीनां भूयश्च ममञ्ज स नदीजले । उत्थाय साधु साध्विति शूद्र धन्योऽसि चाब्रवीत् ॥ ७ ॥ स निमग्नः समुत्थाय पुनः प्राह महामुनिः । योषितः साधुधन्यास्तास्ताभ्यो धन्यतरोऽस्ति कः ॥ ८ ॥ ततः स्नात्वा यथान्यायमायान्तं कृतसत्क्रियम् । उपतस्थुर्महाभागं मुनयस्ते सुतं मम ॥ ९ ॥ कृतसंवन्दनाश्चाह कृतासनपरिग्रहान् । किमर्थमागता यूयमिति सत्यवतीसुतः ॥ १० ॥ तमूचुः संशयं प्रष्टुं भवन्तं वयमागताः । अलं तेनास्तु तावन्नः कथ्यतामपरं त्वया ॥ ११ ॥ कलिः साध्विति यत् प्रोक्तं शूद्रः साध्विति योषितः । यदाह भगवान् साधु धन्याश्चेति पुनः पुनः ॥ १२ ॥ तत् सर्व्वं श्रोतुमिच्छामो न चेद्गुह्यं महामुने । तत् कथ्यतां ततो हत्स्थं प्रक्ष्यामस्त्वां प्रयोजनम् ॥ १३ ॥ विवरणम् – ऋषयः व्यासदेवस्य एतेन वचनेन आश्चर्यचकिता अभवन् । शास्त्रेषु वर्णानां चतुर्विधम् अस्ति ब्राह्मणः क्षत्रियः वैश्यः शूद्रश्च इति । ये शास्त्राणां पण्डिताः यज्ञान् कुर्वन्ति च ते ब्राह्मणाः । तपसा ते तत्पदवीं प्राप्यते । ये योधाः ये राज्यस्य प्रशासनं कुर्वन्ति च ते क्षत्रियाः । ये व्यापारिनः ते वैश्याः । ये बहूद्योगान् अन्येभ्यः सेवाश्च कुर्वन्ति ते शुद्राः उच्यन्ते । केवलजन्मना सर्वे शूद्राः । उपनयनसंस्कारात् द्विजाः भविष्यन्ति । तदनन्तरं गुरुकुलेषु वेदानाम् अध्ययनं तेषां कर्तव्यम् । तदन्तरं ब्राह्मणाः वा क्षत्रियाः वा वैश्याः वा उच्यन्ते । उपनयनादि वेदानां संस्काराः एकस्य पित्रा प्राप्तव्याः । सत्ययुगे सर्वे ब्राह्मणाः आसन् किन्तु दुष्कर्मभिः अधिकमनुष्याः अन्यवर्णेभ्यः गतवन्तः । सर्वसंस्कारानपि त्यक्त्वा केचिज्जनाः शूद्राः अभवन् । 'आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः । कृतकृत्याः प्रजा जात्या तस्मात् कृतयुगं विदुः' इति भागवतपुराणे (स्कन्धः ११, अध्यायः १७, श्लोकः १०) ॥ 'विप्रक्षत्रियविट्‍शूद्रा मुखबाहूरुपादजाः । वैराजात् पुरुषाज्जाता य आत्माचारलक्षणाः' (श्लोकः १३) इति ॥ यदन्याः न जानन्ति वर्णस्यार्थः न केवलं समाजे स्थानं किन्तु वर्णः जीवस्य गुणानपि सूचयति । केवल श्रीमध्वाचार्यः एतं विषयं सर्वेभ्योऽचार्येभ्यः पूर्वे असूचयत् । तत्त्ववाददर्शने द्विविधं वर्णः अस्ति– (१) औपाधिकः – यः जन्मना कृतः । समाजे तस्य उपयोगं एक्रियते । (२) स्वाभाविकः – एषः जीवस्य गुणेभ्यः निर्णितः । सर्वजन्मसु एषः एकः हि भविष्यति । एतेन जीवस्य साधनं क्रियते । वर्ण इति शब्दस्य साक्षादर्थः 'रङ्ग' इति । 'एतस्मात् समाजस्य संबन्धं कुतः?' इति संशयः प्रायशः भविष्यति । वास्तवत्वे वर्णस्य मुख्यार्थः स्वभावः एव । एतेन अर्थेन 'तस्य वर्णाः दृश्यन्ते' इत्यादिवचनानि उक्तानि । स्पष्टरूपेण महाभारते एतदुक्तम् । एतस्मिनध्याये सर्वेषां पूर्वब्राह्मणत्वस्यापि विवरणमस्ति । 'ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः । वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा' इति महाभारते शान्तिपर्वे (अध्यायः १८६, श्लोकः ५) ॥ 'ब्राह्मणाः पूर्वसृष्टा हि कर्मभिर्वर्णतां गताः ॥ कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः । त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः ॥ गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः । स्वधर्मान्नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः ॥ हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः । कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रता गताः ॥ इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः । धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते' (श्लोकाः १०-१४) इत्यपि ॥ प्रायशः 'एतस्य किमर्थम्' इति संशयः भविष्यति । वास्तवत्वेन वर्णः मनुष्यस्य गुणान् सूचयति । शास्त्रेषु एतद् बहुवारमुक्तम् । जीवस्य स्वभावानुसारेण तस्य वर्णः इति श्रीमध्वाचार्येणाप्युक्तः । एतस्य जन्मनः संबन्धः नास्ति । सुस्पष्तं ब्राह्मणस्य जीवनः न सर्वेभ्यः जीवेभ्यः । 'शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् । ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ शौर्यं वीर्यं धृतिस्तेजस्त्यागश्चात्मजयः क्षमा । ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम् । आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम्' इति भागवतपुराणे (स्कन्धः ७, अध्यायः ११, २१-२४) ॥ विशिष्टरूपेण– 'वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् । हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । यदन्यत्रापि द‍श्येत तत्तेनैव विनिर्दिशेत्' (श्लोकौ ३२ ३५ च) इत्युक्तम् ॥ 'शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते । न वै शूद्रो भवेच्छ्रद्रो ब्राह्मणो न च ब्राह्मणः' इति महाभारते शान्तिपर्वे (आध्यायः १८७/१८९, श्लोकः ८) ॥ अतः पतञ्जलिऋषिणा अष्टाध्यायिसूत्राणां महाभाष्ये– 'अथ वा सर्व एते शब्दा गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति' (अध्यायः २, पादः २, सूत्रम् ६) इत्युक्तम् ॥ श्रीमध्वाचार्यः एव वर्णाश्रमस्य एतद् विवरणं दत्तवान् । शास्त्रेषु कानिचिद्वाक्यानि 'वर्णः जन्मना नियमितः' इति वदन्ति । अन्यवाक्यानि 'वर्णः गुणेभ्यः नियमितः न जन्मना' इत्यपि वदन्ति । एतेन विवरणेन न कश्चिद् विरोधः अस्ति । ये सर्वे सात्विकगुणिनः भगवद्भक्ताश्च तेषां ब्रह्मज्ञानस्य मुक्तेश्च अधिकारः अस्ति । केभ्यश्चित् स्वभावेन ब्राह्मणस्य आचारः तपसादयश्च रोचन्ते । केभ्यश्चित् प्रशासनं रोचते । केभ्यश्चित् व्यापारः रोचते च । केभ्यश्चित् अन्यतां सेवा रोचते । यद्लक्षणं एकस्मिनस्ति तस्य वर्धनं तेन अन्येभ्यः लाभञ्च भगवद्भक्तः कुर्यात् । एतदेव मोक्षस्य मार्गमपि । ब्राह्मणत्व सन्न्यासश्च ज्ञनमोक्षादिभ्योऽर्थेभ्यः न अपेक्षितौ । वर्णानां मुख्यः शूद्रः एव । यस्मै अन्यतां दुःखानि दृश्यन्ते सः शूद्रः । शूद्रत्वरहितः व्यक्तिः मनुष्यः हि न उच्यते । अन्यथा कुतः अन्यजीवेभ्यः कारुण्यं सेवायाः इच्छा च भविष्यतः? । हिन्दूधर्मस्य निन्दार्थं केचिद्व्यक्तयः 'शूद्राः नीचाः' इति वदन्ति । किन्तु सर्वेभ्यः शूद्रत्वः अधिकमुख्यगुणः । सामान्येन ब्राह्मणानाम् अधिकगौरवमस्ति यतः ते महान्धार्मिकाः ते ब्रह्माणं जानन्ति च । किन्तु एतस्य पदविनः प्राप्तेः प्रयत्नः अधिककष्टोऽपि । अतः शूद्राः धन्याः यतः तेषां अप्लयत्नेनैव परमगतिस्सत्कीर्तिश्च शक्ये । तेभ्यः कठोरनियमानाम् आचारः नापेक्षितः । द्विजैः नित्यसन्ध्यावन्दनादि कर्माणि अपेक्षितानि । ब्राह्मणेभ्यः अर्थागमनः निषिद्धः । अन्यजनेभ्यः दानेनेभ्यः एव तेषां कर्माणि कर्तव्यानि । क्षत्रियेभ्यः दुर्गतायामपि भिक्षा निषिद्धा । किन्तु शूद्रेभ्यः एतानि सर्वाणि नियमाः न सन्ति । तेभ्यः बहूद्योगाः दासपण्डिताचार्यादयः कर्तव्याः । तथैव सामन्यस्त्रियोऽपि अद्विजाः ताभ्यः उपनयनादि वैदिकसंस्काराणि नापेक्षिताणि । किन्तु शूद्राः इव ताभ्यः अपि अल्पयत्नेन समफलानि शक्यानि । विवाहस्यानन्तरं द्विजस्य पुण्यफलानामर्धं तस्य पत्न्यै गच्छति किन्तु न तस्य दोषाः । अतः द्विजेभ्यः सत्पतये च सेवया एव शूद्रैः अद्विजामहिलाभिश्च परमगतिं प्राप्यते । एतस्य विवरणं व्यासदेवः अग्रिमश्लोकेषु करिष्यति । अतः श्रीवैष्णवाचार्यः श्रीपिळ्ळायिलोकाचार्यः श्रीवचनभूषणनाम ग्रन्थे– 'अपक्रुष्टमाक प्रमित्त उर्क्रुष्ट जन्मत्तुक्कु इरण्डु दोषमुम् इल्लै' इत्युक्तवान् ॥ अत्र दोषौ वर्णात् पतितत्वस्य भयः मिथ्यश्रेष्ठत्वश्च । अतः सामान्येन औपाधिकवर्णात् एकस्य उद्योगः नियमितः यतः स्वाभाविकवर्णः कदाचिद् न अभिसङ्ख्यः । किन्तु एकस्य गौरवस्य निजवर्णस्य च निर्णयं तस्य स्वभावेनैव क्रियते ॥ इत्युक्तो मुनिभिर्व्यासः प्रहस्येदमथाब्रवीत् । श्रूयतां भो मुनिश्रेष्ठा यदुक्तं साधु साध्विति॥ १४ ॥ यत्कृते दशभिर्वर्षेस्त्रेतायां हायनेन यत् । द्वापरे यच्च मासेन अहोरात्रेण तत् कलौ ॥ १५ ॥ तपसो ब्रह्मचर्य्यस्य जपादेश्च फलं द्विजाः । प्राप्नोति पुरुषस्तेन कलिः साध्विति भाषितम् ॥ १६ ॥ ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्च्चयन् । यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्त्य केशवम् ॥ १७ ॥ विवरणम् – एषः श्लोकः श्रीपराशरभट्टेन भगवद्गुणदर्पणे उद्धृतः । एषः पद्मपुराणे उत्तरखण्डे (अध्यायः ७२, श्लोकः २५) बृहन्नारदीयपुराणे (अध्यायः ३८, श्लोकः ९७) चापि अस्ति । एकः समनार्थकश्लोकः श्रीमध्वाचार्येण कृष्णामृतमहार्णवेऽपि उद्धृतः । एषः भागवतपुराणेऽपि अस्ति– 'कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः । कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥ कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात्' (भागवतपुराणे, स्कन्धः १२, अध्यायः ३, श्लोकौ ५१-५२) इति ॥ एषः श्लोकः एतस्मिनध्यायस्यान्ते (३९ श्लोकः) पुनरुक्तः । यतः बहुसाधनानि अद्य न शक्यानि अतः भगवन्नामजपः भक्तिश्च कर्तव्ये इति एतस्य तात्पर्य्यम् । अतः कलियुगे तपस्यज्ञादीनां फलानि हरिनामेनैव प्राप्यानि । श्रीविष्णोः ध्यानस्य एषः मुख्यसाधनम् । तस्य नामजपादेव अस्मासु भगवतः गुणानां अंशाः वर्धन्ते । तेन तस्य प्रभावः अनुग्रहश्च प्राप्यौ भविष्यतः । एतत् जपात् शक्यते । जपकाले भगवान् अस्माकम् आत्मनाम् अन्तर्यामी येन सर्वाणि जीवन्ति येन आनन्दः प्राप्यश्च इति स्मृत्वा, भगवतः रूपं ध्यातव्यम् । ये भगवान्तं निन्दन्ति वा येभ्यः अधर्मः रोचते वा तैः भगवदनुग्रहः अप्राप्यः इति स्मर्तव्यम् । तथापि कलियुगये एव भगवन्नामजपस्य प्रभावः महान् नान्ययुगेषु इति न सत्यम् । सर्वेषु कालेषु हरिनामसङ्कीर्तनं भक्तेः सुलभसाधनम् । यथा अन्येषु साधनेषु कठोरनियमाः सन्ति तथा हरिनामजपे ते न आवश्यकाः । अपवित्रः पवित्रो वा सर्वावस्थासु श्रीविष्णोर्नामानि स्मर्तव्यानि । 'आर्ता विषण्णाशिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः । सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति' (श्रीविष्णुसहस्रनामस्तोत्रस्य उत्तरापीठिकायां; श्रीमध्वाचार्येण उद्धृतः, श्रीकृष्णामृतमहार्णवे, श्लोकः ६७; श्रीवेदान्तदेशिकेन, रहस्यत्रयसारे, अध्यायः २६) इति ॥ धर्म्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ । अल्पायासेन धर्म्मज्ञास्तेन तुष्टोऽस्म्यहं कलेः ॥ १८ ॥ व्रतचर्य्यापरैर्ग्राह्यो वेदः पूर्व्वं द्विजातिभिः । ततः स्वधर्म्मसम्प्राप्तैर्यष्टव्यं विधिनाध्वरैः ॥ १९ ॥ वृथा कथा वृथाभोज्यं वृथेज्या च द्विजन्मनाम् । पतनाय तथा भाव्यं तैस्त्वसंयमिभिः सदा ॥ २० ॥ असम्यककरणे दोषस्तेषां सर्वेषु कर्मसु । भोज्यपेयादिकञ्चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ २१ ॥ पारतन्व्यं समस्तेषु तेषां कार्य्येषु वै ततः । जयन्ति ते निजात् लोकान् क्लेशेन महता द्विजाः ॥ २२ ॥ द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् । निजान् जयति वै लोकाञ् शूद्रो धन्यतरस्ततः ॥ २३ ॥ भक्ष्याभक्ष्येषु नास्यास्ति पेयापेयेषु वै यतः । नियमो मुनिशाद्दूर्लास्तेनासौ साध्वितीरितः ॥ २४ ॥ विवरणम् – सर्वेभ्यः द्विजेभ्यः आहारविषये कठोरयमाः सन्ति । तेभ्यः विरोधात् एकः द्विजत्वात् पतित्वा व्रात्यः भविष्यति । सामान्येभ्यः शूद्रेभ्यः न केचिद् नियमाः सन्ति । अतः ते धन्याः इत्युक्ताः यतः एतस्मिन् काले सात्त्विकाचारोऽपि कठिनः । किन्तु ये भगवत्प्राप्तिरिच्छन्ति तेभ्यः ह्यवश्यः कठोरनियमाः सन्ति । तथा मांस-मद्य-मुरङ्गी-वृन्ताक-मूलक-छत्त्रक-पलाण्डु-लशुनादिनां अधिकतामसाहारानां भक्षणात् एकस्य द्विजत्वं वैष्णवत्वञ्च विनश्यतः (वृन्ताकानां 'मत्तुगुळ्ळ' नामविशेषः सात्त्विकः) । एतस्मात् ये सच्छूद्राः वैष्णवाश्च तेभ्यः सात्त्विकाहारः अवश्यकः । तेभ्यः अपि सदाचारस्य अन्यनियमाः कर्तव्याः । एतेन ते अन्यशूद्रेभ्यः भिन्निताः । अतः ते अधिकमान्याः तेषां वैष्णवत्वं शक्यते । यदि शूद्रः न सच्छूद्रो वा अवैष्णवो वा यतः सः साधनानां नियमानां पालनं न करोति तर्ह्यपि तस्य स्वधर्मात् सः फलानि लभ्यते इति एतस्य श्लोकस्य तात्पर्य्यम् । किन्तु द्विजेभ्यः तेषां वैदिकसंस्कारेभ्यः एतत् न शक्यते ॥ स्वधर्म्मस्याविरोधेन नरैलब्धं धनं सदा । प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ २५ ॥ तस्यार्ज्जने महाक्लेशः पालने च द्विजोत्तमाः । तथा सद्विनियोगाय विज्ञेयं गहनं नृणाम् ॥ २६ ॥ एभिरन्यैस्तथा क्लेशैः पुरुषा द्विजसत्तमाः । निजान् जयन्ति वै लोकान्प्राजापत्यादिकान् क्रमात् ॥ २७ ॥ योषिच्छुश्रूषणं भर्त्तुः कर्म्मणा मनसा गिरा । कुर्व्वतो समवाप्नोति तत्सालोक्यं यतो द्विजाः ॥ २८ ॥ नातिक्लेशेन महता तानेव पुरुषो यथा । तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥ २९ ॥ विवरणम् – पूर्वोक्तेन सर्वेभ्यः सात्त्विकभगवद्भक्तेभ्यः एकङ्गतिं हि प्राप्यम् । केवल स्वाभाविकैः गुणैः तेषाम् आनन्दः भेदितः । एतस्य औपाधिकगुणेभ्यः न संबन्धास्ति । केवल समाजे एते उपयोग्याः । द्विजेभ्यः वेदाध्ययनादि नियमाश्च मुख्यकर्तव्याः किन्तु न शूद्रेभ्यः स्त्रीभ्यश्च । पण्डितत्वं शास्त्राणां विज्ञानञ्च सर्वेभ्यः लभ्येते विना भेदः । वेदानां ज्ञानां रामायण-महाभारत-पुराण-पञ्चरात्रागम-धर्मशास्त्रादिषु स्मृतिष्वपि अस्ति । तेषां अध्ययनस्य नियमाः अल्पाः । ततः महाभारते हि 'धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम् । मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्' (महाभारते, आदिपर्वे, अध्यायः ६२, श्लोकौ २५-२६) इत्युक्तम् ॥ अतः योग्यद्विजेभ्यः सेवया अद्विजाः अधिकपुण्यं लभन्ते । विवाहस्यानन्तरं पत्नी पतेः यज्ञादिनां साधनानां पुण्यस्य सदैव अर्धं प्राप्नोति । अतः अद्विजेभ्यः पुण्यप्रापण अधिकसुलभः । किन्तु केवल योग्यद्विजाः सेवितव्याः न निःसाराः द्विजाः । कलियुगे अधिकाः अयोग्यद्विजा अपि सन्ति । ये न शास्त्राणां द्विजानां नियमाः पालयन्ति किन्तु अहङ्कारात् 'अहं द्विजः' अथवा 'अहं ब्राह्मणः' इति वदन्ति । यथा प्रथमेऽध्याये उक्तः तथा कलियुगे अधिकाधर्मिनः अस्मिन्काले सन्ति ये न माता-पिता-पति-पत्न्यादि संबन्धेभ्यः योग्याः । एतेषां सेवा केवलं मूर्खत्वं अधर्मञ्च ॥ एतद्वः कथितं विप्रा यन्निमित्तमिहागताः । तत् पृच्छध्वं यथाकामं सर्व्वं वक्ष्यामि वः स्फुटम् ॥ ३० ॥ ततस्ते मुनयः प्रोचुर्यत् प्रष्टव्यं महामुने । अन्यस्मिन्नेव तत् पृष्टे यथावत् कथितं त्वया ॥ ३१ ॥ ततो प्रहस्य तान् प्राह कृष्णद्वैपायनो मुनिः । विस्मयोत्फुल्लनयनांस्तापसांस्तानुपागतान् ॥ ३२ ॥ मयैष भवतां प्रश्नो ज्ञातो दिव्येन चक्षुषा । तता हि वः प्रसङ्गने साधु साध्विति भाषितम् ॥ ३३ ॥ विवरणम् – व्यासदेवः स्व्यं भगवान्विष्णुः । अतः ऋषीणां संशयस्य पूर्वे ज्ञात्वा विना तेषां प्रश्नं सः तस्य उत्तरम् अवदत् । शास्त्रानुसारेण सः साक्षाद्भगवान् अतः सः सर्वदृक् कविश्च । 'कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत् । धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम्' इति महाभारते शान्तिपर्वे (अध्यायः ३५६, श्लोकः ११; श्रीमध्वाचार्येण उद्धृतः, तस्य गीताभाष्यस्य आदौ) ॥ 'कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । कोऽन्यो हि भुवि मैत्रेय महाभारतकृद् भवेत्' इति विष्णुपुराणे (अंशः ३, अध्यायः ४, श्लोकः ५) ॥ यदा अपरोक्षज्ञानिनां भूतवर्तमानभविष्याणां ज्ञानमस्ति तदा भगवतः एतस्य ज्ञानात् किम् आश्चर्यम्? ॥ स्वल्पेनैव प्रयत्नेन धर्म्मः सिध्यति वै कलौ । नरैरात्मगुणाम्भोभिः क्षालिताखिलकिल्विषैः ॥ ३४ ॥ शूद्रैश्च द्विजशुश्रूषातत्परैर्मुनिसत्तमाः । तथा स्त्रीभिरनायासं पतिशुश्रूषयैव हि ॥ ३५ ॥ ततस्त्रितयमप्येतन्मम धन्यतमं मतम् । धर्म्मसंसाधने क्लेशो द्विजातीनां कृतादिषु ॥ ३६ ॥ भवद्भिर्यदभिप्रेतं तदेतत् कथितं मया । अपृष्टेनापि धर्म्मज्ञाः किमन्यत् कथ्यतां द्विजाः ॥ ३७ ॥ ततः संपूज्य ते व्यासं प्रशस्य च पुनः पुनः । यथाऽऽगतं द्विजा जग्मुर्व्व्यासोक्तिक्षतसंशयाः ॥ ३८ ॥ भवतोऽपि महाभागरहस्यं कथितं मया । अत्यन्तदुष्टस्य कलेरयमेको महान् गुणः । कीर्त्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥ ३९ ॥ विवरणम् – एषः श्लोकः भागवतपुराणेऽप्यस्ति (स्कन्धः १२, अध्यायः ३, श्लोकः ५१) ॥ यच्चाहं भवता पृष्टो जगतामुपसंहृतिम् । प्राकृतामान्तरालाञ्च तामप्येष वदामि ते ॥ ४० ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे द्वितीयोऽध्यायः ॥ अध्यायः ३ (Adhyaaya 3) ===================================================== सर्व्वेषामेव भूतानां त्रिविधः प्रितसञ्चरः । नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको मतः ॥ १ ॥ ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसञ्चरः । आत्यन्तिकश्च मोक्षाख्यः प्राकृतो द्विपरार्द्धिकः ॥ २ ॥ विवरणम् – पूर्वेऽध्याये कलियुगस्य लक्षणानां सात्त्विकानां सौभाग्यस्य च विवरणमक्रियत । अस्मिन् अध्याये विश्वस्यान्तस्य महाप्रळयस्य घटनानां विवरणमस्ति ॥ श्रीमैत्रेय उवाच परार्द्धसंख्यां भगवन् ममाचक्ष यया तु सः । द्विगुणीकृतया ज्ञयेः प्राकृतः प्रतिसञ्चरः ॥ ३ ॥ श्रीपराशर उवाच स्थानात् स्थानं दशगुणमेकस्माद्गण्यते द्विज । ततोऽष्टादशमे स्थाने परार्द्धमभिधीयते ॥ ४ ॥ परार्द्धद्विगुणं यत्तु प्राकृतः प्रलयो द्विज । तदाऽव्यक्तेऽखिलं व्यक्तं स्वहेतौ लयमेति वै ॥ ५ ॥ निमेषो मानुषो योऽयं मात्रामात्रप्रमाणतः । तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास्तथा कलाः ॥ ६ ॥ नाडिका तु प्रमाणेन कला दश च पञ्च च । उन्मानेनाम्भसः सा तु पलान्यर्द्धत्रयोदश ॥ ७ ॥ हेममाषैः कृतिच्छिद्रश्चतुर्भिश्चतुरङ्गुलैः । मागधेन प्रमाणेन जलप्रस्थस्तु स स्मृतः ॥ ८ ॥ नाडिकाभ्यामथ द्वाभ्यां मुहूर्त्तो द्विजसत्तम । अहोरात्रं मुहूर्त्तास्तु त्रिंशन्मासो दिनैस्तथा ॥ ९ ॥ मासैर्द्वादशभिर्वर्षमहोरात्रन्तु तद्दिवि । त्रिभिर्वर्षशतैर्वर्ष षष्ट्या चैवासुरद्विषाम् ॥ १० ॥ तैस्तु द्वादशसाहस्रैश्चतुर्युगमुदाहृतम् । चतुर्युगसहस्त्रन्तु कथ्यते ब्रह्मणो दिनम् ॥ ११ ॥ स कल्पोऽप्यत्र मनवश्चतुर्द्दश महामुने । तदन्ते चैव मैत्रेय ब्राह्मो नैमित्तिको लयः ॥ १२ ॥ विवरणम् – श्रीविष्णुपुराणस्य प्रथमांशस्य प्रथमाध्यायस्य कालस्य अंशानाम् आवर्तनानि अत्र दृश्यन्ते । श्रीभागवतपुराणे (स्कन्धः ३, अध्यायः ११) तेषां पाठान्तरैः सहितानि एतानि– २ परमाणौ = १ अणुः ३ अणवः = १ त्रसरेणुः ३ त्रसरेणवः = १ त्रुटिः १०० त्रुटयः = १ वेधः ३ वेधाः = १ लवः ३ लवाः = १ निमेषः ३ निमेषः = १ क्षणः ५ क्षाणाः = १ काष्ठा १५ काष्ठाः = १ लघुम् १५ लघूनि = १ नाडिका/दण्डः २ नाडिके/दण्डौ = १ मुहूर्त्तः ४ + ४ यामाः = १ दिनः रात्रिश्च अन्याः गणनाः समानाः ॥ तस्य स्वरूपमत्युग्र मैत्रेय गदतो मम । श्रृणुष्व प्राकृतं भूयस्तव वक्ष्याम्यहं लयम् ॥ १३ ॥ चतुर्युगसहस्रान्ते क्षीणप्राये महीतले । अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ १४ ॥ ततो यान्यल्पसाराणि तानि तत्त्वान्यशेषतः । क्षयं यान्ति मुनिश्रेष्ठपार्थिवान्यत्र पीडनात् ॥ १५ ॥ ततः स भगवान् विष्णु रुद्ररूपधरोऽव्ययः । क्षयाय यतते कर्त्तुमात्मस्थाः सकलाः प्रजाः ॥ १६ ॥ विवरणम् – श्रीरुद्रः प्रळयकाले जगतः संहारकर्ता किन्तु श्रीहरिना एव जगतः सर्वाणि कार्याणि प्रवर्तन्ते । श्रीब्रह्मा श्रीशिवश्च केवल विष्णोः यन्त्रौ । 'निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भः शर्वश्च कालाख्यारूपिणस्तव' इति भागवतपुराणे (स्कन्धः १०, अध्यायः ६८, श्लोकः ८; श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मसूत्रभाष्ये, अध्यायः २, पादः ३, सूत्रं १३) ॥ तस्मात् श्रीविष्णुपुराणस्य प्रथमे अंशे द्वितीयेऽध्याये मङ्गळश्लोकेषु श्रीविष्णुः जगतः सर्गस्तिथिविनाशानां मूलभूतः इत्युक्तः । प्रायशः तानि ब्रह्मणः शिवस्य च कार्याणि इति दृश्यन्ते । भागवतपुरानेऽपि ब्रह्मणा सर्गं न क्रियते किन्तु श्रीविष्णुना यः जगतः साक्षात्स्रष्टा सर्वकारणकारणश्च इति ब्राह्मा हि अवदत् । 'तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः । सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितः' इति भागवतपुराणे (स्कन्धः २, अध्यायः ५, श्लोकः १७) ॥ शिवः यः प्रळयकर्ता तस्यापि सर्वदेवतानाञ्च श्रीविष्णुः स्वयं विनायकः । तस्मात् स 'हरि' इत्युक्तः । 'ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च । निहत्य हरते यस्मात्तस्माद्धरिरिहोच्यते' इति पद्मपुराणे (उत्तरखण्डे, अध्यायः २२६, श्लोकौ ८६-८७; श्रीविजयीन्द्रतीर्थेन उद्धृतः, न्यायमौक्तिकमालायां, शैवसर्वस्वखण्डने) ॥ 'ब्रह्माणमिन्द्रं च यमं रुद्रं वरुण एव च । नगृह्य हरसे यस्मात्तस्माद्धरिरिहोच्यसे' इति मत्स्यपुराणे (अध्यायः २४८, श्लोकौ ३५-३६) ॥ 'हरसि प्राणिनो देव ततो हरिरिति स्मृतः' इति हरिवंशे (भविष्यपर्वे, अध्यायः ८८, श्लोकः ४५) ॥ शिवः विष्णोः व्यूहसङ्कर्षणस्य विभूतिः । तथा सङ्कर्षणस्यांशः शिवे वसति यः तस्य द्वितीयः आत्मा । तेन शिवस्य जगत्संहारकार्याः शक्यन्ते । तथा अन्यदेवेषु सर्वेषु जीवेष्वपि नारायणः सर्वान्तर्यामी । 'सङ्कर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम्' इति विष्णुपुराणे (अंशः २, अध्यायः ५, श्लोकः १९) ॥ 'सम्भक्ष्य सर्वभूतानि देवादीन्यविशेषतः । नृत्यत्यन्ते च यद्रूपं तस्मै रुद्रात्मने नमः' इति विष्णुपुराणे (अंशः ३, अध्यायः १७, श्लोकः २६) ॥ 'भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मसमाधिरूपेण सन्निधाप्यैतदभिगृणन् भव उपधावति' इति भागवतपुराणे (स्कन्धः ५, अध्यायः १७, श्लोकः १६) ॥ 'विष्णुरात्मा भगवतो रुद्रस्यामिततेजसः । तस्माद्धनुर्जसंस्पर्शं स विषेहे महेश्वरः' इति महाभारते कर्णपर्वे (अध्यायः २६, श्लोकौ ३३-३४; श्रीविजयीन्द्रतीर्थेन उद्धृतः, न्यायमौक्तिकमालायां, शैवसर्वस्वखण्डने) ॥ 'त्वामृते कमलाकांत नान्यन्निर्वाणकारणम् । अंतर्यामिन्प्रभो मे त्वं त्वां विना विग्रहः कुतः' इति स्कन्दपुराणे (वैष्णवखण्डे, पुरुषोत्तमक्षेत्रमाहात्म्यनाम भागे, अध्यायः ४, श्लोकः ४९) ॥ महाभारते ब्रह्मा शिवाय 'ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचिक्वचित्' (महाभारते, शान्तिपर्वे, अध्यायः ३६१, श्लोकः ४; श्री आदिशङ्कराचार्येण उद्धृतः, तस्य ब्रह्मसूत्रभाष्ये, अध्यायः २, पादः १, सूत्रम् १) इत्युक्तवान् ॥ 'अहं ब्रह्मा आद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः ॥ मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदाः सरहस्या हि पुत्र' (श्लोकौ २०-२१; श्रीमध्वाचार्येण उद्धृतः, महाभारततात्पर्य्य निर्णये, अध्यायः २, श्लोकः ११४) इति ॥ अतः स्वयं श्रीविष्णुः 'अहंनारायणो नाम प्रभवः शाश्वतोऽव्ययः। विधाता सर्वभूतानां संहर्ता च द्विजोत्तम्' इत्युक्तवान् महाभारते (वनपर्वे, अध्यायः १९२, श्लोकः ४) ॥ प्रळयकाले सत्यलोकादधामाः लोकाः नष्टाः भविष्यन्ति । अतः तेषां वासिनः सत्यलोकं गमिष्यन्ति । अन्याः लोकाः जलेन आप्लुताः भविष्यति ॥ ततः स भगवान् विष्णुर्भानोः सप्तसु रश्मिषु । स्थितः पिबत्यशेषाणि जलानि मुनिसत्तम ॥ १७ ॥ विवरणम् – नूतनविज्ञानानुसारेणापि सूर्यस्य ज्योतेः सप्तकिरणाः सन्ति । बहुसहस्रवर्षाणां कालस्यानन्तरं सूर्यः बृहन् भविष्यति । किन्तु सहस्रसहस्रकालानां पूर्वे हि पुराणेषु एतस्य विषयस्य विवरणं दृश्यते ॥ पीत्वाम्भांसि समस्तानि प्राणिभूमिगतानि वै । शोषं नयति मैत्रेयसमस्तं पृथिवीतलम् ॥ १८ ॥ समुद्रान्सरितः शैलनदीप्रस्रवणानि च । पातालेषु च यत्तोय तत् सर्व्वं नयति क्षयम् ॥ १९ ॥ ततस्तस्यानुभावेन तोयाहारोपबृंहिताः । त एव रश्मयः सप्त जायन्ते सप्त भास्कराः ॥ २० ॥ अधश्चोर्ध्वञ्च ते दीप्तास्ततस्सप्त दिवाकराः । दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विज ॥ २१ ॥ दह्यमानन्तु तैर्दीप्तैस्त्रैलोक्यं द्विजभास्करेः । साद्रिनद्यर्णवाभोगं निःस्नेहमति जायते ॥ २२ ॥ ततो निर्दग्धवृक्षाम्बु त्रैलोक्यमखिल द्विज । भवत्येका च वसुधा कूर्म्मपृष्ठोपमाकृतिः ॥ २३ ॥ ततः कालाग्निरुद्रोऽसौ भूत्वा सर्व्वहरो हरिः । शेषनिःश्वाससम्भूतः पातालानि दहत्यधः ॥ २४ ॥ विवरणम् – भागवतपुराणोक्तेन शेषोऽपि लोकानां संहारं करिष्यति । तस्य निःश्वासात् अग्निः पातालादीन् अधामलोकान् अवदहिष्यति । कालाग्निरुद्रः इव सोऽपि सङ्करषणस्य विभूतिः तमसोऽभिमानी च । 'यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्षविरचितरुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र एकादशव्यूहस्‍त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत्' इति भागवतपुराणे (स्कन्धः ५, अध्यायः २५, श्लोकः ३) ॥ पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् । भूमिमभ्येत्य सकलं बभस्ति वसुधातलम् ॥ २५ ॥ विवरणम् – कोटिवर्षाणामनन्तरं सूर्यः विस्तारं गत्वा पृथिव्याः विनाशं करिष्यति इति अपेक्ष्यते । एतस्य श्लोकस्य सन्दर्भः सूक्ष्मरूपेण एतत् सूचयति ॥ भुवर्लोकं ततः सर्व्वं स्वर्लोकञ्च सुदारुणः । ज्वालामालामहावर्त्तस्तत्रैव परिवर्त्तते ॥ २६ ॥ अम्बरीषमिवाभाति त्रैलोक्यमखिलं तदा । ज्वालावर्त्तपरीवारमुपक्षीणचराचरम् ॥ २७ ॥ ततस्तापपरीतास्तु लोकदूयनिवासिनः । कृताधिकारा गच्छन्ति महर्लोकं महामुने ॥ २८ ॥ तस्मादपि महातापतप्ता लोकास्ततः परम् । गच्छन्ति जनलोकं ते दशावृत्त्या परैषिणः ॥ २९ ॥ विवरणम् – प्रळयस्य एतद्विवरणं भागवतपुराणेऽपि अस्ति । 'त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना । यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिताः' (भागवतपुराणे, स्कन्धः ३, अध्यायः ११, श्लोकः ३०) इति ॥ ततो दग्ध्वा जगत् सर्व्वं रुद्ररूपी जनार्द्दनः । मुखनिःश्वासजान् मेघान् करोति मुनिसत्तम ॥ ३० ॥ ततो गजकुलप्रख्यास्तडित्वन्तो निनादिनः । उत्तिष्ठन्ति तदा व्योम्रि घोराः संवर्त्तका घनाः ॥ ३१ ॥ केचिन्नीलोतूपलश्यामाः केचित्कुमुदसन्निभाः । धूमवर्णा घनाः केचित्केचित्पीताः पयोधराः ॥ ३२ ॥ केचिद्रासभवर्णाभा लाक्षारसनिभास्तथा । केचिद्वैडूर्य्यसङ्काशा इन्द्रनीलनिभाः परे ॥ ३३ ॥ शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिबास्तथा । इन्द्रगोपनिभाः केचिन्मनःशिलानिभास्तथा ॥ ३४ ॥ चाषपत्रनिभाः केचिदुत्तिष्ठन्ति घना घनाः । केचित् पुरवरावकाराः केचित् पर्व्वतसन्निभाः ॥ ३५ ॥ कूटागारनिभाश्चान्ये केचित् स्थूलनिभा घनाः । महारावा महाकायाः पूरयन्ति नभस्तलम् ॥ ३६ ॥ वर्षन्तस्ते महासारैस्तमग्निमतिभैरवम् । शमयन्त्यखिलं विप्र त्रैलोक्यान्तरविस्तृतम् ॥ ३७ ॥ नष्टे चाग्नौ च सततं वर्षमाणा ह्यहर्निशम् । प्लावयन्ति जगत्सर्वमम्भोभिर्मुनिसत्तम ॥ ३८ ॥ धाराभिरक्षमात्राभिः प्लावयित्वाखिलं भुवम् । भुवर्लोकं तथैवोर्द्ध्व प्लावयन्ति दिवं द्विज ॥ ३९ ॥ अन्धरारीकृते लोके नष्टे स्थावरजङ्गमे । वर्षन्ति ते महामेघा वर्षाणामधिकं शतम् ॥ ४० ॥ एवं भवति कल्पान्ते समस्तं मुनिसत्तम । वासुदेवस्य माहात्म्यान्नित्यस्य परमात्मनः ॥ ४१ ॥ विवरणम् – तथा नैमित्तिकप्रळयस्य घटनानां विवरणम् अक्रियन्त । ब्रह्मणः आयुष्यस्यान्ते प्राकृतिकप्रळयः भविष्यति । तस्मादनन्तरं श्रीविष्णुना सृष्टिं पुनः क्रियिष्यते । अनिरुद्धस्य नाभौ नूतनब्रह्मा जायिष्यते । 'तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः' (ऋग्वेदस्य शाकलसंहितायां, मण्डलं १०, सूक्तः ८२, मन्त्रः ६) इति ॥ एतस्य मन्त्रस्य उपबृंहणं महाभारतेऽस्ति– 'अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् । पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः' (महाभारते, शान्तिपर्वे, अध्यायः ४६, श्लोकः ६२) इति ॥ यो देवः पूर्वे मुख्यप्राणः आसीत् सः ब्रह्मा भविष्यति । एकः योग्यऋजुदेवः मुख्यप्राणः भविष्यति । तद्ब्रह्माण्डस्य सर्वे सात्त्विकमनुष्यगन्धर्वदेवादयः सात्त्विकजीवाः वैकुण्ठं गमिष्यन्ति ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे तृतीयोऽध्यायः ॥ अध्यायः ४ (Adhyaaya 4) ===================================================== सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि महामुने । एकार्णवं भवत्येव त्रैलोक्यमखिलं ततः ॥ १ ॥ मुखनिःश्वासजो विष्णोर्वायुस्ताञ्जलदांस्ततः । नाशयित्वा तु मैत्रेयवर्षाणामधिकं शतम् ॥ २ ॥ सर्व्वभूतमयोऽचिन्त्यो भगवान् बूतभावनः । अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ ३ ॥ विवरणम् – एतस्मिन् श्लोके पुनः भगवतः गुणानां विवरणम् अस्ति । तस्य कारणम् आदिश्च नास्तः किन्तु सः सर्वस्य कारणम् । सर्वाणि भूतानि तेन हि सन्ति उपजीवन्ति च । घटे जल इव सर्वे जीवाः प्रकृतिश्च भगवति वसन्ति इत्युक्तः । पञ्चमस्य अध्यायस्यान्ते एतस्य पूर्णविवरणम् अस्ति ॥ एकार्णावे ततस्तस्मिन् शेषशय्यास्थितः प्रभुः । ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ॥ ४ ॥ जनलोकगतैः सिद्धेः सनकाद्यैरभिष्टुतः । ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुबिः ॥ ५ ॥ आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । आत्मानं वासुदेवाख्यं चिन्तयन्परमेश्वरः ॥ ६ ॥ एष नैमित्तिको नाम मैत्रेय प्रतिसञ्चरः । निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ ७ ॥ यदा जागर्त्ति विश्वात्मा स तदा चेष्टते जगत् । निमीलत्येतदखिलं योगशय्याशयेऽच्युते ॥ ८ ॥ पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत् । एकार्णावाप्लुते लोके तावती रात्रिष्यते ॥ ९ ॥ ततः प्रबुद्धो रात्र्यन्ते पुनस्सृष्टिं करोत्यजः । ब्रह्मस्वरूपधृग्विष्णुर्यथा ते कथितं पुरा ॥ १० ॥ विवरणम् – जगतः सर्गः ब्रह्मणा तस्यान्तर्यामिना श्रीविष्णुना कृतः । एतत् श्रीविष्णुपुराणस्य प्रथमांशस्य पूर्वाध्यायेषु वर्णितम् । अत्र वर्णितः प्रळयः नैमित्तिक इत्युक्तः यः ब्रह्मणः दिनस्यान्ते क्रियिष्यते । ब्रह्मणः आयुष्यस्यान्ते प्राकृतिकप्रळयः क्रियिष्यते । तस्मिन् सर्वे लोकाः ब्रह्मा च म्रियन्ते । सर्वे सात्त्विकाः जीवाः विमुक्तिं लभन्ते । सर्वाणि तत्त्वानि महत्प्रकृतिपर्यन्त संयोगं लभन्ते । पूर्वे यः मुख्यप्राणः आसीत् सः नूतनब्रह्मा भविष्यति । विष्णोः नाभेः जात्वा सः पुनः सृष्टिं करिष्यति । नैमित्तिकप्रळयस्य प्राकृतिकप्रळयस्य च कालेषु जगति जलमस्ति । अन्यानि भूतानि निद्रां करिष्यन्ति अतः तस्मिन् काले श्रीविष्णुः एव चेतनव्यक्तिः । अतः तस्य नाम 'नारायण' इति यस्य अयनं जलम् । 'आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः' इति विष्णुपुराणे (अंशः १, अध्यायः ४, श्लोकः ६) ॥ 'नराज्जातानि तत्वानि नाराणीति ततो विदुः । तान्येव चायनं तस्य तेन नारायणः स्मृतः' इति महाभारते (अनुशासनपर्वे, अध्यायः १८६, श्लोकः ७; श्रीवेदान्तदेशिकेन उद्धृतः, रहस्यत्रयसारे, अध्यायः २७) ॥ 'आपो नारा इति प्रोक्तास्तासां नाम कृतं मया । तेन नारायणप्युक्तो मम तत्त्वयनं सदा ॥ अहंनारायणो नाम प्रभवः शाश्वतोऽव्ययः। विधाता सर्वभूतानां संहर्ता च द्विजोत्तम' इति महाभारते (वनपर्वे, अध्यायः १९२, श्लोकौ ३-४) ॥ नारायण इति श्रीविष्णोः विशेष नाम । अष्टाध्यायिसूत्रानुसारेण तत् सञ्ज्ञा उच्यते । एतच्छब्दस्य शताधिकार्थाः सन्ति ये श्रीविष्णोरनेकगुणान् सूचयन्ति । एतेषां विवरणं श्रीविजयीन्द्रतीर्थेन 'नारायणशब्दनिर्वचनम्' इति नाम ग्रन्थेऽस्ति । 'न तु नारायणादीनां नाम्नामन्यत्र सम्भवः । अन्यनाम्नां गतिर्विष्णुरेक प्रकीर्तितः' इति स्कन्दपुराणे (हारितस्मृत्यामपि, अध्यायः ७, श्लोकः ५७; श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मसूत्रभाष्ये, अध्यायः १, पादः ३, सूत्रम् ३; श्रीकृष्णब्रह्मतन्त्रपरकालेन रत्नप्रकाशिके; श्रीभट्टोजिदीक्षितेन, तत्त्वकौस्तुभे, अध्यायः १, पादः ३, सूत्रम् ३) ॥ ततः जगतः आदेः विवरणे– 'एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमाः' इत्युक्तं महोपनिषदि (श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मषुत्रभाष्ये, अध्यायः २, पादः २, सूत्रम् ३७; श्रीरामानुजाचार्येण, तस्य ब्रह्मषुत्रभाष्ये, अध्यायः २, पादः २, सूत्रम् ३६) ॥ 'एको नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वासमचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्राः' इति पैङ्गिरहस्यब्राह्मणे (श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मषुत्रभाष्ये, अध्यायः १, पादः २, सूत्रम् २३; श्रीमधुसूदनसरस्वतिना, अद्वैतसिद्धौ) ॥ एतत् पद्मपुराणेऽपि शिवेनोक्तं यदेतेषां मन्त्राणाम् उपबृंहणं– 'जगत्स्वजठरे कृत्वा शेते तस्मिन्सनातनः । आसीदेको हि वै चात्र विष्णुर्नारायणोऽच्युतः ॥ न ब्रह्मा न च रुद्रश्च न देवा न महर्षयः । नेमे द्यावापृथिव्यौ च न सोमो न च भास्करः ॥ न नक्षत्राणि लोकाश्च न चाण्डं महदावृतम् । यस्माज्जगद्वृतं तेन सकलं हरिणा शुभे ॥ सृष्टं पुनस्तथा सर्गे तस्मान्नारायणस्स्मृतः' (पद्मपुराणे, उत्तरखण्डे, अध्यायः २२६, श्लोकाः ८८-९१) इति ॥ इत्येष कल्पसंहारोऽवान्तरप्रलयो द्विज । नैमित्तिकस्ते कथितः प्राकृतः शृण्वतः परम् ॥ ११ ॥ अनावृष्ट्याग्निसम्पर्कात् कृते सङ्क्षालने मुने । समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ १२ ॥ महदादेर्विकारस्य विशेषान्तस्य सङ्क्षये । कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसञ्चरे ॥ १३ ॥ आपो ग्रसन्ति वै पूर्व्वं भूमेर्गन्धात्मकं गुणम् । आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ १४ ॥ प्रनष्टे गन्धतन्मात्रेऽभवत् पृथ्वी जलात्मिका । रसाज्जलं समुद्रभूतं तस्माज्जातं रसात्मकम् ॥ १५ ॥ आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः । सर्व्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च । सलिलेनैवोर्म्मिमता लोका व्याप्ताः समन्ततः ॥ १६ ॥ अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः । नश्यन्त्यापस्ततस्ताश्च रसतन्मात्रसङ्क्षयात् ॥ १७ ॥ ततश्चापो हृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै । अग्न्यवस्थे तु सलिले तेजसा सर्व्वतो वृते ॥ १८ ॥ स चाग्निः सर्व्वतो व्याप्य आदत्ते तज्जल तदा । सर्व्वमापूर्य्य तेजोभिस्तदा जगदिदं शनैः ॥ १९ ॥ अर्च्चिर्भिः संवृते तस्मिन् तिर्य्यगूर्ध्वमधस्तथा । ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥ २० ॥ प्रलीने च ततस्तस्मिन् वायुभूतेऽखिलात्मनि । प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः ॥ २१ ॥ प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् । निरालोके तदा लोके वाय्ववस्थे च तेजसि ॥ २२ ॥ ततस्तु मूलमासाद्य वायुस्सम्भवमात्मनः । ऊध्वञ्चाधश्च तिर्य्यक्च दोधवीति दिशो दश ॥ २३ ॥ वायोरपि गुणं स्पर्शमाकाशो ग्रसते पुनः । प्रशाम्यति ततो वायुः खं तु तिष्ठत्यनावृतम् ॥ २४ ॥ अरूपमरसमस्पर्शमगन्धं न च मूर्त्तिमत् । सर्व्वमापूरयच्चैनत् सुमहत् सम्प्रकाशते ॥ २५ ॥ परिमण्डल तत्सुषिरमाकाशं शब्दलक्षणम् । शब्दमात्रं तदाकाशं सर्व्वमावृत्य तिष्ठति ॥ २६ ॥ ततश्शब्दगुणं तस्य भूतादिर्ग्रसते पुनः । भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै ॥ २७ ॥ अभिमानात्मको ह्येष भूतादिस्तामस्स्मृतः । भूतादिं ग्रसते चापि महान् वै बुद्धिलक्षणः । उर्व्वी महांश्च जगतः प्रान्तेऽन्तर्बाह्यतस्तथा ॥ २८ ॥ एवं सप्त महाबुद्धे क्रमात्प्रकृतयस्स्मृताः । प्रत्याहारे तु तास्सर्व्वाः प्रविशन्ति परस्परम् ॥ २९ ॥ येनेदमावृतं सर्व्वमण्डमप्सु प्रलीयते । सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ॥ ३० ॥ विवरणम् – महाप्रळयकाले सर्वाणि भूतानि निरीहानि भविष्यन्ति । महाभारतस्य मोक्षधर्मपर्वस्य एतस्मिन् भागे महाप्रळयः वर्णितः । अत्र तत्त्वानि इति विश्वस्य सर्वाणि वस्तूनि । एकस्य एकस्य तत्त्वस्य अभिमानिदेवता अस्ति । एते देवाः तेषाम् अग्न्यापस्वाय्वादीनां तत्त्वानां सर्वाणि कणेषु वसति । तत्त्वानां तारतम्यम् अस्ति यत् तेषां देवानामपि तारतम्यम् । नैमित्तिकप्रळयकाले लोकाः भविष्यन्ति किन्तु जले आप्लुताः । तेषां वासिनः विनशिष्यन्ति । किन्तु प्राकृतिकप्रळयकाले सर्वलोकाः तत्त्वानि च विनशिष्यन्ति । 'धरण्यामथ लीनायामप्सु चैकार्णवे पुरा । ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥ वायौ चाकाशसंलीने आकाशे च मनोनुगे । व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ॥ अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च । तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन ॥ तमसो ब्रह्मसंभूतं तमोमूलमृतात्मकम् । तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमाश्रितम् ॥ सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते । तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम ॥ विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः । आदिकर्ता स भूतानामप्रमेयो हरिः प्रभुः ॥ अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः । जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् ॥ तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः । अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः । हिरण्यगर्भो भगवान्सर्वलोकपितामहः ॥ पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः । सहस्रपत्रे द्युतिमानुपविष्टः सनातनः ॥ ददृशेऽद्भुतसङ्काशो लोकानाप्याययन्प्रभुः । सत्वस्थः परमेष्ठी स ततो भूतगणान्सृजन्' इति महाभारते (शान्तिपर्वे, अध्यायः ३५७/३४८, श्लोकाः १४-२३) ॥ सर्वेषां जीवानां ब्रह्मा उत्तमः । किन्तु सोऽपि विष्णोरधमः विष्णुना जीवति च । तस्य अन्यदेवमनुष्यमृगासुरादीनां सर्वेषां भूतानाञ्च धाता विष्णुः एव । ते सृष्टिकाले परमात्मनः जायन्ते प्रळयकाले तस्मिन् प्रलीयन्ते । श्वेताश्वतरोपनिषदि (अध्यायः ६ मन्त्रः १६) परमात्मा 'कालकालः' इत्युक्तः । महोपनिषदाद्यानुसारेण केवल श्रीविष्णुः आदौ आसीत् तस्यानन्तरं अन्यदेवताः तस्माज्जायन्ते । 'नारायणाद्ब्रह्मा जायते । नारायणाद्रुद्रो जायते । नारायणादि॑न्द्रो जायते । नारायणात्प्रजापतयः प्रजायन्ते' इति नारायणोपनिषदि (खण्डः १) ॥ अतः श्रीविष्ण्वेव साक्षाद्रूपेण नित्यः न अन्यतत्त्वानि नित्यानि च । अन्यानि तत्त्वानि नित्यानि वा अनित्यानि वा ते सर्वाणि श्रीविष्णोरनुग्रहेण एव सन्ति ॥ उदकावरणं यत्तु ज्योतिषा पीयते तु तत् । ज्योतिर्वायौ लयं याति यात्याकाशे समीरणः ॥ ३१ ॥ आकाशञ्चैव भूतादिर्ग्रसते तं तदा महान् । महान्तमेभिस्सहितं प्रकृतिर्ग्रसते द्विज ॥ ३२ ॥ गुणसाम्यमनुद्रिक्तमन्यूनञ्च महामुने । प्रोच्यते प्रकृतिर्हेतुः प्रधानं काराण परम् ॥ ३३ ॥ इत्येषा प्रकृतिः सर्व्वा व्यक्ताव्यक्तस्वरूपिणी । व्यक्तस्वरूपमव्यक्ते तस्मिन् मैत्रेयलीयते ॥ ३४ ॥ एकश्शुद्धोऽक्षरो नित्यस्सर्वव्यापी तथा पुमान् । सोऽप्यंशस्सर्वभूतस्य मैत्रेय परमात्मनः ॥ ३५ ॥ विवरणम् – एतेषु श्लोकेषु प्रकृतिपुरुषयोः विवरणमस्ति । प्रकृतिः जडवस्तूनि इति । येन परमात्मा जगच्चिकेति तस्यांशः पुरुषः । प्रकृतिः अव्यक्ता इत्यपि उच्यते । पूर्वश्लोके व्यक्ततत्त्वानि अव्यक्तप्रकृत्यां प्रलीयन्ते इत्युक्तम् । सर्वेषां तत्त्वानां पुरुषः परः प्रकृतेः अपि परः । एवं कठोपनिषदि उक्तम् । प्रकृतेः अभिमानिदेवता लक्ष्मीदेवी । पुरुषतत्त्वस्याभिमानी श्रीविष्णुः । किन्तु विष्णुः सर्वेभ्यः तत्त्वेभ्यः परः । एतत् मुद्गलोपनिषद्यपि उक्तम् । 'महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्न परः किञ्चित्सा काष्ठा सा परा गतिः' इति (कठोपनिषत्, अध्यायः १, वल्ली ३, मन्त्रः ११) ॥ ततः प्रकृतिः जगतः कारणा किन्तु परमात्मा प्रकृतेः अपि कारणः । 'यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यससर्ज भूम्याम्' इति (महानारायणोपनिषत्, अनुवाकः १, मन्त्रः ४; श्रीमध्वाचार्येण उद्धृतः, तस्य भगवद्गीताभाष्ये, अध्यायः ९, श्लोकः १०) ॥ 'तस्माद्विराडित्यनया पादनारायणाद्धरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता' इति (मुद्गलोपनिषत्, मन्त्रः ५) ॥ अतः पुरुषः परमात्मनः एकांशः उच्यते । परमात्मा सर्वेषामपि अभिमानी अतः सः सर्वः इत्युक्तः । अग्रिमेषु श्लोकेषु परमात्मा वर्णितः ॥ न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः । सत्तामात्रात्मके ज्ञये ज्ञानात्मन्यात्मनः परे ॥ ३६ ॥ विवरणम् – अस्मिन् श्लोके परमात्मनः न केचिद् नामादिगुणाः सन्ति इत्युक्तम् । किन्तु शास्त्रेष्वन्यत्र परमात्मनः अनेकनामगुणादीनि अस्ति इत्युक्तम् । सर्वाणि नामरूपादीनि परमात्मनः समुत्पद्यन्ते । एतेन अर्थेन एतेषां वाक्यानां विरोधं क्रियते । 'देवतिर्य्यङ्मनुष्यादौ पुन्नाम्नि भगवान् हरिः । स्त्रीनाम्नि लक्ष्मीमैत्रिय नान्योर्विद्यते परम्' इति विष्णुपुराणे (अंशः १ अध्यायः ८ श्लोकः ३२; हारितस्मृत्याम्, अध्यायः ७, श्लोकः ५६; शेषसंहितायाम्; नन्दिपुराणे, अध्यायः ३, श्लोकौ ५५-५६; स्कन्दपुराणे, वैष्णवखण्डे, पुरुषोत्तमजगन्नाथमाहात्म्यनाम भागे, अध्यायः १९, श्लोकः १५) ॥ 'यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या' (ऋग्वेदे, शाकलसंहितायां, मण्डलं १०, सूक्तः ८२, मन्त्रः ३) इति ॥ एतस्य सम्यगर्थः ब्रह्मपुराणेऽस्ति । 'अनामासोऽप्रसिद्धत्वादरूपो भूतवर्जनात्' इति ब्रह्मपुराणे (श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मसूत्रभाष्ये, अध्यायः १, पादः ३, सूत्रम् ४१) ॥ भगवतः न प्राकृतिकगुणाः सन्ति तं न अस्माकं कल्पनया ज्ञातव्यम् इत्येतस्य श्लोकस्य तात्पर्य्यम् । तस्य न केचित् प्राकृतिकगुणाः सन्ति । सोऽपि न लक्ष्म्या अन्यदेवताभिश्च परिज्ञेयः ॥ तद्ब्रह्म परमं धाम परमात्मा स चेश्वरः । स विष्णुः सर्वमेवेदं यतो नावर्त्तते यतिः ॥ ३७ ॥ प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ॥ ३८ ॥ परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुर्नाम्ना स वेदेषु वेदान्तेषु च गीयते ॥ ३९ ॥ विवरणम् – एषः श्लोकः श्रीयामुनाचार्येण आगमप्रमाण्ये (वाक्यम् ८१) उद्धृतः । श्रीविष्णोः परत्वं केवलं सर्वेषां शास्त्राणां तात्पर्य्यं सैव परमात्मा परमगतिश्च इत्येषः सूचयति । 'वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते' इति हरिवंशे (भविष्यपर्वे, अध्यायः १३२, श्लोकः ९५; श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मसूत्रभाष्ये, अध्यायः १, पादः १, सूत्रम् १) ॥ प्रवृत्तञ्च निवृत्तञ्च द्विविधं कर्म्म वैदिकम् । ताभ्यामुभाभ्यां पुरुषैस्सर्वमूर्त्तिस्स इज्यते ॥ ४० ॥ ऋग्यजुस्सामभिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ । यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः ॥ ४१ ॥ ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्त्तिः स चेज्यते । निवृत्ते योगिभिर्मार्गे विष्णुर्मुक्तिफलप्रदः ॥ ४२ ॥ ह्रस्वदीर्घप्लुतैर्यत्तु किञ्चिद्वस्त्वभिधीयते । यच्च वाचामविषयं तत्सर्वं विष्णुरव्ययः ॥ ४३ ॥ व्यक्तस्स एव चाव्यक्तस्स एव पुरुषोऽव्ययः । परमात्मा स विश्वात्मा विश्वरूपधरो हरिः ॥ ४४ ॥ व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिस्सम्प्रलीयते । पुरुषश्चापि मैत्रेय व्यापिन्यव्याहतात्मनि ॥ ४५ ॥ द्विपरार्द्धात्मकः कालः कथितो यो मया तव । तदहस्तस्य मैत्रेयविष्णोरीशस्य कथ्यते ॥ ४६ ॥ व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा । तत्र स्थिते निशा चान्या तत्प्रमाणा महामुने ॥ ४७ ॥ नैवाहस्तस्य न निशा नित्यस्य परमात्मनः । उपचारस्तथाप्येष तस्येशस्य द्विजोच्यते ॥ ४८ ॥ इत्येष तव मैत्रेयकथितः प्राकृतो लयः । आत्यन्तिकमितो ब्रह्मन्निबोध प्रतिसञ्चरम् ॥ ४९ ॥ विवरणम् – अग्रिमेऽध्याये आत्यन्तिकप्रळयः वर्णितः यः मोक्षः भक्तिश्च । भक्तिः मोक्षस्यविधिः येन संसारस्य दुःखानि एकव्यक्तये प्रलीयन्ते । सः न कश्चिद् भौतिकप्रळयः किन्तु भगवतः लोके वासः यः एकेकव्यक्तये विशेषः ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे चतुर्थोऽध्यायः ॥ अध्यायः ५ (Adhyaaya 5) ===================================================== श्रीपराशर उवाच आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ १ ॥ विवरणम् – यावत् एकः संसारेऽस्ति तावत् तापत्रयात् कष्टाः आगच्छन्ति । ते आध्यात्मिकः आधिदैविकः आधिभौतिकश्च इति । अग्रिमश्लोकेषु तेषां विवरणमस्ति ॥ आध्यात्मिकोपि द्विविधश्शरीरो मानसस्तथा । शरीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः ॥ २ ॥ शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥ ३ ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ ४ ॥ कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ॥ ५ ॥ मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा । इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ ६ ॥ मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश्च नृणां जायते चाधिभौतिकः ॥ ७ ॥ शीतवातोष्णवर्षांबुवैद्युतादिसमुद्भवः । तापो द्विजवरश्रेष्ठैः कथ्यते चाधिदैविकः ॥ ८ ॥ विवरणम् – ततः तापत्रयः वर्णितः । एते न वेदानां त्रयोऽर्थाः । ये आत्मानं कर्षयन्ति ते आध्यात्मिकाः उक्ताः । तेषु मानसः शरीरः इति द्विविधमस्ति । सर्वे रोगादयः शरीरः । ते सहजाः न परिहारवन्तश्च । कामक्रोधलोभादिभावाः मानसाः । ते सत्त्वरजस्तमसादि प्राकृतिकगुणेभ्यः स्वाभाविकगुणेभ्यश्च संभवाः । सत्त्वगुणः समानं सूचयति । रजोगुणः अधिकहर्षं दुःखञ्च सूचयति । तमोगुणः हिंसां दुष्टबुद्धिञ्च सूचयति । भगवद्गीतायाम् अष्टादशेऽध्याये एते वर्णिताः । एते गुणाः प्रकृतौ एकस्मिन् एकस्मिन् जीवात्मनि च सर्वदा सन्ति । सात्त्विकाः राजसाः तामसाः इति जीवानां त्रिविधम् । एतत् जीवस्य सहजगुणेभ्यः निर्णितम् । एतत् स्वभावः उच्यते । स्वभावानं दीर्घविवरणं भगवद्गीतादि शास्त्रेषु अस्ति । 'मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते' इति भगवद्गितायाम् (अध्यायः १८, श्लोकाः २६-२८) ॥ एतस्मात् व्यक्तेः स्वभावात् इच्छाः अनिच्छाश्च निर्णिताः । केचिज्जीवाः सात्त्विकाः अतः ते सहजरूपेण कारुण्यमयाः । ते भक्तिम् अध्यात्मम् अन्येजीवेभ्यः अहिंसाञ्च इच्छन्ति । अन्याः राजसाः ये धनसंपत्त्त्यादीन् लोभेन इच्छन्ति । केचिज्जीवाः स्वभावेन अधर्मम् इच्छन्ति । तैः अन्यानां दुःखात् आनन्दं रोचते । ते तामसाः । सात्त्विकजीवाः मुक्तियोग्याः । ते शीघ्रं वा अनन्तरं वा भक्तेः प्रयोगं करिष्यन्ति । अन्यमार्गेभ्यः एतत् इच्छन्ति । राजसाः नित्यकालाय सदा संसारे वसन्ति । ते न स्वभावात् भक्तिम् अथवा अध्यात्मविद्याम् इच्छन्ति । भौतिकवस्तुभ्यः ते अधिकमुख्यत्वं ददन्ति । बहुलोकेषु जायन्ते म्रियन्ते च पुनः पुनः । तेषां पुण्यपापादिकर्माणि अधिकानि न्यूनानि च इति भविष्यन्ति । ते न महान्धार्मिकाः अथवा महानधर्मिनः भविष्यन्ति । तामसाः नित्यनरकं अन्धन्तमः यान्ति । यावत् संसारे ते सन्ति तावत् सर्वैः अवकाशैः अन्यजीवेभ्यः केवल विनाशादि हिंसां करिष्यन्ति । अतः यदा ते योग्यानुसारेण पापानि करिष्यन्ति तदा अन्धन्तमः दुर्गतीं गमिष्यन्ति यस्मात्ते न कदाचित् पुनरागमिष्यन्ति । मुक्तजीवेभ्यः अनन्तानन्दः परमपदेऽस्ति । तामसजीवेभ्यः अनन्तदुःखान्यस्ति । एतानि तेषां जीवानां परिणामानि । न केवल दर्शनेन एकस्य स्वभावाः परिज्ञेयः । स्वभावः निरीहोऽपि वा अस्ति । कालेन बहुकर्मणां अवकाशैः एकस्य निजगुणाः प्रकाशिष्यन्ते । अन्ते निजगुणाः प्रकाशिष्यन्ते येभ्यः स्वभावः निर्णितः । तदन्तरं एकः तस्मिन् मार्गे गमिष्यन्ति यावत् तेषां योग्यगतिं प्राप्नुयन्ति । अतः 'न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात्' इत्युक्तं भागवतपुराणे (स्कन्धः ६, अध्यायः १, श्लोकः ५३) ॥ अत्र 'गुणैः' 'स्वाभाविकैः' च इति मुख्यशब्दौ । आत्मा जीवः यः सूक्ष्मः यस्य अस्तित्वात् शरीरः जीवति । शरीरः आत्मा च भिन्नवस्तू किन्तु एक इव कर्माणि कुरुतः । जीवस्य परमात्मनः संबन्धोऽपि एतेन सदृशः । परमात्मा परमेश्वरः यः आत्मनि वसति । अतः बृहदाराण्यकोपनिषदि अन्तर्यामि ब्राह्मणे 'य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः' (शतपथब्राह्मणे, काण्डः १४, अध्यायः ६, ब्राह्मणः ७, मन्त्रः ३०) इत्युक्तम् ॥ एषः अन्तर्यामी सुबालोपनिषदि श्रीविष्णुः समीभूतः– 'यस्याक्षरं शरीरं योऽक्षरमन्तरे संचरन् यमक्षरं न वेद ॥ यस्य मृत्युः शरीरं यो मृत्युमन्तरे संचरन् यं मृत्युर्न वेद ॥ स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः' (सुबालोपनिषद्, खण्डः ७) इति ॥ आत्मा परमात्मनः शरीरः उक्तः यतः परमात्मा आत्मानं यमयति । सर्वभूतानां विश्वस्यश्च सः कारणः । अस्माकं शरीरेभ्यः वयं दुःखस्यानुभवं कुर्वामः । किन्तु परमात्मा एतत् न करोति । सर्वेभ्यः दुःखेभ्यः सः भिन्नः । किन्तु जीवेभ्यः शरीराणां तापाः जीवं बाधन्ति । अतः तेऽपि 'आध्यात्मिकाः' इत्युक्ताः । अतः बृहदारण्यकोपनिषदि एतस्मिन् ब्राह्मणे पृथिवीप्रकृत्यादयः सर्वाणि तत्त्वानि परमात्मनः शरीराः उक्ताः । एतस्य उपबृंहणं भागवतपुराणेऽप्यस्ति । एतत् आध्यात्मज्ञानस्य भगवद्भक्त्याश्च स्पष्टज्ञानम् । 'स विश्वकायः पुरुहूत ईशः सत्यः स्वयंज्योतिरजः पुराणः' इति (भागवतपुराणे, स्कन्धः ८, अध्यायः १, श्लोकः १३) ॥ पूर्वोक्तेन अन्यतापाः आधिदैविकाः आधिभौतिकाश्च । मानसिकाध्यात्मिकतापाः विहाय अन्यतापानाम् अधिकयमनं न शक्यम् । तस्य परिहारः केवल सर्वस्थितिषु सत्त्वेन मनः समत्वम् । मानसिकतापानां यमनं बलात् कर्तव्यम् । एतेन मनुष्याः बुद्धिन्यूनपशुभिः भिन्नाः । पूर्णरूपेण एतस्य साधनार्थम् एकः अपरोक्षज्ञानस्य प्राप्तिं कुर्यात् । एतत् आध्यात्मज्ञानस्य भगवद्भक्त्याश्च स्पष्टज्ञानम् । सर्वस्थितिषु सर्वकर्मसु च श्रीविष्णोः स्मरणात् शास्त्रज्ञानस्य प्रयोगाच्च अपरोक्षज्ञानस्य प्रभावस्यांशः प्राप्तव्यः । यावत् एकः न अपरोक्षज्ञानी अस्ति तावत् सः तापैः पीडितोऽस्ति दुष्कामादिदुःखाः वर्धन्ते च ॥ गर्भजन्मजराज्ञानमृत्युनारकजं तथा । दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ॥ ९ ॥ विवरणम् – एतस्मिन् जगति अशेषाः जीवाः एतान् तापान् अनुभवन्ति । शास्त्रेषु एतान्यादि वाक्यानि जीवानां दोषान् पुनः पुनः वदन्ति । किन्तु परमात्मनि न कश्चिद्दोषोऽस्ति । 'य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः' (छान्दोग्योपनिषदि, प्रपाठकः ८, खण्डः ७, मन्त्रः १) इति ॥ 'तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम्' (सुबालोपनिषदि, खण्डः ५) इति ॥ एषाः परमात्मनः जीवेभ्यः मुख्यभेदः । न केचिद् सदा अत्र वसन्ति । अशेषेषु जीवेषु जरमृत्य्वादि दोषाः सन्ति । भूलोकादधमलोकेषु सर्वेषां जीवानां पञ्चभूतमयः शरीरः अस्ति । क्षुधां तृषां चापि अनुभवन्ति । एते असदृशाः भुवरादिलोकानां वासिनां न भौतिकशरीराः सन्ति । ततस्ते एतान् क्लेशान् नानुभवन्ति । सदा तेषां साधनां भक्तिञ्च ते आचरन्ति । तस्मात् तत्रादिलोकेषु जीवनः भूलोकादिभ्यः अधिकसुलभः । तथैव जीवनस्य तापाः उपरिलोकेषु अल्पाः भवन्ति । अधमलोकेषु अधिकाः भवन्ति । किन्तु एते सर्वे व्यक्तयः ब्रह्मादिदेवाश्च अपि अनित्याः । महाप्रळयकाले तेऽपि म्रियन्ते यथा एतस्मिन्ग्रन्थे चतुर्थेऽध्याये एतेषु प्रमाणेषु च उक्तेन । 'यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे । ब्रह्मादिषु प्रलीनेषु नष्टे लोकपरावरे ॥ आभूतसंप्लवे चैव प्रलीनेऽप्राकृतो महान् । एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु' इति महाभारते (शान्तिपर्वे, अध्यायः २१०, श्लोकाः २३-२४) ॥ 'एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमाः' इति महोपनिषदि ॥ सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते । उल्वसंवेष्टितो भुग्नपृष्ठग्रीवास्थिसंहतिः ॥ १० ॥ विवरणम् – एतस्मिन् श्लोके प्राचीनकालस्य वैज्ञानिकज्ञानं दृश्यते । बहुकालात् मानवगर्भाशयः पूर्णशुद्धः इति विश्वासः आसीत् । नूतनकाले तदसत् इति सिद्धः । इदानीं गर्भाशये बहुजन्तवस्सन्ति इति सिद्धः । सहस्राणां कालानां पूर्वयेव एतद्सत्यं यथा गर्भः पीडितश्च ऋषयः ऊचुः । गर्भोपनिषद्नाम शास्त्रोऽपि अस्ति यः गर्भविज्ञानस्य बहुविषयाः वदति ये नूतनविज्ञानं न जानाति ॥ अत्यन्तकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः । अत्यन्ततापैरत्यर्थं वर्द्धमानातिवेदनः ॥ ११ ॥ प्रसारणाकुञ्चनादेर्नाङ्गानां प्रभुरात्मनः । शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥ १२ ॥ निरुच्छ्वासः सचैतन्यस्स्मरञ्जन्मशतान्यथ । आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ १३ ॥ जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः । प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ १४ ॥ अधोमुखो वै क्रियते प्रबलैस्सूतिमारुतैः । क्लेशान्निष्क्रांतिमाप्नोति जठरान्मातुरातुरः ॥ १५ ॥ मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना । विज्ञानभ्रंशमाप्नोति जातश्च मुनिसत्तम ॥ १६ ॥ कङ्कटैरिव तुन्नाङ्ग क्रकचैरिव दारितः । पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ १७ ॥ कण्डूयनेऽपि चाशक्तः परिवर्त्तेऽप्यनीश्वरः । स्नानपानादिकाहारमप्याप्नोति परेच्छया ॥ १८ ॥ अशुचिप्रस्तरे सुप्तः कीटदंशादिभिस्तथा । भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ १९ ॥ जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च । बालभावे यदाप्नोति ह्याधिभौतादिकानि च ॥ २० ॥ अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः । न जानाति कुतः कोहं क्वाहं गन्ता किमात्मनः ॥ २१ ॥ केन बन्धेन बद्धोहं कारणं किमकारणम् । किं कार्यं किमकार्यं वा किं वाच्यं किं च नोच्यते ॥ २२ ॥ को धर्मः कश्च वाऽधर्मः कस्मिन्वर्त्तेऽथ वा कथम् । किं कर्त्तव्यमकर्त्तव्यं किं वा किंगुणदोषवत् ॥ २३ ॥ एवं पशुसमैर्मुढैरज्ञानप्रभवं महत् । अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २४ ॥ विवरणम् – कामक्रोधमोहमदमात्सर्यादि दोषेभ्यः मनुष्याः प्रलब्धाः भवन्ति पशवः इव । एतत् सहजं । अतः अज्ञानिनः विज्ञानरहिताः शिश्नोदरौ उद्देशौ मन्यन्ते । अतः रहस्यत्रयसारनामग्रन्थे श्रीवेदान्तदेशिकेन– 'शिश्नोदरे ये निरताः सदैव स्तेना नरा वाक्यरुषाश्च नित्यम् । अपेतधर्मानिति तान्विदित्वा दूराद्देवः संपरिवर्जयन्ति' (महाभारते, शान्तिपर्वे, अध्यायः ३०५, श्लोकः ३६) इति श्लोकः उद्धृतः ॥ एते दोषाः न केवल मनुष्याणां पापानि यतः वयं रजोगुणस्य तमोगुणस्य च प्रभावः संसारे सदा अनुभवामः यद्यपि एते न स्वाभाविकः । एतस्मात् मनुष्याः केवल प्रगतपशवः येषु अधिकबुद्धिः प्रबुद्धमस्तिष्कश्च स्तः । किन्तु आत्मा सैव । इन्द्रियतृप्तिः मूर्खत्वं तेन न सम्यगर्थाः साधितव्याश्च इति ज्ञानं मनुष्येभ्यः एव उपलभ्यम् । एतस्मात् ते पशुभ्यः भेदिताः । भत्या एव इन्द्रियाणां यमनेन च अनन्तानन्दः प्राप्तव्यम् इति ज्ञात्वा एकः बुद्धिना सदर्थान् साधयेत् । अतः 'बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्ते तात्मैव शत्रुवत्' इत्युक्तं भगवद्गीतायाम् (अध्यायः ६, श्लोकः ६) ॥ अज्ञानं तामसो भावः कार्यारंभप्रवृत्तयः । अज्ञानिनां प्रवर्त्तन्ते कर्मलोपास्ततो द्विज ॥ २५ ॥ नरकं कर्मणां लोपात्फलमाहुर्मनीषिणः । तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २६ ॥ विवरणम् – एतेषु श्लोकेषु दीर्घसूत्रित्वस्य अपायकरत्वं वर्णितम् । तस्मात् दीर्घसूत्रित्वेन एकः पापानां चक्रे गमिष्यति यस्मात् पापैः पीडितः भविष्यति एतस्मिन् जन्मनि अन्यजन्मसु च । अतः एकः विज्ञानं प्राप्य तद् आचरेत् ॥ जराजर्जरदेहश्च शिथिलावयवः पुमान् । विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २७ ॥ दूरप्रनष्टनयनो व्योमान्तर्गततारकः । नासाविवरनिर्यातलोमपुञ्जश्चलद्वपुः ॥ २८ ॥ प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः । उत्सन्नजठराग्नित्वादल्पाहारोऽल्पचेष्टितः ॥ २९ ॥ कृच्छ्राच्चङ्क्रमणोत्थानशयनासनचेष्टितः । मन्दीभवच्छ्रोत्रनेत्रस्स्रवल्लालाविलाननः ॥ ३० ॥ अनायत्तैस्समस्तैश्च करणैर्मरणोन्मुखः । तत्क्षणेऽप्यनुभूतानामस्मर्ताऽखिलवस्तुनाम् ॥ ३१ ॥ सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः । श्वासकाससमुद्भूतमहायासप्रजागरः ॥ ३२ ॥ अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी । भृत्यात्मपुत्रदाराणामवमानास्पदी कृतः ॥ ३३ ॥ प्रक्षीणाखिलशौचश्च विहाराहारसस्पृहः । हास्यः परिजनस्यापि निर्विण्णाशेषबान्ध ॥ ३४ ॥ विवरणम् – जरस्य कठोरसत्यम् अत्र वर्णितम् । कलियुगे विशेषतया बहुजनाः न दयालवः । ते वृद्धान् न कारुण्यभावेन पालयन्ति । तथा तान् भारान् अन्याः आलोचयन्ति । बालकाः इव दुर्बलात् तेषां मुख्यकार्याण्यपि अन्येन विना न शक्यानि । किन्तु एतद् न तेषाम् अपमानार्थं वैकल्पम् । स्ववृद्धजनानां पालनं सर्वेषां सद्बुद्धानां कर्तव्यम् । तथाऽपि अन्येभ्यः कष्टनिरोधार्थं एकः जरेऽपि स्वयोग्यतेन तस्य आरोग्यस्य पालनं कुर्यात् । ततोऽपि शास्त्राणि वानप्रस्थाश्रमे प्रवेशं सूचन्ति सर्वकर्तव्यानामनन्तरम् । एतेन एकः न अन्येभ्यः भारं भविष्यति न लोकायतचिन्तने वसति च । भक्तेः प्रयोगः सदा शक्यः । अतः 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे' इति श्लोकः श्रीमध्वाचार्येण उद्धृतः श्रीकृष्णामृतमहार्णवे (श्लोकः २३८) ॥ अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् । संस्मरन्यौवने दीर्घं निश्वसत्यभितापितः ॥ ३५ ॥ एवमादीनि दुःखानि जरायामनुभूय वै । मरणे यानि दुःखानि प्राप्नोति शृणुतान्यपि ॥ ३६ ॥ श्लथग्रीवाङ्घ्रिहस्तोऽथ व्याप्तो वेपथुना भृशम् । मुहुर्ग्लानिः परवशो मुहुर्ज्ञानलवान्वितः ॥ ३७ ॥ हिरण्यधान्यतनय भार्याभृत्यगृहादिषु । एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ ३८ ॥ विवरणम् – अद्य एषः बहुनां दोषः । प्राकृतिकवस्तुभ्यः अनुबन्धनात् अहङ्कारी भूत्वा 'अहं सर्वेभ्यः अवश्यकः' इति एकः चिन्तयति अथवा अन्यव्यक्तीनां चिन्तनं मृत्युकालेऽपि करोति । भगवद्गीतायां 'यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः' (भगवद्गीतायाम्, अध्यायः ८, श्लोकः ६) इत्युक्तम् ॥ 'कर्मभिगृहमेधीयैरिष्ट्वा मामेव भक्तिमान् । तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् ॥ यस्त्वासक्तमतिर्गेहे पुत्रवित्तैषणातुरः । स्‍त्रैणः कृपणधीर्मूढो ममाहमिति बध्यते ॥ अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः । अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः ॥ एवं गृहाशयाक्षिप्तहृदयो मूढधीरयम् । अतृप्तस्ताननुध्यायन् मृतोऽन्धं विशते तमः' (भागवतपुराणे, स्कन्धः ११, अध्यायः १७, श्लोकाः ५५-५८) इति श्रीकृष्णस्य वचनानि ॥ अतः केवल भगवानस्माकं परमागतिः इति भावेन तस्य चिन्तनं पूर्णजीवने कर्तव्यम् । तथा मृत्युकालेऽपि तस्य स्मरणं शक्यते न मृतजनानां प्राकृतिकवस्तूनाञ्च । भागवतपुराणे विष्णुपुराणे च भरतमहाराज्ञः कथा वर्णिता । सः वानप्रस्थः आसीत् किन्तु हरिणेन अनुबन्धनात् मृतुकाले तस्य स्मरणाच्च सोऽपि अग्रिमजन्मनि हरिणः अभवत् । पूर्वोक्तेन अत्रोक्तेन च गृहस्थाश्रमेऽपि एकेन भक्तेः सम्यक्प्रयोगः शक्यः । न कञ्चिद् भौतिकवस्तु न कश्चिद् संबन्धश्च नित्यः किन्तु भगवदुपासनेन नित्यानन्दः प्राप्तव्यः इति सदा स्मरेत् ॥ मर्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः । शरैरिवान्तकस्योग्रैश्छिद्यमानासुबन्धनः ॥ ३९ ॥ परिवर्त्तितताराक्षो हस्तपादं मुहुः क्षिपन् । संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥ ४० ॥ निरुद्धकण्ठो दोषौघैरुदानश्वासपीडितः । तापेन महता व्याप्तस्तृषा चार्त्तस्तथा क्षुधा ॥ ४१ ॥ विवरणम् – यथोक्तं प्रश्नोपनिषदि छान्दोग्योपनिषदि मुख्यप्राणदेवः वायुः सर्वेषां जीविनः जीवकारणः । तस्य नास्तित्वात् सर्वानि सद्यः म्रियन्ते । मृतुकाले सः सर्वदेवसहितः आत्मसहितः शरीरात् गमिष्यति । एतेषां देवानाम् अस्तित्वात् हि शरीरस्य इन्द्रियाणि प्रवर्तन्ते सर्वाणुपरमाणूनां भौतिकरासायन लक्षणानि शक्यन्ते च । (मुख्य)प्राणः व्यानः उदानः अपानः समानश्च इति पञ्चप्राणाः सन्ति । तेषां अन्यदेवानाञ्च अभिमानी मुख्यप्राणः । छान्दोग्योपनिषदि बृहदारण्यकोपनिषदि स्कन्दपुराणे (वैष्णवखण्डे वैशाखमासमाहात्म्यनाम भागे अध्यायः १९) च एकस्मिन् काले देवमध्ये चर्चाम् अभवत् इत्युक्तम् । कः देवः तेषां सर्वश्रेष्ठः इति संशयः । एकेन एकेन सर्वे जीवितशरीरे तेषां कार्यान् अस्तगयन् किन्तु शरीरः न अम्रियत । किन्तु यदा प्राणः गच्छति स्म तदा शरीरः अम्रियत । 'अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तं हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति' (छान्दोग्योपनिषदि, प्रपाठकः ५, खण्डः १, मन्त्रः १२) इति ॥ 'स यथैषां प्राणानां मध्यमः प्राणः एवमेतासां देवतानां वायुः निम्लोचन्ति हान्या देवताः न वायुः सैषानस्तमिता देवता यद्वायुः' (बृहदारण्यकोपनिषदि, अध्यायः १, ब्राह्मणः ५, मन्त्रः २२) इति ॥ क्लेशादुत्क्रान्तिमाप्नोति यमकिङ्करपीडितः । ततश्च यातनादेहं क्लेश्नो प्रतिपद्यते ॥ ४२ ॥ विवरणम् – भूलोकादिष्वेव जीवस्य शरीरस्यास्तित्वात् तस्य प्राकृतिकशरीरस्य नास्तित्वाच्च नरके अन्यशरीरः दातव्यः । तथा तेन जीवः तस्य योग्यदुःखान् अनुभवति ॥ एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् । शृणुष्व नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ ४३ ॥ याम्यकिङ्करपाशादिग्रहणं दण्डताडनम् । यमस्य दर्शनञ्चोग्रमुग्रमार्गविलोकनम् ॥ ४४ ॥ करंभवालुकावह्नियन्त्रशस्त्रादिभीषणे । प्रत्येकं नरकेयाश्च यातना द्विज दुःसहाः ॥ ४५ ॥ क्रकचैः पीडयमानानां मूषायाञ्चापि दह्यताम् । कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम् ॥ ४६ ॥ शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् । गृध्रैस्संभक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥ ४७ ॥ क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे । उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ ४८ ॥ नरके यानि दुःखानि पापहेतूद्भवानि वै । प्राप्यन्ते नारकैर्विप्र तेषां सङ्ख्या न विद्यते ॥ ४९ ॥ न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः । स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ ५० ॥ विवरणम् – स्वर्गादिलोकेषु जीवनः सुलभः किन्तु तदनित्यः । यदा पुण्यानि ग्लानानि भविष्यन्ति तदा स्वर्गात् पुनरागमनम् अवश्यम् । तथा ये स्वर्गः परायणं मन्यन्ते ते मूढाः । तस्मात् भगवद्गीतायां श्रीकृष्णः अन्यदेवानां शरणागतान् अतर्जयत् यतः ते देवाः अपि जीवाः ये संसारे वसन्ति । 'कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि' इति भगवद्गीतायाम् (अध्यायः ७, श्लोकौ २० २३ च) ॥ तथा 'तेषामेकान्तिनः श्रेष्ठा ये चैवानन्यदेवताः । अहमेव गतिस्तेषां निराशीः कर्मकारिणाम्' (महाभारते, शान्तिपर्वे, अध्यायः ३५०, श्लोकः ३४; श्रीमध्वाचार्येण उद्धृतः, तस्य भगवद्गीताभाष्ये, अध्यायः १२, श्लोकः ६) इत्युक्तम् ॥ श्रीविष्णुरेव मोक्षप्रदः न अन्यदेवाः यतः ते देवापि जीवाः । इन्द्रचन्द्रसूर्यादयः स्थानानि यानि देवस्वभावसहिताः सात्त्विकजीवाः योग्यसाधनेन प्रळयस्यानन्तरं प्राप्नुवन्ति । ते न परमात्मा न मोक्षप्रदश्च । 'आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते' (भगवद्गीतायाम्, अध्यायः ८, श्लोकः १६) इति ॥ पुनश्च गर्भे भवति जायते च पुनः पुनः । गर्भे विलीयते भूयो जायमानोऽस्तमेति वै ॥ ५१ ॥ जातमात्रश्च म्रियते बालभावेऽथ यौवने । मध्यमं वा वयः प्राप्य वार्द्धके वाथ वा मृतिः ॥ ५२ ॥ विवरणम् – एतस्मिन् श्लोके जीवनस्य कटोरसत्यं वर्णितम् । सर्वाणि भूतानि कदाचिद् म्रियिष्यन्ते । यस्मिन् काले मृत्युः आगमिष्यति तदज्ञातः । अतः सर्वकालेषु कलियुगे विशेषतया एकः भक्त्यादि साधनानि कुर्यात् भगवान्तं स्मरेच्च सदा । विवेकेनैव समयस्योपयोगं कर्यात् ॥ यावज्जीवति तावच्च दुःखैर्नानाविधैः प्लुतः । तं तु कारणपक्ष्मौघैरास्ते कार्पासबीजवत् ॥ ५३ ॥ द्रव्यनाशो तथोत्पत्तौ पालने च सदा नृणाम् । भवन्त्यनेकदुःखानि तथैवेष्टविपत्तिषु ॥ ५४ ॥ यद्यत्प्रीतिकरं पुंसां वस्तु मैत्रेय जायते । तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ॥ ५५ ॥ कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः । क्रियते न तथा भूरि सुखं पुंसां यथाऽसुखम् ॥ ५६ ॥ विवरणम् – मनुष्यः तस्य भौतिकवस्तुसंबन्धादीन् न अधिकगौरवेन मन्येत यतः तेऽपि न भगवान् इत्येतस्य श्लोकस्य तात्पर्यम् । पतिपत्निपुत्रमित्रादिभिः एकः बद्धः भविष्यति यस्मात् विज्ञानात् दूरं गत्वा ते सम्बन्धाः अनित्याः इति एतत्सत्यं विस्मरति । 'पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः । अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा' (भागवतपुराणे, स्कन्धः ११, अध्यायः १७, श्लोकः ५३) इति ॥ अतः सुहृद्वर्गं न मन्येत न विवाहं कुर्याच्च इति न एतस्य तात्पर्यम् । शास्त्रेषु ये चतुराश्रमेषु गच्छन्ति तेभ्यः अधिकगौरवम् अस्ति । गृहस्थाश्रमः शास्त्रेषु बहुवारम् उत्तमः उक्तः यतः गृहस्थैः अन्याश्रमाः वर्धन्ते गृहस्थाः सन्न्यासिनादिभ्यः दानं ददन्ति च । 'गृहस्थ एव यजते गृहस्थस्तप्यते तपः । चतुर्माणाश्रमाणां च गृहस्थश्च विशिष्यते ॥ यथा नदी नदाः सर्वे समुद्रे यान्ति संस्थितिम् । एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षुकाः' (वासिष्ठस्मृत्याम्, अध्यायः ८, श्लोकाः १४-१६) इति ॥ तथैव 'अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा' इत्युक्तं महाभारते (आदिपर्वे, अध्यायः ९८, श्लोकः २३) ॥ 'यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि । यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः' (भागवतपुराणे, स्कन्धः ३, अध्यायः १४, श्लोकः १९) इति ॥ स्त्रीभ्योऽपि समानानुग्रहः भविष्यति यदि तासां पतयः सात्त्विकाः कारुण्यमयाः सन्ति । कार्येषु सिद्ध्यर्थं एकस्मै बहुव्यक्तीनां सहाया अवश्यका पतेः अथवा पत्न्याः विशेषतया । गृहस्थानां सम्पूर्णप्रगितिः विना कस्यचित् सहायया न शक्या । अतः एकः भक्तेः प्रयोगं कुर्यात् । सर्वकार्येषु आध्यात्मिकप्रगतेः उद्देशेन परमात्मानं चिन्तयन् तान् कुर्यात् । अन्यतां फलानि अनित्यानि इति न विस्मरेत् । इति एतस्य तात्पर्यम् । अतः एकस्य पतिः अथवा पत्नी अपि सात्त्विकः स्यात् । एतेन भक्तिः गृहस्थधर्माः समकाले दुःखरहितरूपेण शक्येते । अत्र वर्णितानुसारेण जीवस्य स्वभावानुसारेण यथा एकः अवकाशानामुपयोगं करोति तथा तस्य गतिः भवति । सर्वावस्थासु सात्त्विकाः अवकाशानाम् उत्तमोपयोगं कुर्वन्ति । राजसिकाः भौतिकवस्तूनां पालयनं कुर्वन्ति । तामसिकाः अन्येभ्यः दुःखानि कुर्वन्ति ॥ इति संसारदुःखार्कतापतापितचेतसाम् । विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ॥ ५७ ॥ विवरणम् – संसारस्य कठोरसत्यम् एतस्मिन् श्लोके वर्णितम् । काश्चिद् भौतिकसिद्धयः सन्ति वा ताः न भक्तिज्ञानयोः समाः । अशेषाः जीवाः आनन्दं मृगयन्ति । अज्ञानप्रभावात् जीवः दुष्चक्रे गमिष्यति धनमद्यादिवस्तुभिः सुखप्राप्त्यार्थं प्रयत्नं करिष्यति च । एतैः प्राप्तव्यः आनन्दः अनित्यः । एतेन उदाहरेण एतद्वर्णितम् । संसारे जीवः सूर्यकान्तिसहितायां मरुभूम्यां मनुष्यः इव । छायायाः निरीक्षणेन छायायां विश्रामं करिष्यति । किन्तु छाया बृहत्सर्पस्य शिरसः छाया । तथा संसारे सुखस्य अन्वेषणम् । अतः प्रबुद्धव्यक्तिः न केवल भौतिकवस्तुभिः आनन्दप्राप्तेः प्रयत्नान् कुर्यात् । किन्तु एतस्य अर्थः न एकः सर्वान् त्यक्त्वा सन्न्यासी अथवा वानप्रस्थः भवेत् इत्यपि । भौतिकवसंबन्धादिभिः बद्धः न भवेत् इति । केवल विष्णुभक्तिः परमानन्दप्रदा इति स्मृत्वा तेषाम् उपयोगं आध्यात्मिकप्रगतययेव कुर्यात् । एतेन विधिना सन्न्यासधर्मस्य प्रयोगम् कुर्यात् ॥ तदस्य त्रिविधस्यापि दुःखजातस्य वै मम । गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥ ५८ ॥ निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ ५९ ॥ विवरणम् – तथा भगवदनुग्रहः एव परमः उद्देशः यस्मै प्रयत्नाः कर्तव्याः यस्मात् एकः अनन्तानन्दं प्राप्नोति च । भगवानेव जीवस्य परमसुहृद् । अतः परमात्मा श्रीविष्णुरेव सर्वेषां पिता माता मित्रः इत्युक्तः । 'माता पिता भ्राता निवासः शरणं सुहृद्गतिर्नारायणो' इति सुबालोपनिषदि (खण्डः ६) ॥ 'सर्वेषामेव भूतानां पिता माता च माधवः। गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः' (महाभारते, वनपर्वे, अध्यायः १९२, श्लोकः ५६) इति ॥ 'सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः' (भागवतपुराणे स्कन्धः १० अध्यायः ४३ श्लोकः ४२) इति ॥ एषः न केवल मोक्षात् प्राप्तव्यं किन्तु भक्त्याः उपफलम् । तस्य नामोच्चारणादिभिः शास्त्राणां विधिभिः तस्य अर्चनात् विज्ञानस्य प्रयुक्त्याश्च एकः आध्यात्मिकानन्दम् अवाप्नोति सर्वावस्थास्वपि सुखी भवति च । पूर्णरूपेण एतां स्थितिं प्राप्या एकः अपरोक्षज्ञानी भविष्यति । किन्तु एतस्य पूर्वेऽपि परमात्मनः अर्चनात् तदानन्दस्यांशस्य अनुभवः शक्यः । तथा 'विकस्यापराधेन यथा नौर्विनिवर्तते । एवं मद्धक्त्यपायेन संसारोऽस्य विवर्धते ॥ तस्मादविकला भक्तिर्मद्गता देहिनां गतिः । तस्या एव विभूत्यर्थं सर्वमन्यत्पितामह ॥ यः पूजयति मां नित्यं यदुदाहरति स्तवम् । यो ध्यायति च मामेव तेन भक्तिर्विवर्धते ॥ भक्तावविद्यमानायां प्रयत्नः सुमहानपि । लोकाडम्बरमेव स्याद्फलं प्रेत्यचेहच ॥ तस्मात्सर्वं प्रयत्नेन भक्तिमेव विवर्धयेत् । सा तु वृद्धा नयत्येव वैष्णवं परमं पदम्' इत्युक्तं परमसंहितायाम् (अध्यायः ३०, श्लोकः ३१-३५) ॥ 'भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव' इति भगवद्गीतायाम् (अध्यायः १८ श्लोकाः ५५-५७) ॥ 'सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे' इति (भगवद्गीतायाम्, अध्यायः १८, श्लोकौ ६४-६५) ॥ एवं उपायेन एकदा भगवद्भक्तः कर्मयोगी-ज्ञानयोगी-भक्तियोगी च स्यात् ॥ तस्मात्तत्प्राप्तये यत्नः कर्त्तव्यः पण्डितैर्नरैः । तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ॥ ६० ॥ विवरणम् – भगवत्प्राप्तिः एकस्य परमोद्देशः भवेत् इत्येतेन श्लोकेन स्पष्टम् । भौतिकसंपत्त्याः तामसबुद्धेः च मौल्यं न सात्त्विकबुद्धिना श्रीनारायणशरणसमम् । अतः ये पण्डिताः एतज्ज्ञात्वा अन्येभ्योऽपि एतत् समादिशेत् । परमासंहितायां दशमेऽध्यायेऽपि एवं एतद्वर्णितम् । एतस्मिन् अध्याये योगस्य विषयोऽपि पूर्णरूपेण वर्णितः । 'ज्ञानानं खलु सर्वेषां योगज्ञानं विशिष्यते । योगज्ञानाद्धिकैवल्यं प्राप्नोति परमं सुखम् ॥ केवलं तु कृतं कर्म योगज्ञानाद्विना नृभिः । न कुर्याद्विपुलां सिद्धिं तस्माद्योगं समाश्रयेत् ॥ स तु ज्ञानाक्रियाभेदाद् द्विविधः शास्त्रचोदितः । कर्मणां संविभागाच्च वैरूप्यान्मनसस्तथा ॥ ज्ञानयोगो भवत्येकः कर्मयोगः परःस्मृतः । यत्करोति समाधानं चित्तस्य विषये क्वचित् ॥ अनाकुलमसङ्क्षोभं स योग इति कीर्त्यते' इति (परमसंहितायाम्, अध्यायः १०, श्लोकाः २-६) ॥ शास्त्रेषु बहुभागेषु केवल भक्त्या मुक्तिः शक्यते इत्युक्तम् । किन्तु एतस्मिन् श्लोकेः ज्ञानकर्मावपि मोक्षार्थम् अपेक्षितौ इत्युक्तम् । किमर्थम्? । एतस्य उत्तरं भक्त्याः अर्थात् प्राप्यम् । 'माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्नचान्यथा' इति नारदपञ्चरात्रेषु (श्रीमध्वाचार्येण उद्धृतः महाभारततात्पर्यनिर्णये अध्यायः १ श्लोकः ८५; श्रीवल्लभाचार्येण, तत्त्वार्थदीपनिबन्धे) ॥ परमसंहितायाः अग्रिमश्लोकेषु एतत् स्पष्टरूपेण वर्णितम् । 'यदि कर्माणि बध्नाति चित्तमस्खलितं नरः ॥ कर्मयोगो भवत्येषः सर्वपाप प्रणाशनः । यदि तु ज्ञानैवार्थे चित्तं बध्नाति निर्व्यथः ॥ ज्ञानयोगः स विज्ञेयः सर्वसिद्धिकरः शुभः । उभयोर्योगयोर्यस्य न चित्तं विन्दतिव्यथाम् ॥ स तत्पदमवाप्नोति यद्विष्णोः प्रथितं पदं । उभयस्यापि योगस्य देव एव निबन्धनः' इति परमसंहितायाम् (अध्यायः १०, श्लोकाः ६-९) ॥ 'एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः । भक्तियोगो भगवति तन्नामग्रहणादिभिः' इति भागवतपुराणे (स्कन्धः ६, अध्यायः ३, श्लोकः २२) ॥ अत्र भक्त्याः प्रयोगाय भगवतः ज्ञानम् आवश्यकम् इति स्पष्टम् । एतत् शास्त्रेभ्यः भगवतः नामोच्चारणाद्यर्चनविधिभ्यः प्राप्तव्यम् । यस्य न किञ्चिद् भगवद्ज्ञानमस्ति तस्य भगवद्भक्तिः ह्यवश्यः न शक्यते । तस्य पूजार्थं भगवत्प्रभावानुभवार्थञ्च भगवतः ज्ञानम् आप्त्वा तज्ज्ञानस्य प्रयुक्तिं कुर्यात् । विज्ञानं विना एकेन आध्यात्मिकस्य प्रयुक्तिः न शक्यते । अतः ज्ञानं भक्तये मुख्यावश्यकम् । तथा कर्मापि यद्भगवदनुग्रहार्थं अपरोक्षज्ञानार्थञ्च आवश्यकम् । एतस्मिन् श्लोके 'हेतुः' इति शब्दः एकवचनेऽस्ति न द्विवचने अथवा बहुवचने यतः ज्ञानं कर्म च भक्तेरंशौ । भक्तिः परमात्मनः अनुग्रहार्थं आवश्यका । भगवद्गीतायां भक्तिज्ञानकर्मादीनां योगविधीनां विवरणानि सन्ति । किन्तु वास्तवत्वे एतानि सर्वाणि समानि यतः भक्तेः अंशद्वयं कर्म ज्ञानञ्च । शास्त्रेष्वपि ज्ञानं विना कर्तव्यानां पालनं विना च केवल भगवदाराधनात् मोक्षः शक्यः इति कल्पना विवर्णिता । तस्मात्– 'ज्ञानं क्रियेति द्विविधं चेष्टितं सर्वदेहिनाम् । ज्ञानाधिक्याद्विमुक्तिः स्यात् कर्माधिक्यात्तु संसृतिः ॥ परिमाणन्वितं कर्म परिमेयफलं मतम् । आद्यन्तिकफलं ज्ञानं परिमाणस्य कामनात्' (परमसंहितायाम्, अध्यायः १, श्लोकौ ६३-६४) इत्युक्तम् ॥ 'नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः' (भगवद्गीतायाम्, अध्यायः १८, श्लोकः ७) इति ॥ 'न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म गुणैः स्वाभाविकैर्बलात्' (भागवतपुराणे, स्कन्धः ६, अध्यायः १, श्लोकः ५३) इति ॥ पद्मपुराणे श्रीशिवस्स्वयम् उक्तवान् ज्ञानं विना मोक्षप्राप्तेः कल्पना असत्यम् इति । विज्ञानायोग्येभ्यः मोहार्थम् एव एतदुक्तम् । 'परमो विष्णुरेवैकस्तज्ज्ञानं मुक्तिसाधनम् । शास्त्राणां निर्णयस्त्वेषस्तदन्यन्मोहनाय च ॥ दानं विना च या मुक्तिः साम्यं च मम विष्णुना । तीर्थादिमात्रतो ज्ञानं ममाधिक्यं च विष्णुतः ॥ अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा । इत्यादि सर्वमोहाय कथ्यते सति नान्यथा । तेनाद्वितीय महिमो जगत्पूज्योऽस्मि पार्वति' इति पद्मपुराणे (उत्तरखण्डे, अध्यायः ७१, श्लोकाः ११४-११६; श्रीमध्वाचार्येण उद्धृतः, महाभारततात्पर्यनिर्णये, अध्यायः १) ॥ श्रीयाज्ञवक्ल्यमहर्षिरपि 'ज्ञानान्मोक्षो जायते राजसिंह नास्त्यज्ञानादेवमाहुर्नरेन्द्र । तस्माज्ज्ञानं तत्त्वतोऽन्तेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः ॥ प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छूद्रादपि नीचादभीक्ष्णम् । श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं जन्ममृत्यू विशेताम्' इत्युक्तवान् महाभारते (शान्तिपर्वे, अध्यायः ३२३/३१९, श्लोकौ ८७-८८) ॥ आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते । शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥ ६१ ॥ विवरणम् – अत्र शास्त्राणि तेषां अन्यनामेन 'आगमाः' इत्युक्तानि । यः आगतवान् सः 'आगम' इत्युक्तः । यतः शास्त्राणि गुरुपरम्परया भगवद्देवऋष्यादिभ्यः आगच्छन् अतः ते इत्युक्ताः । सामान्येन तन्त्रशास्त्रः 'आगमः' इत्युक्तः । विज्ञानं 'सदागम' इति प्रोक्तेभ्यः विशेषशास्त्रेभ्यः एव प्राप्तव्यम् इति श्रीमध्वाचार्येण विष्णुतत्त्वविनिर्णयनामग्रन्थे वर्णितम् । 'ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम् । मूलरामायणं चैव शास्त्रमित्यभिदीयते ॥ यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् । अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत्' इति स्कन्दपुराणे (श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मसूत्रभाष्ये, अध्यायः १, पादः १, सूत्रम् ३; स्कन्दपुराणे, वैष्णवखण्डे, वैशाखमासमाहात्म्यनाम भागे, अध्यायः १९, श्लोकः १२ सदृशम्) ॥ 'वेदैश्च पञ्चरात्रैश्च भक्त्या यज्ञैस्तथैव च । दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि' इति वराहपुराणे (अध्यायः ६६, श्लोकः १८; श्रीमध्वाचार्येण उद्धृतः, तस्य मुण्डकोपनिषद्भाष्ये, मुण्डकः १, खण्डः १, मन्त्रः ५) ॥ न सर्वशास्त्राणि ज्ञानप्रदानि । केचिद् मोहार्थमेव विरचिताः यानि 'मोहशास्त्राणि' इत्युक्तानि । राजसतामसजीवानां मोहार्थं तानि भगवता अन्यदेवैश्च विरचितानि । एतेषु प्रमाणेषु इत्युक्तम् । 'एषं सृजाम्याशु योजनान् मोहयिष्यति । त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥ अतथ्यानि वितथ्यानि दर्शयस्व महाभुज । प्रकाशं कुरु चात्मानामप्रकाशं च मां कुरु' इति (वराहपुराणे, अध्यायः ७०, श्लोकौ ३५-३६; श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मसूत्रभाष्ये, अध्यायः १, पादः १, सूत्रम् १) ॥ 'त्वामाराध्य तथा शंभो गृहीष्यामि वरं सदा । द्वापरादौ युगे भूत्वा कलया मानुषादिषु ॥ स्वागमैः कल्पितैस्त्वं च जनान्मद्विमुखान्कुरु । मां च गोपय येन स्यात्सृष्टिरेषोत्तरोत्तरा' इति पद्मपुराणे (उत्तरखण्डे, अध्यायः ७१ श्लोकौ १०६-१०७; श्रीमध्वाचार्येण उद्धृतः, महाभारततात्पर्यनिर्णये, अध्यायः १, श्लोकाः ५३-५८) ॥ अतः एकस्य योग्यतानुसारेण परमात्मनः ज्ञानार्थं सदागमानां ज्ञानम् आवश्यकम् । ऋषिदेवादीनां मनुष्येभ्यः भक्त्यां भगवज्ज्ञाने च अधिकयोग्यतास्ति । तस्मात् ते सामान्यमनुष्येभ्यः पराः । तेषाम् उत्तमौ वायुः ब्रह्मा च । यथा एतेषु श्लोकेषु पूर्वेष्वपि च उक्तं तथा यज्ज्ञानं विवेकेन प्राप्तं तद्विवेकोत्थं अपरोक्षज्ञानं यत्परम् । यज्ज्ञानं शास्त्रेभ्यः प्राप्तं तदागमोत्थं अपरञ्च यदेतस्मादपरम् । शास्त्राणां ज्ञानम् अनावश्यकं ध्यानेन साधनेन चैव ज्ञानप्राप्तिं कुर्यात् इति न कल्पनीयम् । ब्रह्मसूत्राणां तृतीयं सूत्रे अन्यग्रन्थेषु च शास्त्राणि परब्रह्मणः विज्ञानस्य सम्यग्मूलम् इत्युक्तम् । तेषां ज्ञानं विना भक्तेः प्रयोगः विवेकोत्थज्ञानस्य प्राप्तिश्च न शक्येते । 'ॐ शास्त्रयोनित्वात् ॐ' (ब्रह्मसूत्राणि, अध्यायः १, पादः १, सूत्रम् ३) ॥ अग्रिमश्लोके शास्त्रज्ञानम् 'अपरम्' इत्युक्तम् । यथा सूर्यस्य अपेक्षया दीपस्य ज्योतिः तथा विवेकोत्थज्ञानस्य अपेक्षया आगमोत्थज्ञानम् इत्युक्तम् । किन्तु यदि एकः केवल शास्त्राणां वाक्यानि स्मरन् तेषाम् सम्यक्प्रयोगं न करिष्यति तर्हि तत् व्यर्थम् इत्यस्य सूचनमेव एतदर्थवादस्य उद्देशः । तथा शास्त्रज्ञानं यस्य उद्देशः अपरोक्षज्ञानप्रदानं तज्ज्ञानं व्यर्थं भविष्यति । अतः अग्रिमश्लोके शब्दब्रह्माणं ज्ञात्वा एकः परंब्रह्माणं ज्ञास्यति इत्युक्तम् । तथा– 'बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति । दूरात्सुदूरे तदिहान्तिके च पश्यन्त्विहैव निहितं गुहायाम् ॥ न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मण वा । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः' (मुण्डकोपनिषत्, मुण्डकः ३, खण्डः १, मन्त्रौ ७-८) इत्युक्तम् ॥ 'अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ न संदृशे तिष्ठति रूपमस्य न चक्शुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति' (कठोपनिषत्, अध्यायः २, वल्ली ३, मन्त्रौ ८-९) इति ॥ 'नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप' (भगवद्गीतायाम्, अध्यायः ११, श्लोकौ ५३-५४) इति ॥ शास्त्राणां ज्ञानं ज्ञात्वा तस्य प्रयोगं कुर्यात् यतः तस्य प्रयोगोऽधिकमुख्यः इत्येतस्य भागस्य तात्पर्य्यम् । तर्ह्येव एकः परमात्मनः अनुग्रहम् अपरोक्षज्ञानञ्च प्राप्नोति । इति वास्तवविवेकोत्थज्ञानम् ॥ अन्धन्तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् । यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे विवेकजम् ॥ ६२ ॥ विवरणम् – अत्रापि अन्धन्तमसः उल्लेखोऽस्ति । अन्यदर्शनैः असदृशः तत्त्ववाददर्शने 'अन्धन्तमस्' इति नामस्य नित्यनरकोऽस्ति यं महातामसाः यान्ति । ईषोपनिषदः नवमः मन्त्रे एतेन श्लोकेन सदृशं वचनम् उक्तम्– 'अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः' (वजसनेयिसंहितायाम्, अध्यायः ४०/ईशावास्योपनिषत्, मन्त्रः ९) इति ॥ एतत् तामसिकजीवानां मुख्यलक्षणं । भगवद्गीतायाम् अष्टादशेऽध्याये पूर्वे उद्धृतेन सर्वेषां जीवानां बहुस्वभावाः सन्ति । अत्र तस्मिन् अध्याये– 'ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः' (भगवद्गीतायाम्, अध्यायः १८, श्लोकः १९) इति ॥ अतः तामासजीवानाम् अधर्मप्रियत्वात् अन्येभ्यः दुःखकारकप्रियत्वाच्च अन्धन्तमः यान्ति । एतस्मात् तेभ्यः अनृतं दम्भश्च रोचेते यदज्ञानस्य पूजा इव । न सत्यस्य अज्ञानादेव ते अन्धन्तमः यान्ति । एषः तेषां स्वभावस्य परिणामः यस्मात् ते सत्यज्ञानस्य निन्दनं कृत्वा तेभ्यः अनृतं रोचते । अनृतं असत्यम् इति ज्ञात्वापि तेभ्यः तत् हि रोचते अज्ञानस्य प्रसरणं करिष्यन्ति च । एतद्लक्षणं अद्य बहुजनेष्वपि दृश्यते येन कलियुगस्य परिवृद्धिं दृश्यते ॥ मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम । तदेतच्छ्रूयतामत्र संबन्धे गदतो मम ॥ ६३ ॥ विवरणम् – मनुः यः विष्णुसंभवजीवानाम् एकः सः मनुस्मृत्याः लेखकः या एकधर्मशास्त्रम् । तस्मिन् सदाचारस्य नियमाः वर्णिताः । श्रीविजयीन्द्रतीर्थेन श्रीश्रीनिवासदीक्षितेन च उद्धृतः पद्मपुराणस्य (उत्तरखण्डे, अध्यायः २३६) श्लोकानुसारेण मनुस्मृतिः राजसस्मृतिः न सात्त्विका । यद्यपि तस्य ज्ञानं वेदसमं तस्यार्थः न स्पष्टरूपेण भक्त्याः ज्ञानं वदति । एतत्कारणात् सा राजसस्मृतिः न सात्त्विका उच्यते । अतः एकस्य आध्यात्ममार्गात् प्रचलनं शक्यम् । किन्तु एषः मनुस्मृत्याः न परमोद्देशः यतः तस्योद्देशः केवल ज्ञानदानं ब्रह्मणोऽनुग्रहप्राप्तिश्च इत्यत्र उक्तम् ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ६४ ॥ विवरणम् – एषः श्लोकः मैत्रायणीयोपनिषदः एतस्य मन्त्रस्य उपबृंहणं यस्यार्थः पूर्वे वर्णितः । 'द्वे ब्रह्मणि वेदितव्ये शब्दब्रह्म परां च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' (मैत्रायणीय/मैत्रि उपनिषत्, प्रपाठकः ६, मन्त्रः २२) इति ॥ द्वे वै विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः । परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ॥ ६५ ॥ विवरणम् – एषः श्लोकः मुण्डकोपनिषदः एतस्य मन्त्रस्य उपबृंहणम् । मुण्डकोपनिषत् 'आथर्वणोपनिषत्' इत्यपि उक्ता । ततः एतस्मिन् श्लोके सा 'आथर्वणश्रुतिः' इत्युक्ता । 'द्वेविद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च' (मुण्डकोपनिषत्, मुण्डकः १, खण्डः १, मन्त्रः ४) इति ॥ पूर्वोक्तेन अत्र 'अपर' इति शब्दस्य अर्थः न अमुख्यः इति । किन्तु यदि एकः विज्ञानस्य न सम्यक्प्रयोगं करोति तर्हि केवल शास्त्रज्ञानेन परमोद्देशः न प्राप्तव्यः भविष्यति इत्येतस्यार्थः ॥ यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्द्देश्यमरूपं च पाणिपादाद्यसंयुतम् ॥ ६६ ॥ विवरणम् – अत्र भगवतः गुणाः न अस्माभिः परिज्ञेयाः इत्युक्तम् । ततः भगवान् अस्माभिः नापूर्णरूपेण ज्ञातव्यः यतः सः अनन्तः किन्तु अस्माकं बुद्धिः विरला । एतस्मिन् श्लोके तस्य अपादत्वम् अहस्तत्वम् अरूपत्वमपि दृश्यन्ते किन्तु एषः अर्थः शास्त्राणाम् अन्यवचनानां विरोधं करिष्यन्ति येषु भगवतः दिव्यरूपम् अस्ति इति पुनः पुनः उक्तम् । स्पष्टरूपेण– 'आत्मा वा अरे द्रष्टव्यः श्रोदव्यो मन्तव्यो निदिध्यासितव्यः' (बृहदारण्यकोपनिषत्, अध्यायः ४, ब्राह्मणः ४, मन्त्रः ५) इत्युक्तम् ॥ 'सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं पदम्' (तैत्तिरीयारण्यके, प्रपाठकः १०, अनुवाकः १३, मन्त्रः १) इति ॥ 'पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्' (भागवतपुराणे, स्कन्धः १, अध्यायः ३, श्लोकः ४) इति ॥ 'सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति' (भगवद्गीतायाम्, अध्यायः १३, श्लोकः १४) इति ॥ मुण्डकोपनिषदः कठोपनिषदश्च उद्धृतवाक्येष्वपि एतत् सिद्धम् । परमात्मनः रूपमस्ति यदनन्तं सहस्रशीर्षं सहस्रबाहुसहितञ्च । मुद्गलोपनिषदनुसारेण एतानि अर्थवादाः येषामर्थः 'अनन्त' इति । अतः भगवान् अवश्यः न अव्यक्तः । एतानि वाक्यानि तैः सदृशानि अन्यवाक्यानि च श्रीमध्वाचार्येण उद्धृतानि तस्य गीताभाष्ये (अध्यायः २ श्लोकः ७२) यैः एतत्सत्यं सिद्धम् । श्रीविष्णोः रूपमवश्यम् अस्ति किन्तु यथा अत्र वर्णितं सः रूपकस्वरूपेण अथवापि अरूपकस्वरूपेण प्रकाशते । शास्त्रेषु भगवतः रूपस्य स्पष्टवर्णनमस्ति किन्तु स्वल्पस्थलेषु सः अरूपकः इत्युक्तः यतः तस्य रूपं न भौतिकं प्राकृतिकञ्च । तस्मात्– 'अनामासोऽप्रसिद्धत्वादरूपो भूतवर्जनात्' इत्युक्तं ब्रह्मपुराणे (श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मसूत्रभाष्ये, अध्यायः १, पादः ३, सूत्रम् ४१) ॥ विभु सर्वगतं नित्यं भूतयोनिरकारणम् । व्याप्यव्याप्तं यतः सर्वं यद्वै पश्यन्ति सूरयः ॥ ६७ ॥ तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकाङ्क्षिभिः । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ ६८ ॥ विवरणम् – एषः श्लोकः पूर्वश्लोकश्च अस्य ऋग्वेदमन्त्रस्य साक्षादुपबृंहणम् । 'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्' (ऋग्वेदे, शाकलसंहितायां, मण्डलम् १, सूक्तम् २२, मन्त्रः २०) इति ॥ 'तद्विष्णोः परमं पदम्' इति वाक्यं वेदेषु पुनः पुनः उक्तम् । अतः एतस्य अर्थः श्रीविष्णुरेव परागतिः इति । अत्र 'सूरि' इति अपरोक्षज्ञानिनां नाम । नारायणसूक्तेऽपि स्वयं विष्णुः 'परमं पदम्' इत्युक्तः । 'सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं पदम्' (तैत्तिरीय आरण्यके, प्रपाठकः १०, अनुवाकः १३, मन्त्रः १) इति ॥ सः 'विभू' इत्युक्तः यतः सः सर्वव्यापी । सर्वभूतेषु जगतोऽन्तरालेषु चापि सः स्तिथः । किन्तु सः न केनचित् व्याप्तः । सः सर्वकारणनां कारणः किन्तु स्वयम् अकारणः । एतत् नारायणोपनिषद्यपि उक्तम् । 'यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः' (नारायणसूक्तः, मन्त्रः ५) इति ॥ तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः ॥ ६९ ॥ एवं निगदितार्थस्य तत्तत्त्वं तस्य तत्त्वतः । ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥ ७० ॥ विवरणम् – त्रिवेदाः सन्ति इत्युक्तं यतः वेदानां मन्त्राणां त्रिविधानि सन्ति– ·पद्यमय – एते ऋग्वेदे सन्ति । ·गद्यमय – एते यजुर्वेदे सन्ति । तस्मात् यजुर्वेदस्य संस्कृतभाषा वादितव्यसंस्कृतम् इव । एषा भाषा इतिहासपुराणादीनां शास्त्राणां संस्कृतभाषा इव । ·गाना – एते सामवेदे सन्ति । अथर्ववेदे एते सर्वाणि मन्त्राणि सन्ति । अतः एतेषां चतुर्थः विभागः नास्ति । श्रीविष्णोः परब्रह्मत्वस्य ज्ञानं विष्णवे भक्तिञ्च कुर्यात् इति सर्वशास्त्राणां तात्पर्यम् । तेनैव अन्यार्थानपि साध्यति । यजुर्वेदस्य नारायणसूक्ते 'नारायणः परो ज्योतिरात्मा नारायणः परः । नारायणः परं ब्रह्म तत्त्वं नारायणः परः । नारायणः परो ध्याता ध्यानं नारायणः परः' (तैत्तिरीय आरण्यके, दशमे प्रपाठके, त्रयोदशेऽनुवाके, मन्त्रः ४) इति ॥ 'नारायणः परं ब्रह्म' इति वाक्यं शास्त्रेषु बहुवारम् उक्तम् । एतेषु शास्त्रेषु तदुक्तम्– ·महाभारते, अनुशासनपर्वे, अध्यायः १८६, श्लोकः ९ ·नारायणसंहितायाम्, अध्यायः २, श्लोकः ३५ (श्लोकाः ३५-३७ नारायणसूक्तस्य ४-५ मन्त्रौ वदन्ति) ·पद्मपुराणे, उत्तरखण्डे, अध्यायः २२६, श्लोकः ५९ (नारायणसंहितायाः स्वल्पश्लोकाः एतस्मिन् अध्याये दृश्यन्ते) ·नृसिंहपुराणे, अध्यायः ६४, श्लोकः ६३ (श्लोकाः ६३-६५ नारायणसूक्तस्य ४-५ मन्त्रौ वदन्ति) ·महाभारते, शान्तिपर्वे, अध्यायः ४६, श्लोकः १२८ (अथवा अध्यायः ४७, श्लोकः ६३) ·ब्रह्माण्डपुराणे, द्वितीये पादे, अध्यायः ३६, श्लोकः ४० ·शेषसंहितायां, द्वितीयेऽध्याये ·जयाख्यसंहितायां, प्रथमेऽध्याये, श्लोकः ६१ यदि शास्त्रेषु किञ्चिद्वचनं पुनः पुनः अस्ति तर्हि तस्य अर्थः तद्वचनं शास्त्राणां मुख्यतात्पर्यम् इति । अतः 'आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा' इत्युक्तम् ॥ (महाभारते, अनुशासनपर्वे, अध्यायः १८६, श्लोकः १३; श्रीमध्वाचार्येण उद्धृतः, महाभारत तात्पर्य्य निर्ण्णये, द्वितीयेऽध्याये, ७२ श्लोके, श्रीकृष्णामृतमहार्णवे, ५५ श्लोके च; श्रीवेदान्तदेशिकेन, रहस्यत्रयसारे चतुर्विंशेऽध्याये; श्रीजीवगोस्वामिना, भक्तिसन्दर्भे) एषः श्लोकः एतेषु ग्रन्थेष्वपि अस्ति– ·नृसिंहपुराणे, अध्यायः ६४, श्लोकौ ७७-७८ ·लिङ्गपुराणे उत्तरभागे अध्यायः ७ श्लोकौ ११-१२ ·गरुडपुराणे आचारखण्डे अध्यायः २३० श्लोकः १ ·स्कन्दपुराणे अतः श्रीनारायणैव परं ब्रह्म तस्य ध्यानं परमोद्देशश्च इति सर्वेषां सदागमानां परमं तात्पर्यम् ॥ अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज । पूजायां भगवच्छब्दः क्रियते ह्युपचारतः ॥ ७१ ॥ विवरणम् – अत्र भगवतः एकः मुख्यगुणः वर्णितः । सोऽशब्दगोचरः । विष्णुसहस्रनामस्तोत्रादि शास्त्रेषु श्रीविष्णुः 'अप्रमेय' इत्युक्तः । यतः सः अस्माकं बुद्धिभिः न परिज्ञेयः ततः तस्य सम्यग्वर्णनं न शक्यते । यदा स्वयं लक्ष्मीदेव्या तस्य एकगुणः हि न परिज्ञेयः तदा कुतः जीवैः सः परिज्ञेयः? । तथापि अस्माकं अल्पबुद्धिभिः अस्माकं योग्यतानुसारेण भगवतः ज्ञानास्य अंशप्राप्त्यर्थं नारायण-भगवत्-ब्रह्मादि शब्दैः भगवान् स्मृतः । तस्य नामानि तस्य गुणान् सूचयन्ति ततः तं स्मरन् तैः तस्य चिन्तनं कुर्यात् ॥ शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्दिते । मैत्रेय भगवच्छब्दस्सर्वकारणकारणे ॥ ७२ ॥ विवरणम् – एषः श्लोकः परब्रह्मणः मुख्यगुणान् वर्णयति । वेदान्तसूत्रेषु– 'ॐ जन्माद्यस्य यतः ॐ' (ब्रह्मसूत्रेषु, अध्यायः १, पादः १, सूत्रम् २) इति ब्रह्मशब्दस्यार्थः वर्णितः ॥ तत्त्वसङ्ख्याननामग्रन्थे श्रीमध्वाचार्यः भगवतः अस्तित्वस्य उत्तमतर्कं दत्तवान् । सर्वाणि तत्त्वानि तेषां अंशेषु प्रोतानि । श्रीजयतीर्थः तस्य भाष्ये एकस्वतन्त्रतत्त्वस्य अस्तित्वम् अवश्यम् येन सर्वेषाम् अस्तित्वं शक्यते इति विषयम् अवर्णयत् । तत् तत्त्वं न अन्ये प्रोतं यतः यदि एतत् सत्यं तर्हि सर्वेषाम् अस्तित्वं न शक्यते एतच्चक्रम् अनन्तं भविष्यति च । अतः एतस्य चक्रस्य अन्तः परमात्मा । अतः सः 'सर्वकारणकारण' इत्युक्तः । किन्तु सः स्वयम् अकारणः । सर्वाणि भूतानि जीवाः जडतत्त्वानि च तेन हि सन्ति । ते तस्मात् अधीनानि । किन्तु सः न कस्यचिद् आश्रये वसति । अतः– 'सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं ब्रह्मोम्' (नारायणोपनिषत्, खण्डः ४; आत्मबोधोपनिषद्यपि) इत्युक्तम् ॥ 'मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव' इत्युक्तं भगवद्गीतायाम् (अध्यायः ७, श्लोकः ७) ॥ सम्भर्त्तेति तथा भर्त्ता भकारोर्थद्वयान्वितः । नेता गमयिता स्रष्टा गकारार्थस्तथा मुने ॥ ७३ ॥ ऐश्वर्यस्य समग्रस्य धर्मस्य यशसश्श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ७४ ॥ वसन्ति यत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ ७५ ॥ विवरणम् – एषः श्लोकः श्रीपराशरभट्टेन भगवद्गुणदर्पणे ('वः' नामस्य भाष्ये) उद्धृतः ॥ एवमेष महाशब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यतः ॥ ७६ ॥ विवरणम् – श्लोकः ७४ श्रीमध्वाचार्येण उद्धृतः तस्य भगवद्गीताभाष्ये (अध्यायः २, श्लोकः ७२) श्रीपराशरभट्टेन भगवद्गुणदर्पणे ('भगवान्' इति नामस्य भाष्ये) च । भगवच्छब्दस्यार्थः एतस्मिन् वर्णितः । सामान्येन एषः शब्दस्य उपयोगः परमपुरुषाय क्रियते । अत्र यतः श्रीविष्णुः भगवान् इत्युक्तः तस्य कारणं वर्णितम् । सामान्येन ब्रह्मन्-परमात्मन्-भगवदादि शब्दानां उपयोगः परब्रह्मणे क्रियते । अतः– 'ब्रह्मेति परमात्मेति भगवानिति शब्द्यते' (भागवतपुराणे, स्कन्धः १, अध्यायः २, श्लोकः ११; श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मसूत्रभाष्ये, अध्यायः १, पादः १, सूत्रे ७ १२ च) इत्युक्तम् ॥ एतेषु श्लोकेषु यतः सः 'भगवान्' इत्युक्तः तस्यार्थः वर्णितः । 'भग' शब्दस्यार्थः यस्य एते समग्राः मुख्याः षड्गुणाः सन्ति इति । ते– (१) ऐश्वर्यं (२) धर्मः (३) यशस् (४) श्री (५) ज्ञानम् (६) वैराग्यं च इति । 'समग्रस्य' इति शब्दस्यार्थः भगवतः गुणाः अनन्ताः इति । सहजेन यस्य एतानि लक्षणानि सन्ति सः सर्वेभ्यः रोचते । सर्वे एतान्यपि इच्छन्ति च । तथा सः आदर्शपुरुषः । किन्तु केवल भगवान् सर्वेभ्यः आदर्शव्यक्तिः यतः सः सर्वेभ्यः अनन्तवारम् उत्तमः । अतः अस्माकम् अल्पबुद्धिना अस्मासु तस्यगुणानाम् अंशस्य अस्तित्वं शक्यते यत् भक्त्या विज्ञानस्य प्रयोगेन च प्राप्तव्यम् । एतस्मिन् श्लोके यथा भगवच्छब्दः विष्णोरेव न अन्यतः इत्यपि वर्णितम् । सैव सर्वकारणकारणः परब्रह्म च । देवऋषिगन्धर्वमनुष्यादयः अनन्तवारं तस्मादधीनाः यतः सः अनन्तवारं सर्वेभ्यः परः । बहुसंस्कृतशब्दैः विष्णोरभिदानैश्च सदृशः भगवच्छब्दस्य बह्वार्थाः सन्ति । तस्य एकनामस्य हि बहुकाराणैः तस्मै योग्यः यतः तस्य गुणाः अनन्ताः ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ॥ ७७ ॥ विवरणम् – किन्तु ऋषिदेवादि बहुजनाः 'भगवान्' इत्युक्ताः प्रश्नोपनिषत्पुराणदि शास्त्रेषु इति संशयः शक्यः । एतस्य उत्तरम् अग्रिमश्लोकेष्वस्ति ॥ उत्पत्तिं प्रलयं चैव भूतानामगतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ ७८ ॥ ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ ७९ ॥ विवरणम् – एषः श्लोकः श्रीरामानुजाचार्येण वेदार्थसङ्ग्रहे (वाक्यम् ४७) श्रीपराशरभट्टेन भगवद्गुणदर्पणे ('महाशक्ति' नामस्य भाष्ये) च उद्धृतः ॥ सर्वाणि तत्र भूतानि वसन्ति परमात्मनि । भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ॥ ८० ॥ खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा । नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ ८१ ॥ भूतेषु वसते सोऽन्तर्वसन्त्यत्र च तानि यत् । धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ ८२ ॥ विवरणम् – पुनः पुनः शास्त्रेषु भगवति सर्वाणि वसन्ति किन्तु सः न तेषु वसति इत्युक्तम् । यदि केचिद् संशयाः शक्यन्ते तर्हि एतस्मिन् श्लोके तेषाम् उत्तरम् अस्ति । भगवद्गीतायामपि श्रीकृष्णः तद्वचनं पुनरुक्तवान्– 'मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः' (भगवद्गीतायाम्, अध्यायः ९, श्लोकः ४) इति ॥ परब्रह्म न सर्वभूतेष्वस्ति इति संशयः शक्यः । किन्तु एतदसत् । यतः पुनः पुनः तस्य सर्वव्याप्तित्वमपि उक्तम् । नारायणसूक्ते सः बहिः अन्तः अपि वसति इत्युक्तम् । एतस्य अर्थवादस्य अर्थः पात्रस्य तस्य वस्तूनाञ्च इव इत्यनेन ज्ञातव्यः । वस्तूनि पात्रे सन्ति यस्मात् तानि पात्रे आश्रितानि । अतः भगवान् पात्रेण सदृशः यस्मिन् जीवाः सर्वाणि भूतानि च आश्रितानि । एतस्मादपि भगवतः अनन्तगुणैः अन्येभ्यः परत्वं स्वातन्त्र्यञ्च सिद्धम् । सः न अन्येषु वसति इत्यस्य अर्थः सः न तेषु आश्रितः इति । केवल वयम् अस्माकम् अस्तित्वाय कार्येभ्यश्च तम् अवलम्बामहे ॥ स सर्वभूतप्रकृतिं विकारान्गुणादिदोषांश्च मुने व्यतीतः । अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥ ८३ ॥ विवरणम् – एषः श्लोकः भगवतः सर्वव्याप्तित्वं सर्वेभ्यः तस्य भेदम् अन्यताम् अस्वातन्त्र्यञ्च वर्णयति । बृहत्त्वात् सर्वकारणकारणत्वाच्च सोऽस्ति सर्वत्र सर्वभूतेषु अणुषु परमाणुषु च । किन्तु सः न साक्षात् तानि तत्त्वानि । केवलाद्वैतदर्शनानुसारेण परब्रह्म जीवाः जडवस्तवश्च एकस्य तत्त्वस्य बहुरूपाणि । किन्तु एतानि वाक्यानुसारेण इति न सत्यम् । भगवान् सर्ववस्तुष्वस्ति किन्तु तेभ्यः भगवतः भेदोऽस्ति । न सः तानवलम्बते । किन्तु सर्वेषां भूतानाम् अस्तित्वम् हि तम् अवलम्बते । एषः श्लोकः बृहदारण्यकोपनिषदि अन्तर्यामिब्राह्मणस्य अयं मन्त्रस्य आवर्तनम् । एषः मन्त्रः सर्वेभ्यः तत्त्वेभ्यः एतम् अर्थवादं वदति । 'य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः' (शतपथब्राह्मणे, काण्डः १४, अध्यायः ६, ब्राह्मणः ७, मन्त्रः ३०) इति ॥ तथा 'द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः' (भगवद्गीतायाम्, अध्यायः १५, श्लोकाः १६-१८) इत्युक्तम् ॥ 'यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् । अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात् ॥ भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात् । आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञितः' (भागवतपुराणे, स्कन्धः ३, अध्यायः २८, श्लोकौ ४०-४१) इति ॥ 'सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति' (भगवद्गीतायाम्, अध्यायः १३, श्लोकः १४) इति ॥ 'पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्' (भागवतपुराणे, स्कन्धः १, अध्यायः ३, श्लोकः ४) इति ॥ एतानि वाक्यानि भगवतः रूपस्य बृहत्वं वर्णयन्ति यतः तस्य रूपम् अनन्तम् । भगवतः शरीरस्य तस्य अङ्गानाञ्च मध्ये न कश्चिद् भेदोऽस्ति । मनुष्यैः जडवस्तुभिश्च असदृशः भगवतः अङ्गानि न तस्मात् पराणि अथवा अपराणि । पुरुषसूक्ते नारायणसूक्तेऽपि च इत्युक्तम् । अतः सः सहस्रशीर्षः सहस्रबाहुवान् इत्याद्युक्तः । अत्र 'सहस्र' इति शब्दस्यार्थः अनन्तानि अनेकानि इति यथा मुद्गलोपनिषद्युक्तम् यस्मिन् पुरुषसूक्तं वर्णितम् । यथा अग्रिमाध्यायः वर्णिष्यति तथा परमात्मनः दिव्यरूपमस्ति सः न अव्यक्तश्च कैश्चिद् दर्शनैः असदृशः । तस्य रूपम् अचिन्त्यं यत् न भौतिकनत्रैः दृश्यः । केवल आत्मा भगवदनुग्रहं प्राप्य भक्त्या ज्ञानेन च तं पश्यति । पुनः पुनः सः अनन्तः उक्तः यतः तस्य न अंशाः अङ्गानि च सन्ति । सः सम्पूर्णः तस्य रूपमपि च । तथा वेदाः श्रीकृष्णं भजन् तेनापि तस्य अन्तः न प्राप्तव्यः 'द्युपतय एव ते न ययुरन्तमनन्ततयात्वमपि' (भागवतपुराणे, स्कन्धः १०, अध्यायः ८४, श्लोकः ४१) इति अर्थवादम् अवदन् ॥ 'अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः । एकोऽयं वेद भगवान्धाता नारायणो हरिः' (महाभारते, शान्तिपर्वे, अध्यायः ४६/४८, श्लोकः १९; श्रीमध्वाचार्येण उद्धृतः, तस्य भगवद्गीताभाष्ये, अध्यायः १५, श्लोकः ४) इति ॥ 'न यस्याद्यन्तौ मध्यं च' (भागवतपुराणे, स्कन्धः ८, अध्यायः १, श्लोकः १२) इति ॥ समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशावृतभूतवर्गः । इच्छागृहीताभिमतोरुदेहस्संसाधिताशेषजगद्धितो यः ॥ ८४ ॥ विवरणम् – एषः श्लोकः श्रीपराशरभट्टेन भगवद्गुणदर्पणे (परिचये) उद्धृतः । अत्र ब्रह्मणः निर्गुणत्वं मिथ्यम् इति सिद्धम् । परब्रह्मा अव्यक्तः यस्य न केचिद् गुणाः सन्ति यतः सोऽचिन्त्यः अप्रमेयः इति स्मार्ताः वदन्ति । किन्तु तदसत् यतः शास्त्राणि अन्त्रत्र परमात्मनः गुणान् वर्णयन् तस्य अनेकगुणाः सन्ति इति अवदन् । एतस्मिन् श्लोकेऽपि सः 'समस्तकल्याणगुणात्मकः' इत्युक्तः । 'पृथग्वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः । यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥ एतस्माद्ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् । अमिता हि गुणा यस्मान्नान्येषां तमृते विभुम्' इति पद्मपुराणे (श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मसूत्रभाष्ये, अध्यायः १, पादः २, सूत्रम् १२) ॥ 'क्व‍‍चिद्रजांसि विममे पार्थिवान्युरुजन्मभिः । गुणकर्माभिधानानि न मे जन्मानि कर्हिचित्' इति भागवतपुराणे (स्कन्धः १०, अध्यायः ४८, श्लोकः ३७) ॥ 'तस्यानुभावः कथितो गुणाश्च परमोदयाः । भौमान्‍रेणून्स विममे यो विष्णोर्वर्णयेद् गुणान्' इति भागवतपुराणे (स्कन्धः ८, अध्यायः ५, श्लोकः ६) ॥ 'चतुर्मुखायुः यदि कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः । स ते गुणानामयुतैरनेकैकमंशं वदेन्नवा देववर प्रसीद' इति वराहपुराणे (अध्यायः ७३, श्लोकः ३५; श्रीपराशरभट्टेन उद्धृतः, भगवद्गुणदर्पणे) ॥ अतः श्रीविष्णुः ह्यवश्यः न निर्गुणः इति स्पष्टम् । तथा श्रीमध्वाचार्यः द्वादशस्तोत्रेषु दशमे स्तोत्रे श्रीविष्णुं 'गुणालयम्' इत्युक्तवान् । किन्तु शास्त्रेष्वन्यत्र सः निर्गुणोऽपि उक्तः इति संशयः शक्यः । 'हरिर्हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः' (भागवतपुराणे, स्कन्धः १०, अध्यायः ८५, श्लोकः ५) इत्यादिना ॥ किन्तु एतस्य उत्तरं पूर्वश्लोके ह्यस्ति यस्मिन् तस्य विकाराः दोषाश्च न सन्ति इत्युक्तम् । तस्य न दोषिकगुणाः सन्ति । ततः सः निर्गुणः उक्तः किन्तु तस्य अनेकमाङ्गल्यगुणाः सन्ति । तस्य गुणाः स्वयम् भगवान् हि । तस्य ज्ञानानन्तादिगुणाः अनेकाः सः स्वयमपि च ॥ तेजोबलैश्वर्यमहावबोध सुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशो ॥ ८५ ॥ स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपोऽप्रकटस्वरूपः । सर्वेश्वरस्सर्वदृक् सर्वविच्च समस्तशक्तिः परमेश्वराख्यः ॥ ८६ ॥ विवरणम् – अत्र श्रीविष्णोर्लक्षणानि वर्णितानि । अत्र सः ईश्वरः सर्वेश्वरः परमेश्वरश्च इत्युक्तः यतः सः सर्वाधिपतिः । सः व्यष्टिसमष्टिरूपः इत्युक्तः यतः सः तेषाम् अन्तर्यामी यः सर्वव्यापी । सः व्यक्तोऽव्यक्तश्च इत्युक्तोऽपि यतः तस्य रूपं न विशेषरूपम् अथवा चिन्त्यं ततः सः इत्युक्तः । तस्य रूपम् अनन्तम् अचिन्त्यञ्च यत् न कैश्चिद् परिज्ञेयम् । तथाऽपि तस्य भक्तेभ्यः सः दृश्यरूपेण प्रकाशते । यदा सः अवतारम् अवाप्नोति तदा सः भौतिकरूपेण दृश्यरूपेण प्रकाशते । भगवद्गीतायां हि अर्जुनः दिव्यदृष्ट्या कृष्णस्य विश्वरूपम् अपश्यत् । सः सर्वेषु साक्षी । सः कविः सर्वज्ञश्च यतः तस्य ज्ञानम् अनन्तम् । तथा– 'वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन' इति श्रीकृष्णस्य वचनं भगवद्गीतायाम् (अध्यायः ७, श्लोकः २६) ॥ विश्वस्य सर्वाणि कार्याणि केवल भगवदिच्छया क्रियन्ते । अतः– 'नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः' (महाभारते, शान्तिपर्वे, अध्यायः २३४, श्लोकः ८४) इत्युक्तम् । एषः श्लोकः श्रीमध्वाचार्येण उद्धृतः तस्य भगवद्गीताभाष्ये (अध्यायः १४, श्लोकः १९) ॥ संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । संदृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥ ८७ ॥ विवरणम् – श्लोकाः ८३-८७ वेदार्थसङ्ग्रहे (वाक्यम् १५७) श्रीरामानुजाचार्येण उद्धृताः । अत्र मुख्यज्ञानं केवल भगवद्ज्ञानं येन परमात्मनः दर्शनं ज्ञानञ्च प्राप्तव्ये इति वर्णितम् । अन्यज्ञानैः शाश्वतलाभाः सुखश्च न प्राप्तव्याः । ते केवल परमात्मनः अर्चनात् विज्ञानस्य प्रयोगाच्च प्राप्तव्याः । याभिः कल्पनाभिः एकः भक्त्याः दूरं गच्छति ताः अज्ञानसमाः इत्युक्ताः । ताभिः एकस्य साधने क्लेशानि भविष्यन्ति । अतः यत्प्राप्तव्यं तत् न प्राप्तव्यं भविष्यति । अशेषाः जीवाः आनन्दप्राप्तये प्रयत्नान् केनचित् केनचित् विधिना सदा कुर्वन्ति । केवल भक्त्या विज्ञानेन च भगवान् प्राप्तव्यः इति सत्यस्य अज्ञानात् ते एतद्दुष्चक्रे वसन्ति । यस्मात् ते भौतिकवस्त्वादिभिः सुखप्राप्तेः प्रयत्नं कुर्वन्ति । अतः तेषां भौतिकेच्छाः वर्धन्ते । किन्तु विज्ञानेन एकस्य सर्वावस्थासु सत्त्वेन आनन्दं सुखदुःखसमत्वञ्च शक्येते । भगवद्गीतायामपि सात्त्विकज्ञानं सदृशरूपेण वर्णितम् । 'सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्' (भगवद्गीतायाम्, अध्यायः १८, श्लोकः २०) इति ॥ एतस्मिन् श्लोके श्रीविष्णोः दोशरहितत्वशुद्धत्वनिर्मलत्वादयः गुणाः वर्णिताः यथा यथोक्तं नारायणोपनिषद्यपि । 'निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित्' (नारायणोपनिषत्, खण्डः २) इत्युक्तम् ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे पञ्चमोऽध्यायः ॥ अध्यायः ६ (Adhyaaya 6) ===================================================== श्रीपराशर उवाच स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते ॥ १ ॥ स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमावसेत् । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥ २ ॥ तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथा परम् । न मांस चक्षुषा द्रष्टुं ब्रह्मभूतस्स शक्यते ॥ ३ ॥ विवरणम् – येन विधिना अपरोक्षज्ञानं प्राप्तव्यं परमात्मा अन्तर्यामिरूपेण दृश्यः भविष्यति च एषः विधिः एतेषु श्लोकेषु वर्णितः । एतस्मिन् स्थितौ विज्ञानात् एकः सर्वदा एकस्य मनः भक्त्यां भगवद्ध्याने च भविष्यति । तेन मोक्षोऽपि प्राप्तव्यः । एतेन विज्ञानेन एकः समाधिस्थितौ सर्वदा वसिष्यति यस्मिन् एकः नारायणं परागतिञ्च सदा स्मरिष्यति । एषः ज्ञानी सदा सुखदुःखादिषु समत्वम् अवाप्नोति । क्रोधदुःखलोभादिभिः अपरोक्षज्ञानिनः न लिप्यन्ते । ते न पापकर्माण्यपि इच्छन्ति । मृत्योरनन्तरं ते विमुक्ताः भविष्यन्ति यस्मात् ते विष्णोर्लोकं संसारात् दूरञ्च गमिष्यन्ति । ते न कदाचित् पुनः जायन्ते । एतस्यै स्थितये योगः शास्त्राणां विज्ञानञ्च आवश्यके । विज्ञानं स्वाध्यायेन प्राप्तव्यं । यैः विधिभिः एकः भक्त्या परमात्मनः प्रभावं अनुभवति ते योग उच्यन्ते । एषः भगवन्नामजपादिभिः विधिभिः कर्तव्यः । अज्ञानादपि तस्य नामोच्चारणम् आध्यात्मिकप्रगतये औपकारिकं यथा अष्टमस्य अध्यायस्य एकोनविंशे श्लोके वर्णितम् । पूर्वेऽध्याये भक्ति इति शब्दस्य अर्थः नारदपञ्चरात्रात् उद्धृतः । एतत् ज्ञात्वा एकः सुदृढभक्त्या भगवन्नामोच्चारणादि विधीन् विज्ञानसहितेन कुर्यात् । भगवान् अनन्तः सर्वदेवैः ऋषिभिश्च न ज्ञातव्यः । अतः न स्वतः प्रयत्नेन भगवान् परिज्ञेयः । शास्त्राणि यानि भगवता प्रकाशितानि तेभ्यः एव भगवतः उत्तमं ज्ञानं प्राप्तव्यम् । तेषाम् अंशः यः मनुष्येभ्यः योग्यः सः मनुष्येभ्यः देवैः ऋषिभिश्च दत्तः । तेषाम् अंशः यः मनुष्येभ्यः योग्यः सः मनुष्येभ्यः देवैः ऋषिभिश्च दत्तः । यथा पूर्वोक्तः केवल सदागमेषु तेषाम् अनुरोधिशास्त्रेषु चैव आश्रित्य एकः भक्त्याः प्रयोगं कुर्यात् । एतेन विधिना एव भगवान् प्रकाशते । एतेन वोधिना एव जीवेन जीवस्यान्तर्यामी परमात्मा दृश्यते यः जीवस्य हृदि वसति । तस्य रूपं न भौतिकम् । न तस्य प्राकृतिकगुणाः सन्ति । ततः तस्य रूपेण न भौतिककिरणाः प्रकाशन्ते न सः प्राकृतिकनेत्रैः दृश्यः । इन्द्रियाणां सहायता विना हि भगवतः दर्शनं जीवेन शक्यम् । 'न संदृशे तिष्ठति रूपमस्य न चक्शुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति' (कठोपनिषत्, अध्यायः २, वल्ली ३, मन्त्रः ९) इति ॥ भौतिकनेत्रेण श्रीविष्णोः दर्शनं न शक्यं यतः तस्य रूपम् अनन्तम् अचिन्त्यञ्च इति श्रीमध्वाचार्यः एतस्य मन्त्रस्य भाष्ये अवर्णयत् । केवल आत्मना अपरोक्षज्ञानप्राप्तेः अनन्तरं विष्णोः मूलरूपस्य दर्शनं शक्यम् । अन्यथा सः भौतिकनेत्रैः ह्यवश्यः न दृश्यः । अतः– 'नाहं प्रकाशः सर्वस्य योगमायासमावृतः' इति श्रीकृष्णस्य वचनम् भगवद्गीतायाम् (अध्यायः ७, श्लोकः २५) ॥ यदा श्रीविष्णुः अवतारम् अवाप्नोति भौतिकलोकेषु प्रकाशते च तदा सः सर्वैः दृश्यः भविष्यति । किन्तु एतद्रूपं न तस्य साक्षाद्रूपं यदचिन्त्यं दिव्यञ्च । ततः भक्त्या विज्ञानस्य प्रयोगेन च तस्यानुग्रहः अपरोक्षज्ञानञ्च प्राप्तव्ये । एतेनापि तस्य मूलरूपस्य दर्शनं प्राप्तव्यम् ॥ श्रीमैत्रेय उवाच भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद । ज्ञाते यत्राखिलाधारं पश्येयं परमेश्वरम् ॥ ४ ॥ श्रीपराशर उवाच यथा केशिध्वजः प्राह खाण्डिक्याय महात्मने । जनकाय पुरा योग तमहं कथयामि ते ॥ ५ ॥ श्रीमैत्रेय उवाच खाण्डिक्यः कोऽभवद्ब्रह्मन्को वा केशिध्वजः कृती । कथं तयोश्च संवादो योगसंबन्धकारणात् ॥ ६ ॥ श्रीपराशर उवाच धर्मध्वजो वै जनकस्तस्य पुत्रोऽमितध्वजः । कृतध्वजश्च नाम्नासीत्सदाध्यात्मरतिर्नृपः ॥ ७ ॥ कृतध्वजस्य पुत्रोऽभूत्ख्यातः केशिध्वजो नृपः । पुत्रोऽमितध्वजस्यापि खाण्डिक्यजनकोऽभवत् ॥ ८ ॥ कर्ममार्गेण खाण्डिक्यः पृथिव्यामभवत्पतिः । केशिध्वजोऽप्यतीवासीदात्मविद्याविशारदः ॥ ९ ॥ तावुभावपि खाण्डिक्यः विजिगीषू परस्परम् । केशिध्वजेन खाण्डिक्यस्स्वराज्यादवरोपितः ॥ १० ॥ पुरोधसा मन्त्रिभिश्च समवेतोऽल्पसाधनः । राज्यान्निराकृतस्सोऽथ दुर्गारण्यचरोऽभवत् ॥ ११ ॥ इयाज सोऽपि सुबहून्यज्ञाञ्ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्त्तुं मृत्युमविद्यया ॥ १२ ॥ एकदा वर्त्तमानस्य यागे योगविदां वर । धर्मधेनुं जघानोग्रश्शार्दूलो विजने वने ॥ १३ ॥ ततो राजा हतां श्रुत्वा धनुं व्याघ्रेण चर्त्विजः । प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् ॥ १४ ॥ विवरणम् – यत्पुण्यं शक्यमस्ति स्म तस्य हानिः गोमरणात् शक्या अभवत् । अतः राजा भूत्वापि न सम्यग्रूपेण तस्य कर्तव्यानि अक्रियन्त इति केशिध्वजस्य चिन्ता अभवत् । अतः एतस्मात् यत्पापं स्यात् तस्य विनाशार्थं सः तस्य प्रायश्चित्तस्य अन्वेषणम् अकरोत् ॥ तेऽप्यूचुर्न वयं विद्मः कशेरुः पृच्छतामिति । कशेरुरपि तेनोक्तस्तथैव प्राह भार्गवम् ॥ १५ ॥ शुनकं पृच्छ राजेन्द्र नाहं वेद्मि स वेत्स्यति । स गत्वा तमपृच्छच्च सोऽप्याह शृणु यन्मुने ॥ १६ ॥ न कशेरुर्न चैवाहं न चैकस्सांप्रतं भुवि । वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया ॥ १७ ॥ स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने । प्राप्त एव महायज्ञो यदि मां स हनिष्यति ॥ १८ ॥ प्रायश्चित्तमशेषेण स चेत्पृष्टो वदिष्यति । ततश्चाविकलो यागो मुनिश्रेष्ठ भविष्यति ॥ १९ ॥ श्रीपराशर उवाच इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः । वनं जगाम यत्रास्ते स खाण्डिक्यो महामतिः ॥ २० ॥ विवरणम् – अन्योपायाः विना केशिध्वजाय तस्य शत्रुणा खाण्डिक्येन विचारणम् अवश्यकम् अभवत् । तस्य विनयतायाः दर्शनार्थं ज्ञानप्राप्त्यर्थञ्च स्वयं खाण्डिक्यस्य शिष्यः इति मन्यन् सः कृष्णजिनम् अधारयत् । सामान्येन ब्रह्मचारिणा गुरुकुले वसन् एतत् धारयेत् ॥ तमापतन्तमालोक्य खाण्डिक्यो रिपुमात्मनः । प्रोवाच क्रोधताम्राक्षस्समारोपितकार्मुकः ॥ २१ ॥ खाण्डिक्य उवाच कृष्णाजिनं त्वं कवचमाबध्यास्मान्हनिष्यसि । कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥ २२ ॥ मृगाणां वद पृष्ठेषु मूढ कृष्णाजिनं न किम् । येषां मया त्वया चोग्राः प्रहिताश्शितसायकाः ॥ २३ ॥ स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे । आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ॥ २४ ॥ केशिध्वज उवाच खाण्डिक्य संशयं प्रष्टुं भवन्तमहमागतः । न त्वां हन्तुं विचार्यैतत्कोपं बाणं विमुञ्च वा ॥ २५ ॥ श्रीपराशर उवाच ततस्स मन्त्रिभिस्सार्द्धमेकान्ते सपुरोहितः । मन्त्रयामास खाण्डिक्यस्सर्वैरेव महामतिः ॥ २६ ॥ तमूचुर्मन्त्रिणो वध्यो रिपुरेष वशं गतः । हतेऽस्मिन्पृथिवी सर्वा तव वश्या भविष्यति ॥ २७ ॥ खाण्डिक्यश्चाह तान्सर्वानेवमेतन्न संशयः । हतेऽस्मिन्पृथिवी सर्वा मम वश्या भविष्यति ॥ २८ ॥ परलोकजयस्तस्य पृथिवी सकला मम । न हन्मि चेल्लोकजयो मम तस्य वसुन्धरा । नाहं मन्ये लोकजयादधिका स्याद्वसुन्धरा ॥ २९ ॥ परलोकजयोऽनन्तस्स्वल्पकालो महीजयः । तस्मान्नैनं हनिष्यामि यत्पृच्छति वदामि तत् ॥ ३० ॥ विवरणम् – खाण्डिकस्य एतेभ्यः लक्षणेभ्यः तस्य सात्त्विकबुद्धिः दृश्यन्ते । एकपरिमितात्परः सर्वभौतिकसम्पत्तयः व्यर्थाः इति सोऽजानात् । केशिध्वजस्य विरुद्धनिर्यातनादपि तस्य सौभाग्यं न भविष्यति किन्तु सर्वमर्त्यैः सदृशः सोऽपि कदाचिद् म्रियिष्यते इति सः अजानात् । परमः विजयः केवल आध्यात्मिकविज्ञानेन समाधिस्थित्याः प्राप्तिः यस्मात् सर्वावस्थासु एकस्य मनःशमः आनन्दश्च शक्येते ॥ ततस्तमभ्युपेत्याह खाण्डिक्यजनको रिपुम् । प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छस्व वदाम्यहम् ॥ ३१ ॥ ततस्सर्वं यथावृत्तं धर्मधेनुवधं द्विज । कथयित्वा स पप्रच्छ प्रायश्चित्तं हि तद्गतम् ॥ ३२ ॥ स चाचष्ट यथान्यायं द्विज केशिध्वजाय तत् । प्रायश्चित्तमशेषेण यद्वै तत्र विधीयते ॥ ३३ ॥ विदितार्थस्स तेनैव ह्यनुज्ञातो महात्मना । यागभूमिमुपागम्य चक्रे सर्वाः क्रियाः क्रमात् ॥ ३४ ॥ क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः । कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः ॥ ३५ ॥ पूजिताश्च द्विजास्सर्वे सदस्या मानिता मया । तथैवार्थिजनोऽप्यर्थैर्योजितोऽभिमतैर्मया ॥ ३६ ॥ यथार्हमस्य लोकस्य मया सर्वं विचेष्टितम् । अनिष्पन्नक्रियं चेतस्तथापि मम किं यथा ॥ ३७ ॥ इत्थं सञ्चिन्तयन्नेव सस्मार स महीपतिः । खाण्डिक्याय न दत्तेति मया वै गुरुदक्षिणा ॥ ३८ ॥ विवरणम् – यतः खाण्डिक्यस्य सहायतया केशिध्वजस्य यज्ञः सम्पूर्णः गोमरणस्य प्राश्चित्तं शक्यञ्च अभवतां ततः केशिध्वजः खाण्डिक्याय गुरुदक्षिणं दातुम् इच्छति ॥ स जगाम तदा भूयो रथमारुह्य पार्थिवः । मैत्रेय दुर्गगहनं खाण्डिक्यो यत्र संस्थितः ॥ ३९ ॥ खाण्डिक्योऽपि पुनर्दृष्ट्वा तमायान्तं धृतायुधम् । तस्थौ हन्तुं कृतमतिस्तमाह स पुनर्नृपः ॥ ४० ॥ भो नाहं तेऽपराधाय प्राप्तः खाण्डिक्य मा क्रुधाः । गुरोर्निष्क्रयदानाय मामवेहि त्वमागतम् ॥ ४१ ॥ निष्पादितो मया यागः सम्यक्त्वदुपदेशतः । सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ॥ ४२ ॥ श्रीपराशर उवाच भूयस्स मंत्रिभिस्सार्द्धं मन्त्रयामास पार्थिवः । गुरुनिष्क्रयकामोऽयं किं मया प्रार्थ्यतामिति ॥ ४३ ॥ तमूचुर्मन्त्रिणो राज्यमशेषं प्रार्थ्यतामयम् । शत्रुभिः प्रार्थ्यते राज्यमनायासितसैनिकैः ॥ ४४ ॥ प्रहस्य तानाह नृपस्स खाण्डिक्यो महामतिः । स्वल्पकालं महीपाल्यं मादृशैः प्रार्थ्यते कथम् ॥ ४५ ॥ एवमेतद्भवन्तोऽत्र ह्यर्थसाधनमन्त्रिणः । परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ॥ ४६ ॥ श्रीपराशर उवाच इत्युक्त्वा समुपेत्यैनं स तु केशिध्वजं नृपः । उवाच किमवश्यं त्वं ददासि गुरुदक्षिणाम् ॥ ४७ ॥ बाढमित्येव तेनोक्तः खाण्डिक्यस्तमथाब्रवीत् । भवानध्यात्मविज्ञानपरमार्थविचक्षणः ॥ ४८ ॥ यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः । तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ॥ ४९ ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे षष्ठोऽध्यायः ॥ अध्यायः ७ (Adhyaaya 7) ===================================================== केशिध्वज उवाच न प्रार्थितं त्वया कस्मादस्मद्राज्यमकण्टकम् । राज्यलाभाद्विना नान्यत्क्षत्त्रियाणामतिप्रियम् ॥ १ ॥ खाण्डिक्य उवाच केशिध्वज निबोध त्वं मया न प्रार्थितं यतः । राज्यमेतदशेषं ते यत्र गृध्नन्त्यपण्डिताः ॥ २ ॥ क्षत्त्रियाणामयं धर्मो यत्प्रजापरिपालनम् । वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् ॥ ३ ॥ तत्राशक्तस्य मे दोषो नैवास्त्यपहृते त्वया । बन्धायैव भवत्येषा ह्यविद्याप्यक्रमोज्झिता ॥ ४ ॥ जन्मोमोपभोगलिप्सार्थमियं राज्यस्पृहा मम । अन्येषां दोषज सैव धर्मं वै नानुरुध्यते ॥ ५ ॥ न याच्ञा क्षत्त्रबन्धूनां धर्मयैतत्सतां मतम् । अतो न याचितं राज्यमविद्यान्तर्गतं तव ॥ ६ ॥ राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः । अहंमानमहापानमदमत्ता न मादृशाः ॥ ७ ॥ श्रीपराशर उवाच प्रहृष्टस्साध्विति ततः प्राह केशिध्वजो नृपः । खाण्डिक्यजनकं प्रीत्या श्रूयतां वचनं मम ॥ ८ ॥ केशिध्वज उवाच अहं ह्यविद्यया मृत्युं तर्तुकामः करोमि वै । राज्यं यागांश्च विविधान्भोगैः पुण्यक्षयं तथा ॥ ९ ॥ तदिदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम् । तच्छ्रूयतामविद्यायास्स्वरूपं कुलनन्दन ॥ १० ॥ विवरणम् – खाण्डिक्यस्य विवेकनाम ऐश्वर्यमस्ति इति केशिध्वजः उक्तवान् । वास्तवत्वे सदैश्वर्यं विवेकः एव न अन्यत् । तेन संसारस्य दुष्चक्रस्य अनुबन्धनात् मुक्तिः शक्यते । अधिककालाय एकस्य भौतिकसंपत्तिः न हितकरा । अतः परिमित्या हि सा सम्मन्तव्या ॥ अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिः । संसारतरुसंभूतिबीजमेतद्द्विधा स्थितम् ॥ ११ ॥ विवरणम् – एषः अग्रिमश्लोकाश्च मुख्यविज्ञानं ददन्ति येन कथं जीवः संसारं गच्छति इति परिज्ञेयं भविष्यति । संसारः वृक्षः इव उक्तः । शरीरादिवस्तूनि आत्मा इति यानि वस्तूनि न स्वतांसि तानि स्वतांसि इति अज्ञानं संसारस्य बीजः ॥ पञ्चभूतात्मके देहे देही मोहतमोवृतः । अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् ॥ १२ ॥ आकाशवाय्वग्निजलपृथिवीभ्यः पृथक् स्थिते । आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥ १३ ॥ विवरणम् – भौतिकशरीरः पञ्चभूतात्मकः । आत्मने जीवाय अनित्यगृहम् इव शरीरः । यदा एकः भाटकगृहे वसति तदा तद्गृहस्य अधिकालङ्कारादि परिवर्तनानि मूर्खत्वमेव । कदाचिद् तस्य त्यागः अवश्यं भविष्यति । शरीरस्यापि स्थितिः तेन सदृशा । तस्य अनुरक्षणम् अवश्यकं किन्तु तस्मै अधिकप्रयत्नाः नावश्यकाः ॥ कलेवरोपभोग्यं हि गृहक्षेत्रादिकञ्च कः । अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते ॥ १४ ॥ इत्थञ्च पुत्त्रपौत्त्रेषु तद्देहोत्पादितेषु कः । करोति पण्डितस्स्वाम्यमनात्मनि कलेवरे ॥ १५ ॥ सर्वं देहोपभोगाय कुरुते कर्म मानवः । देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परम् ॥ १६ ॥ मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा । पार्थिवोऽयं तथा देहो मृदंब्वालेपनस्थितः ॥ १७ ॥ पञ्चभूतात्मकैर्भोगैः पञ्चभूतात्मकं वपुः । आप्यायते यदि ततः पुंसो भोगोऽत्र किं कृतः ॥ १८ ॥ अनेकजन्मसाहस्रीं संसारपदवीं व्रजन् । मोहश्रमं प्रयातोऽसौ वासनारेणुकुण्ठितः ॥ १९ ॥ प्रक्षाल्यते यदा सोऽस्य रेणुर्ज्ञानोष्णवारिणा । तदा संसारपान्थस्य याति मोहश्रमश्शमम् ॥ २० ॥ मोहश्रमे शमं याते स्वस्थान्तःकरणः पुमान् । अनन्यातिशयाबाधं परं निर्वाणमृच्छति ॥ २१ ॥ निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः । दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मनः ॥ २२ ॥ जलस्य नाग्निसंसर्गः स्थालीसङ्गात्तथापि हि । शब्दोद्रेकादिकान्धर्मांस्तत्करोति यथा नृप ॥ २३ ॥ तथात्मा प्रकृतेस्सङ्गादहंमानादिदूषितः । भजते प्राकृतान्धर्मानन्यस्तेभ्यो हि सोऽव्ययः ॥ २४ ॥ विवरणम् – अत्र आत्मनः भौतिकवस्तूनां च मध्ये भेदः वर्णितः । तत्त्ववाददर्शने एषः 'जीव-जड-भेद' इत्युक्तः । सः सर्वेषां तत्त्वानां पञ्चभेदानामेकः । आत्मा जीवः न शरीरः अथवा जडवस्तुम् । अतः भौतिकवस्तुभ्यः अधिकमान्यता केवल मूर्खत्वेन शक्यते । तस्मात्– 'आत्मा नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो धातुरस्य त्वनित्यः' इत्युक्तम् महाभारते (उद्योगपर्वे, अध्यायः ४०, श्लोकः १३; श्रीमध्वाचार्येण उद्धृतः, तस्य ब्रह्मसूत्रभाष्ये, अध्यायः २, पादः ३, सूत्रम् ३०) ॥ तदेतत्कथितं बीजमविद्याया मया तव । क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ २५ ॥ विवरणम् – योगः एकविधिः येन जगतः दुःखेभ्यः मुक्तिः शक्या यथा पूर्वाध्यायेषु वर्णितम् । तेन अपरोक्षज्ञानप्राप्तिः शक्यते येन योगस्य नित्यप्रयोगः शक्यते । अनन्तरं एतेन मोक्षोऽपि शक्यते । 'नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप' इति भगवद्गीतायाम् (अध्यायः ११, श्लोकौ ५३-५४) ॥ खाण्डिक्य उवाच तं ब्रवीहि महाभाग योगं योगविदुत्तम । विज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसंततौ ॥ २६ ॥ केशिध्वज उवाच योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम । यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ २७ ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गी मुक्त्यै निर्विषयं मनः ॥ २८ ॥ विषयेभ्यस्समाहृत्य विज्ञानात्मामनो मुनिः । चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ २९ ॥ आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुनिम् । विकार्यमात्मनश्शक्त्या लोहमाकर्षको यथा ॥ ३० ॥ आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ ३१ ॥ विवरणम् – अत्र योगस्य विस्तृतः अर्थः अस्ति । योगदर्शनस्य मुख्यग्रन्थे योगसूत्रेषु योगस्य अष्टाङ्गानि सन्ति इति श्रीपतञ्जलिऋषिरुक्तवान् । अतः एषः 'अष्टाङ्गयोग' इत्युक्तः । 'यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि' इति योगसूत्रेषु (साधनापादः, सूत्रम् २९) ॥ एतानि अङ्गानि अग्रिमश्लोकेषु वर्णितानि । श्रीमध्वाचार्यः तस्य ग्रन्थेषु श्रीजयतीर्थः न्यायसुधायाञ्च भक्तिरेव परागतिः या न कस्यचिद् साधना इति अवर्णयताम् । अनुव्याख्याने (अध्यायः ३, पादः ४) श्रीमध्वाचार्येण श्वेताश्वतरोपनिषदः 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' (श्वेताश्वतरोपनिषत्, अध्यायः ६, मन्त्रः २२) इति वाक्यम् उद्धृतः ॥ तथा सः 'भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा । ततो मुक्तिस्ततो भक्तिः सैव स्यात्सुखरूपिणी' इत्युक्तवान् ॥ भक्तिः त्रिविधा इति न्यायसुधायां एतानि वर्णयन् श्रीजयतीर्थः उक्तवान् । (१) भक्तिः – या परोक्षज्ञानस्य पूर्वेऽस्ति । (२) पक्वभक्तिः – या परोक्षज्ञानस्यानन्तरं प्रकाशिष्यते । (३) परिपक्वभक्तिः – या अपरोक्षज्ञानस्यानन्तरं प्रकाशिष्यते । यज्ज्ञानं गुरुणा शास्त्रेभ्यश्च प्राप्तव्यं तज्ज्ञानं परोक्षम् । तदपरविद्या न उत्तमज्ञानम् यतः तेन एकः न समाधिस्थितिं परमात्मनः नित्यचिन्तनञ्च अनुभवति । परिपक्वभक्तिः उत्तमागतिः यस्मिन् एकः सर्वदा सर्वकार्येषु भगवान्तं स्मरति । एतस्मिन् अध्याये एषा 'विनिष्पन्नसमाधिः' इत्युक्ता । एषा स्थितिः प्राप्य एव मोक्षः शक्यः यतः मोक्षः एतस्याः उपफलम् । अतः एकस्य परमोद्देशः केवल भक्तिः स्यात् या सम्पूर्णा न अन्यकार्येभ्यः साधनानि च ॥ एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणः । यस्य योगस्स वै योगी मुमुक्षुरभिधीयते ॥ ३२ ॥ योगयुक्प्रथमं योगी युञ्जानो ह्यभिधीयते । विनिष्पन्नसमाधिस्तु परं ब्रह्मोपलब्धिमान् ॥ ३३ ॥ यद्यन्तरायदोषेण दूष्यते चास्य मानसम् । जन्मान्तरैरभ्यसतो मुक्तिः पूर्वस्य जायते ॥ ३४ ॥ विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ ३५ ॥ विवरणम् – यथा पूर्वोक्तं तथा विनिष्पन्नसमाधिः विज्ञानेन प्राप्तव्या उत्तमास्थितिः । एतस्मिन् एकः परिपक्वभक्तेः प्रयोगं सदा करोति । एतस्य प्राप्तिः कठिणा । भक्तस्य साधनानुसारेण प्रारब्धकर्मानुसारेण च सः प्राप्तव्यः भविष्यति । किन्तु एतस्य प्राप्तिः सात्त्विकस्वाभावस्य जीवैरेव शक्या यतः एषः परिस्थितिः सात्त्विकगुणस्य पूर्णप्रकाशनम् । किन्तु एतस्य प्राप्तेरनन्तरं स्थितिव्यतीतेन एकः सदा भगवद्ज्ञानस्य स्थित्यां वसति न कदाचिद् भक्तिं विस्मरति । अतः– 'अन्नपानं धनं पुत्रं आयुरैश्वर्यमास्पदम् । आपद्यपि नयाचेत पूजकः पुरुषोत्तमम् ॥ नाप्रसन्नो ददाम्येष याचितोऽपि दिने दिने । अयाचितोऽपि तत्सर्वं सुप्रसन्नो ददाम्यहम् ॥ नकालः कारणं तत्र नार्चनस्य च गौरवम् । न पूजकस्य दुःखं वा मत्प्रसादस्य पद्मज ॥ स्वयमेवतु जानामि पूजकस्य गुणागुणान् । पजायाः संपदश्चापि कालस्य गमनं तथा ॥ स्वयमेव प्रसीदामि संपदं प्रेक्ष्य सर्वदा । प्रसन्नस्त्वनुगृह्णामि त्वरया न कदाचन ॥ इह जन्मनि नस्याचेदन्यजन्मनि तद्ध्रुवम् । अन्य जन्मनि नस्याच्चेत्परजन्मनि तद्ध्रुवम् ॥ नत्वेनमनुगह्णामि जन्मान्तरशतेऽप्यहम् । सकृदप्यर्चयित्वा मां परिवृत्तमुपासनात् ॥ कर्मणां पच्यमानत्वा दपरेषां परीक्षये । प्रकाशयामि भक्तानामहं किं मदनुग्रहम्' इत्युक्तं परमसंहितायाम् (अध्यायः ३०, श्लोकाः ७-१४) ॥ ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ॥ ३६ ॥ स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ॥ ३७ ॥ एते यमास्सनियमाः पञ्च पञ्च च कीर्त्तिताः । विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥ ३८ ॥ विवरणम् – एते सर्वेवैष्णवेभ्यः भगवद्भक्तेभ्यश्च मुख्यधर्माः । ब्रह्मचर्यम् अहिंसा सत्यम् अस्तेयम् अपरिग्रहश्च इति पञ्चयमाः येभ्यः निवृत्तिं कुर्यात् । स्वाध्यायः शौचं सन्तोषः तपः नियतात्मवान् च इति पञ्चनियमाः यान् कुर्यात् । भागवतपुराणेऽपि (स्कन्धः ७, अध्यायः ११) सर्वेभ्यः सात्त्विकेभ्यः अन्यनियमाः वर्णिताः ॥ एकं भद्रा सनादीनां समास्थाय गुणैर्युतः । यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ ३९ ॥ प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यत् । प्राणायामस्स विज्ञेयस्सबीजोऽबीज एव च ॥ ४० ॥ विवरणम् – प्राणयामस्य द्विविधम् अस्ति सबीजः अबीजः इति । यदा भगवान्तं चिन्तयन् एकः प्राणायामं करोति तदा सबीजः उक्तः । यदा भगवतः ध्यानं विना प्राणायामः क्रियते तदा अबीजः उक्तः ॥ परस्परेणाभिभवं प्राणापानौ यथानिलौ । कुरुतस्सद्विधानेन तृतीयस्संयमात्तयोः ॥ ४१ ॥ विवरणम् – प्राणायामस्य त्रिभागाः सन्ति– ·रेचक – प्राणेन निःश्वासनं (कालस्य १ अंशः) । ·पूरक – प्राणेन उच्छ्वासः (कालस्य २ अंशौ) । ·कुम्भक – प्राणस्य संयमः (कालस्य ३ अंशाः) । एतेषां भागानां त्रिविधमस्ति । यः द्वादशमात्रकः सः मन्दः इत्युक्तः । यः चतुर्विंशतिमात्रकः सः मध्यमः इत्युक्तः । यः षड्त्रिंशन्मात्रकः सः उत्तमः इत्युक्तः ॥ तस्य चालम्बनवतः स्थूलरूपं द्विजोत्तम । आलम्बनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥ ४२ ॥ शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ ४३ ॥ वश्यता परमा तेन जायतेऽतिचलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ ४४ ॥ प्राणयामेन पवने प्रत्याहारेण चेन्द्रिये । वशीकृते ततः कुर्यात्स्थितं चेतश्शुभाश्रये ॥ ४५ ॥ खाण्डिक्य उवाच कथ्यतां मे महाभाग चेतसो यश्शुभाश्रयः । यदाधारमशेषं तद्धन्ति दोषमलोद्भवम् ॥ ४६ ॥ केशिध्वज उवाच आश्रयश्चेतसो ब्रह्म द्विधा तच्च स्वभावतः । भूप मूर्त्तममूर्त्तं च परं चापरमेव च ॥ ४७ ॥ विवरणम् – मनसः यः आश्रयः ध्यानार्थं योग्यः सः शुभाश्रयः एव । सः भगवान्विष्णोः तस्य रूपस्य च ध्यानम् । अग्रिमश्लोकेषु एतत् वर्णितम् । भौतिकवस्तूनि अन्यजीवाश्च अशुभाश्रयः इत्युक्ताः यतः तानि न सम्पूर्णानि न तेषां सर्वगुणाः सद्गुणाः च । तानि अत्र 'ब्रह्म' इत्युक्तानि यतः तेषाम् अन्तर्यामी ब्रह्म । यथा 'अहं ब्रह्मास्मि' '(अ)तत्त्वमसि' इत्यादि वाक्यानि उक्तानि । यथा तानि सर्वाणि 'भगवान्' इत्युक्तानि तथा हि एतद्वाक्यमुक्तम् ॥ त्रिविधा भावना भूप विश्वमेतन्निबोधताम् । ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ ४८ ॥ कर्मभावात्मिका ह्येका ब्रह्मभावात्मिका परा । उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ ४९ ॥ सनन्दनादयो ये तु ब्रह्मभावनया युताः । कर्मभावनया चान्ये देवाद्याः स्थावरावराः ॥ ५० ॥ हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा । बोधाधिकारयुक्तेषु विद्यते भावभावना ॥ ५१ ॥ अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु । विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृणाम् ॥ ५२ ॥ प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसञ्ज्ञितम् ॥ ५३ ॥ विवरणम् – एषः श्लोकः श्रीपराशरभट्टेन उद्धृतः भगवद्गुणदर्पणे ('ब्रह्मण्य' नामस्य भाष्ये) ॥ तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम् । विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ॥ ५४ ॥ विवरणम् – एतस्मिन् अग्रिमश्लोकेषु च जगतः परमात्मनः सर्वेषां भूतानाञ्च ऐक्यं वर्णितं यत् मायावददर्शनस्य कल्पना इति संशयः शक्यः । किन्तु तदसत् यतः पूर्वेष्वध्यायेषु परमात्मनः अन्यतत्त्वानाञ्च मध्ये भेदोऽपि वर्णितः । अत्र परमात्मा सम्पूर्णजगति सर्वव्यापी सर्वकारणानां कारणः इति स्मरणीयम् । यथा 'भगवान् सर्वाणि' अथवा 'सः सम्पूर्णविश्वम्' इत्यादि वाक्यानि उक्तानि तथा एतस्य वाक्यस्य अर्थः । भगवान् स्वयं सर्वभूतानि इति अथवा तेषां भगवतः ऐक्यञ्च न तेषाम् अर्थः । ५२ श्लोके येषां कर्मणां कर्तृणि वयं अथवा अस्माकम् आत्मनः अस्माकं शरीराः इति मनसा कृतानि तानि कर्माणि विशेषकर्मज्ञानादि उक्तानि ॥ न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः । ततस्स्थूलं हरे रूपं चिन्तयेद्विश्वगोचरम् ॥ ५५ ॥ हिरण्यगर्भो भगवान्वासुदेवः प्रजापतिः । मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ॥ ५६ ॥ गन्धर्वयक्षदैत्याद्यास्सकला देवयोनयः । मनुष्याः पशवश्शैलास्समुद्रास्सरितो द्रुमाः ॥ ५७ ॥ भूप भूतान्यशेषाणि भूतानां ये च हेतवः । प्रधानादिविशेषान्तं चेतनाचेतनात्मकम् ॥ ५८ ॥ एकपादं द्विपादं च बहुपादमपादकम् । मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ ५९ ॥ एतत्सर्वमिदं विश्वं जगदेतच्चराचरम् । परब्रह्मस्वरूपस्य विष्णोश्शक्तिसमन्वितम् ॥ ६० ॥ विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा । अविद्याकर्मसञ्ज्ञान्या तृतीया शक्तिरिष्यते ॥ ६१ ॥ यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृपसर्वगा । संसारतापानखिलानवाप्नोत्यतिसन्ततान् ॥ ६२ ॥ विवरणम् – एषः श्लोकः श्रीपराशरभट्टेन उद्धृतः भगवद्गुणदर्पणे ('सङ्क्षेप्ता' नामस्य भाष्ये) ॥ तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसञ्ज्ञिता । सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ॥ ६३ ॥ अप्राणवत्सुस्वल्पा सा स्थावरेषु ततोऽधिका । सरीसृपेषु तेभ्योऽपि ह्यतिशक्त्या पतत्त्रिषु ॥ ६४ ॥ पतत्त्रिभ्यो मृगास्तेभ्यस्तच्छक्त्या पशवोऽधिकाः । पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः ॥ ६५ ॥ तेभ्योऽपि नागगन्धर्वयक्षाद्या देवता नृप । शक्रस्समस्तदेवेभ्यस्ततश्चातिप्रजापतिः । हिरण्यगर्भोऽपि ततः पुंसश्शक्त्युपलक्षितः ॥ ६६ ॥ विवरणम् – प्रायशः तत्त्ववाददर्शनं केवलं सर्वभूतानां विस्तृततारतम्यं मन्यते । सर्वेषां जीवानां स्वाभाविकगुणाः सन्ति यैः तेषां स्वभावः निर्णितः । एतैः गुणैः तेषां तारतम्यं निर्णितम् । तस्मादेव तेषां साधनस्य योग्यता निर्णिता । जगति बहुयोनिषु जीवाः जायन्ते । किन्तु तेषां स्वभावेन येषु योनिषु ते जायन्ते ते निर्णिताः । येषाम् अधिकयोग्यता अस्ति तेषाम् उत्तमयोनिषु जन्म शक्यते । अन्येभ्यः केवल तेषां गुणानुसारेण विशेषयोनिषु जन्मानि शक्यन्ते । तेभ्यः परजन्मानि न शक्यन्ते । सर्वेषां सर्वोत्तमः श्रीविष्णुः द्वितीया लक्ष्मीदेवी च । 'नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्' (महाभारते, आदिपर्वे, अध्यायः १, श्लोकः ३४; श्रीमध्वाचार्येण उद्धृतः, तस्य भगवद्गीताभाष्ये, अध्यायः २, श्लोकः २४) इति ॥ विष्णुः लक्ष्मी च विहाय सर्वे व्यक्तयः जीवाः ये कदाचोद् संसारे वसन्ति स्म । किन्तु ये सात्त्विकजीवाः ते कदाचिद् विमुक्ताः अवश्यः भविष्यन्ति । सात्त्विकमनुष्याः ये मुक्तियोग्याः ते सर्वेषां सात्त्विकजीवानाम् अधमाः । नागगन्धर्वदेवादयः तेभ्यः पराः । तेषामपि तारतम्यमस्ति यत् श्रीमध्वाचार्येण विहाय न कैश्चित् विद्वद्भिः अनालोचितम् । भागवतपुराणेऽपि सर्वेषां भूतानां स्पष्टरूपेण तारतम्यं वर्णितम् । 'भूतेषु वीरुद्‍भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः । ततो मनुष्याः प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये ॥ देवासुरेभ्यो मघवत्प्रधाना दक्षादयो ब्रह्मसुतास्तु तेषाम् । भवः परः सोऽथ विरिञ्चवीर्यः स मत्परोऽहं द्विजदेवदेवः' इति भागवतपुराणे (स्कन्धः ५, अध्यायः ५, श्लोकौ २१-२२) ॥ 'रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ॥ ब्रह्मा मामाश्रितो राजन्नाहं कंचिदुपाश्रितः । ममाश्रयो न कश्चित्तु सर्वेषामाश्रयो ह्यहम्' (महाभारते, अश्वमेधपर्वे, अध्यायः ११८, श्लोकौ ३७-३८; श्रीमध्वाचार्येण उद्धृतः, महाभारततात्पर्य्यनिर्ण्णये, अध्यायः २, श्लोकः ११७; श्रीवेदान्तदेशिकेन, रहस्यत्रयसारे, अध्यायः ६) इति ॥ यथा पूर्वोक्तं कठोपनिषदि सुबालोपनिषदि च तत्त्वानां तारतम्यं वर्णितं यत् तेषाम् अभिमानिदेवानां तारतम्यम् । अतः शास्त्रेषु एतैः सदृशानि वाक्यानि सन्ति ॥ एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव । यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥ ६७ ॥ द्वितीयं विष्णुसञ्ज्ञस्य योगिध्येयं महामते । अमूर्त्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ॥ ६८ ॥ समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूप्यं रूपमन्यद्धरेर्महत् ॥ ६९ ॥ विवरणम् – एषः श्लोकः श्रीपराशरभट्टेन उद्धृतः भगवद्गुणदर्पणे ('स्वयंभू' नामस्य भाष्ये) ॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यङ्मनुष्यादिचेष्टावंति स्वलीलया ॥ ७० ॥ जगतामुपकाराय न सा कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥ ७१ ॥ तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप । चिन्त्यमात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥ ७२ ॥ यथाग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ ७३ ॥ तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः । कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥ ७४ ॥ विवरणम् – एषः श्लोकः श्रीपराशरभट्टेन उद्धृतः भगवद्गुणदर्पणे (परिचयभागे 'भगवत्संबन्धस्य चेतनाचेतनदोषनिवारकता' इति नामस्य भागे) ॥ शुभाश्रयस्य चित्तस्य सर्वगस्याचलात्मनः । त्रिभावभावनातीतो मुक्तये योगिनो नृप ॥ ७५ ॥ अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ ७६ ॥ विवरणम् – एषः श्लोकः श्रीपराशरभट्टेन भगवद्गुणदर्पणे उद्धृतः (परिचयभागे) । परमात्मनः तुलनया देवाः न केचिद् बलवान्तः यतः परमात्मा अनेकधा परः इत्यत्र वर्णितम् । देवऋषिगन्धर्वादयोऽपि जीवाः ये प्रकृतेः प्रभावम् अनुभवन्ति कर्माणि कुर्वन्ति च । अतः परमात्मना असदृशाः ते न पूर्णशुद्धाः । 'कामं देवाऽपि मां विप्र न हि जानन्ति तत्त्वतः । त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विमृजाम्यहम् ॥ पितृभक्तोसि विप्रर्षे मां चैव शरणं गतः । ततो दृष्टोस्मि ते साक्षाद्ब्रह्यचर्यं च ते महत् ॥ आपो नारा इति प्रोक्तास्तासां नाम कृतं मया । तेन नारायणप्युक्तो मम तत्त्वयनं सदा ॥ अहंनारायणो नाम प्रभवः शाश्वतोऽव्ययः। विधाता सर्वभूतानां संहर्ता च द्विजोत्तम्' इति महाभारते (वनपर्वे, अध्यायः १९२, श्लोकाः १-४) ॥ 'अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः । एकोऽयं वेद भगवान्धाता नारायणो हरिः ॥ नारायणादृषिगणास्तथा सिद्धमहोरगाः । देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् ॥ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । यं न जानन्ति को ह्येष कुतो वा भगवानिति' (शान्तिपर्वे, अध्यायः ४६/४८, श्लोकाः १९-२१) इति ॥ मूर्त्तं भगवतो रूपं सर्वापाश्रयनिस्पृहम् । एषा वै धारण प्रोक्ता यच्चित्तं तत्र धार्यते ॥ ७७ ॥ यच्च मूर्त्तं हरे रूपं यादृक् चिन्त्यं नराधिप । तच्छ्रूयतामनाधारा धारणा नोपपद्यते ॥ ७८ ॥ विवरणम् – यथा बहुवारं शास्त्रेषु उक्तं विशेषतया कठिपनिषदि मुण्डकोपनिषदि तथा श्रीविष्णोः साक्षाद्रूपं सर्वभूतैः अचिन्त्यं वाय्वादिभिः उत्तमदेवैरपि । तेषां विरलयोग्यतया अपरोक्षज्ञानेन तस्य दर्शनं सर्वैः शक्यम् । तस्य रूपं सहस्रशीर्षम् इत्यादि उक्तं यतः तत्बृहत् । किन्तु तस्य ध्यानार्थम् एकचिन्त्यरूपम् अवश्यकम् । ततः परमसंहितायां ब्रह्मा श्रीविष्णुम् इति अपृच्छत् । 'नह्यसौ कारणैः कश्चित् परिच्छिन्नः कदाचन । दिग्देशकालरूपैश्च न रूपं तस्य निश्चितः ॥ अथ तस्य कथं पूजा कर्तव्या सिद्धिमीप्सता । एतद्बूहि कथं न्याय्यं देवदेव परं हितं' (परमसंहितायां, अध्यायः ३, श्लोकौ २-३) इति ॥ एतस्मै श्रीविष्णुः स्वयं 'निराकारे तु देवेशे नार्चनं संभवेन्नृणाम् । नच ध्यानं नच स्तोत्रं तस्मात्साकारमर्चयेत् ॥ आकारे तु कृता पूजा स्तुतिर्वा ध्यानमेववा । विधिना शास्त्रदृष्टेना देवैव कृता भवेत् ॥ भत्या परमयाऽकृष्टो देवदेवस्य योगिभिः । तेषामनुग्रहार्थाय रूपं भेजे चतुर्भुजम्' (श्लोकाः ७-९) इत्युक्तवान् ॥ ततः तस्य अन्यरूपाणि यानि चिन्त्यानि अस्माकं मनोभिः तेषां वर्णनं शास्त्रेष्वस्ति विशेषतया तस्य चतुर्भुजरूपस्य अष्टभुजरूपस्य च ॥ प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् । सुकपोलं सुविस्तीर्णललाटफकोज्ज्वलम् ॥ ७९ ॥ समकर्णान्तविन्यस्य चारुकुण्डलभूषणम् । कम्बुग्रीवं सुविस्तीर्णश्रीवत्साङ्कितवक्षसम् ॥ ८० ॥ वलित्रिभङ्गिना मग्ननाभिना ह्युदरेण च । प्रलम्बाष्टभुजं विष्णुमथवापि चतुर्भुजम् ॥ ८१ ॥ समस्थितोरुजङ्घञ्च सुस्थिताङ्घ्रिवराम्बुजम् । चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥ ८२ ॥ किरीटहारकेयूरकटकादिविभूषितम् । शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् । वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ ८३ ॥ चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥ ८४ ॥ विवरणम् – एते श्लोकाः श्रीविष्णोः यत् रूपं ध्यानजपादिषु ध्यातव्यं यथा पूर्वाध्याये (पृष्टः ६६) दृश्यते तद्रूपं वर्णयन्ति । एतत् योगस्य अङ्गं यत् 'ध्यान' इत्युक्तं यथा योगसूत्रादिग्रन्थेषु वर्णितम् । परमात्मनः पूजार्थम् एतत् सुलभः विधिः ॥ व्रजतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ॥ ८५ ॥ ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः । चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ ८६ ॥ सा यदा धारणा तद्वदवस्थानवती ततः । किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ ८७ ॥ तदेकावयवं देवं चेतसा हि पुनर्बुधः । कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥ ८८ ॥ तद्रूपप्रत्यया चैका सन्ततिश्चान्यनिःस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ॥ ८९ ॥ विवरणम् – योगस्य षडङ्गानि यमः नियमः आसनः प्राणायामः प्रत्याहारः धारणश्च इति यथा श्रीपतञ्जलिऋषेः योगसूत्रेषु उक्तानि ॥ तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिस्सोऽभिधीयते ॥ ९० ॥ विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव । प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ ९१ ॥ क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् । निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्त्तते ॥ ९२ ॥ तद्भावभावमापन्नस्ततोऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ ९३ ॥ विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ ९४ ॥ विवरणम् – अत्र विवर्तं जीवब्रह्म-ऐक्यं केवल चेतनादीनां सदृशताभिरेव उक्तं न तस्य अर्थः ब्रह्म जीवश्च एकः इति स्मरणीयम् । दोषितरूपेण ब्रह्मणः जीवानाञ्च भेदस्य निन्दम् अत्र अक्रियत किन्तु न तेषां भेदः हि लोप्यते । यदि एतत् सत्यं तर्हि कठोपनिषदः (अध्यायः २, वल्ली १, मन्त्रः १५) ब्रह्मसूत्राणां अन्तिमपादस्य च इत्यादिशास्त्राणाम् अन्यवाक्यानां विरोधः भविष्यति । जीवाः विमुक्ताः भूत्वापि ब्रह्मणः अधमाः सदा भविष्यन्ति । तेषां परमात्मनः च मध्ये सदृशताः भविष्यन्ति किन्तु ते न एकपुरुषः हि भविष्यन्ति इति तत्र स्पष्टरूपेण उक्तम् ॥ इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः । सङ्क्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥ ९५ ॥ खाण्डिक्य उवाच कथिते योगसद्भावे सर्वमेव कृतं मम । तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः ॥ ९६ ॥ ममेति यन्मया चोक्तमसदेतन्न चान्यथा । नरेन्द्र गदितुं शक्यमपि विज्ञेयवेदिभिः ॥ ९७ ॥ अहं ममेत्यविद्येयं व्यवहारस्तथानयोः । परमार्थस्त्वसंलापो गोचरे वचसां न यः ॥ ९८ ॥ तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् । यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाऽव्ययः ॥ ९९ ॥ श्रीपराशर उवाच यथार्हं पूजया तेन खाण्डिक्येन स पूजितः । आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ॥ १०० ॥ खाण्डिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये । वनं जगाम गोविन्दे विनिवेशितमानसः ॥ १०१ ॥ तत्रैकान्तमतिर्भूत्वा यमादिगुणसंयुतः । विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥ १०२ ॥ केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखः । बुभुजे विषयान्कर्म चक्रे चानभिसंहितम् ॥ १०३ ॥ सकल्याणोपभोगैश्च क्षीणपापोऽमलस्तथा । अवाप सिद्धिमत्यन्तां तापक्षयफलां द्विज ॥ १०४ ॥ इति श्रीविष्णुपुराणे षष्ठे अंशे सप्तमोऽध्यायः ॥ अध्यायः ८ (Adhyaaya 8) ===================================================== श्रीपराशर उवाच इत्येष कथितस्सम्यक्तृतीयः प्रतिसञ्चरः । आत्यन्तिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते ॥ १ ॥ विवरणम् – यथा पुर्वेष्वध्यायेषु उक्तं तथा सर्वाश्रमेषु भक्तेः प्रयोगं कुर्वन् अपरोक्षज्ञानप्राप्तिः शक्यते । खाण्डिक्यः वानप्रस्थः अभवत् । केशिध्वजः कर्मयोगी आसीत् किन्तु सः सर्वभौतिकवस्तुभ्यः निवृत्तः आसीत् । अतः खाण्डिक्येन सदृशः सोऽपि मुक्तः अभवत् । एषः आत्यन्तिकलयः यः संसारात् मोक्षः येन एकस्य संसारे दुःखानि प्रलीयन्ते च । अथ एषोऽध्यायः विष्णुपुराणस्य सारं तात्पर्यञ्च वर्णयति ॥ सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरितं चैव भवतो गदितं मया ॥ २ ॥ पुराणं वैष्णवं चैतत्सर्वकिल्विषनाशनम् । विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ ३ ॥ तुभ्यं यथावन्मैत्रेय प्रोक्तं शुश्रूषवेऽव्ययम् । यदन्यदपि वक्तव्यं तत्पृच्छाद्य वदामि ते ॥ ४ ॥ श्रीमैत्रेय उवाच भगवन्कथितं सर्वं यत्पृष्टोसि मया मुने । श्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे ॥ ५ ॥ विच्छिन्नास्सर्वसन्देहा वैमल्यं मनसः कृतम् । त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसङ्क्षयाः ॥ ६ ॥ ज्ञातश्च त्रिविधो राशिश्शक्तिश्च त्रिविधा गुरो । विज्ञाता सा च कार्त्स्न्येन त्रिविधा भावभावना ॥ ७ ॥ त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैरलं द्विज । यदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ॥ ८ ॥ विवरणम् – एतस्मिन् श्लोके केवलाद्वैतदर्शनस्य ब्रह्मणः सर्वभूतानाम् ऐक्यस्य दृश्यं शक्यम् । किन्तु एषः अर्थः पूर्वाध्यायस्य अन्यशास्त्राणां वाक्यानाञ्च विरोधं करिष्यति येषु जगतः जीवानां भगवान्विष्णोश्च भेदः वर्णितः । 'सः मम विश्वः' इत्यादि वाक्यानि इव एतस्य श्लोकस्य तात्पर्यमपि । एषः अर्थवादः किन्तु भगवान्स्वयं जगत् इति न एतस्य अर्थः । भगवान् जगतः कारणः । एषः श्लोकोऽपि अर्थवादः यस्य न अर्थः सर्वे धर्माः न मुख्याः इति ॥ कृतार्थोऽहमसन्देहस्त्वत्प्रसादान्महामुने । वर्णधर्मादयो धर्मा विदिता यदशेषतः ॥ ९ ॥ प्रवृत्तं च निवृत्तं च ज्ञातं कर्ममयाखिलम् । प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे ॥ १० ॥ यदस्य कथनायासैर्योजितोऽसि मया गुरो । तत्क्षम्यतां विशेषोऽस्ति न सतां पुत्रशिष्ययोः ॥ ११ ॥ विवरणम् – मैत्रेयऋषिः गुरुभक्त्या पराशरऋषिं विष्णुपुराणस्य ज्ञानप्रदार्थम् अवन्दत ॥ श्रीपराशर उवाच एतत्ते यन्मयाख्यातं पुराणं वेदसम्मितम् । श्रुतेऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ १२ ॥ सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरितं कृत्स्नं मयाऽत्र तव कीर्त्तितम् ॥ १३ ॥ अत्र देवास्तथा दैत्या गन्धर्वोरगराक्षसाः । यक्षविद्याधरास्सिद्धाः कथ्यन्तेऽप्सरसस्तथा ॥ १४ ॥ मुनयो भावितात्मानः कथ्यन्ते तपसान्विताः । चातुर्वर्ण्यं तथा पुंसां विशिष्टचरितानि च ॥ १५ ॥ पुण्याः प्रदेशा मेदिन्याः पुण्या नद्योऽथ सागराः । पर्वताश्च महापुण्याश्चरितानि च धीमताम् ॥ १६ ॥ वर्णधर्मादयो धर्मा वेदशास्त्राणि कृत्स्नशः । येषां संस्मरणात्सद्यस्सर्वपापैः प्रमुच्यते ॥ १७ ॥ उत्पत्तिस्थितिनाशानां हेतुर्यो जगतोऽव्ययः । स सर्वभूतस्सर्वात्मा कथ्यते भगवान्हरिः ॥ १८ ॥ अवशेनापि यन्नाम्नि कीर्त्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥ १९ ॥ विवरणम् – एषः श्लोकः श्रीमध्वाचार्येण उद्धृतः श्रीकृष्णमृतमहार्णवे (श्लोकः ६५) श्रीवेदान्तदेशिकेन रहस्यत्रयसारे (अध्यायः २६) च । श्रीपराशरभट्टेनापि उद्धृतः भगवद्गुणदर्पणे ('पुण्यकीर्ति' नामस्य भाष्ये अग्रिमश्लोकसहितम्) । यथा द्वितीयेऽध्याये अन्यपुराणेषु च उक्तं तथा कलियुगे उत्तमा साधनं श्रीनारायणस्य नामानां सङ्कीर्तनं जपश्च यौ अल्पयत्नेन शक्येते । अन्यसाधानानां कठिनत्वात् एषः कलियुगस्य युगधर्मः ॥ यन्नामकीर्त्तनं भक्त्या विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावकः ॥ २० ॥ विवरणम् – एषः श्लोकः श्रीमध्वाचार्येण श्रीकृष्णामृतमहार्णवे (श्लोकः ५९) उद्धृतः ॥ कलिकल्मषमत्युग्रं नरकार्त्तिप्रदं नृणाम् । प्रयाति विलयं सद्यस्सकृद्यत्र च संस्मृते ॥ २१ ॥ हिरण्यगर्भदेवेन्द्र रुद्रादित्याश्विवायुभिः । पावकैर्वसुभिस्साध्यैर्विश्वेदेवादिभिस्सुरैः ॥ २२ ॥ यक्षरक्षोरगैस्सिद्धैर्दैत्यगन्धर्वदानवैः । अप्सरोभिस्तथा तारानक्षत्रैस्सकलैर्ग्रहैः ॥ २३ ॥ सप्तर्षिभिस्तथा धिष्ण्यैर्धिष्ण्याधिपतिभिस्तथा । ब्राह्मणाद्यैर्मनुष्यैश्च तथैव पशुभिर्मृगैः ॥ २४ ॥ सरीसृपैर्विहङ्गैश्च पलाशाद्यैर्महीरुहैः । वनाग्निसागरसरित्पातालैस्ससुराग्निभिः ॥ २५ ॥ शब्दादिभिश्च सहितं ब्रह्माण्डमखिलं द्विज । मेरोरिवाणुर्यस्यैतद्यन्मयं च द्विजोत्तम ॥ २६ ॥ स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितः । भगवान्कीर्त्तितो विष्णुरत्र पापप्रणाशनः ॥ २७ ॥ यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम् । मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम ॥ २८ ॥ प्रयागे पुष्करे चैव कुरुक्षेत्रे तथाऽर्णवे । कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः ॥ २९ ॥ यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवः । महापुण्यफलं विप्र तदस्य श्रवणात्सकृत् ॥ ३० ॥ यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले । मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ ३१ ॥ तदाप्नोत्यखिलं सम्यगध्यायं यश्शृणोति वै । पुराणस्यास्य विप्रर्षे केशवार्पितमानसः ॥ ३२ ॥ यमुनासलिलस्नातः पुरुषो मुनिसत्तम । ज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः ॥ ३३ ॥ समभ्यर्च्याच्युतं सम्यङ्मथुरायां समाहितः । अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ ३४ ॥ आलोक्यर्द्धिमथान्येषामुन्नीतानां स्ववंशजैः । एतत्किलोचुरप्येषां पितरः सपितामहाः ॥ ३५ ॥ कच्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः । अर्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥ ३६ ॥ ज्येष्ठामूले सिते पक्षे केनैवं वयमप्युत । परामृद्धिमवाप्स्यामस्तारितास्स्वकुलोद्भवैः ॥ ३७ ॥ ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम् । धन्यानां कुलजः पिण्डान्यमुनायां प्रदास्यति ॥ ३८ ॥ तस्मिन्काले समभ्यर्च्य तत्र कृष्णं समाहितः । दत्त्वा पिण्डं पितृभ्यश्च यमुनासलिलाप्लुतः ॥ ३९ ॥ यदाप्नोति नरः पुण्यं तारयन्स्वपितामहान् । श्रुत्वाध्यायं तदाप्नोति पुराणस्यास्य शक्तितः ॥ ४० ॥ विवरणम् – एते श्लोकाः पुराणस्य अन्तिमभागेऽस्ति । तस्य श्लोकानां श्रवणस्य उच्चारणस्य पठनस्य च फलस्य विवरणं ते कुर्वन्ति । एतानि 'फलश्रुतयः' इत्युकानि । भक्तिविज्ञानप्रदार्थः केवलं शास्त्राणां परमोद्देशः । कदाचित् फलश्रुतयः अर्थवादरूपेण सन्ति । शास्त्रस्य श्रवणादिनाम् उक्ताः स्वल्पाः लाभाः उपचारकाः एव । एतस्मिन् श्लोकेऽपि एतस्य वर्णनमस्ति– 'फलश्रुतिरियं नृणां न श्रेयो रोचनं परम् । श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम्' इति भागवतपुराणे (स्कन्धः ११, अध्यायः २१, श्लोकः २३) ॥ एतत्संसारभीरूणां परित्राणमनुत्तमम् । श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥ ४१ ॥ दुःखप्रनाशनं नॄणां सर्वदुष्टनिबर्हणम् । मङ्गलं मङ्गलानां च पुत्रसंपत्प्रदायकम् ॥ ४२ ॥ इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः । ऋभुः प्रियव्रतायाह स च भागुरयेऽब्रवीत् ॥ ४३ ॥ भागुरिस्स्तंभमित्राय दधीचाय स चोक्तवान् । सारस्वताय तेनोक्तं भृगुस्सारस्वतेन च ॥ ४४ ॥ भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान् । नर्मदा धृतराष्ट्राय नागायापूरणाय च ॥ ४५ ॥ ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज । वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ॥ ४६ ॥ कम्बलाय च तेनोक्तमेलापुत्राय तेन वै । पातालं समनुप्राप्तस्ततो वेदशिरा मुनिः । प्राप्तवानेतदखिलं स च प्रमतये ददौ ॥ ४७ ॥ दत्तं प्रमतिना चैतज्जातुकर्णाय धीमते । जातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम् ॥ ४८ ॥ पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम् । मयापि तुभ्यं मैत्रेय यथावत्कथितं त्विदम् ॥ ४९ ॥ त्वमप्येतच्छिनीकाय कलेरन्ते वदिष्यसि । इत्येतत्परमं गुह्यं कलिकल्मषनाशनम् । यश्शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ५० ॥ समस्ततीर्थस्नानानि समस्तामरसंस्तुतिः । कृता तेन भवेदेतद्यश्शृणोति दिने दिने ॥ ५१ ॥ कपिलादानजनितं पुण्यमत्यंतदुर्लभम् । श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ॥ ५२ ॥ यस्त्वेतत्सकलं शृणोति पुरुषः कृत्वा मनस्यच्युतं सर्वं सर्वमयं समस्तजगतामाधारमात्माश्रयम् । ज्ञानंज्ञेयमनादिम३रहितं सर्वामराणां हितं स प्राप्नोति न संशयोस्त्यविकलं यद्वाजिमेधे फलम् ॥ ५३ ॥ यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथान्ते च स ब्रह्मज्ञानमयोऽच्युतोऽखिलजगन्मध्यान्तसर्गप्रभुः । तत्सर्वं पुरुषः पवित्रममलं शृण्वन्पठन्वाचयन्प्राप्नोत्यस्ति न तत्फलं त्रिभुवनेष्वेकान्तसिद्धिर्हरिः ॥ ५४ ॥ यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः । मुक्तिं चेतसि यस्स्थितोऽमलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्त्तिते ॥ ५५ ॥ विवरणम् – एषः श्लोकः श्रीपराशरभट्टेन भगवद्गुणदर्पणे (परिचयभागे) उद्धृतः ॥ यज्ञैर्यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो यं वै ब्रह्ममयं परावरमयं ध्यायन्ति च ज्ञानिनः । यं सञ्चिन्त्य न जायते न म्रियते नो वर्द्धते हीयते नैवासन्न च सद्भवत्यति ततः किं वा हरेश्श्रूयताम् ॥ ५६ ॥ कव्यं यः पितृरूपधृग्विधिहुतं हव्यञ्च भुङ्क्ते विभुर्देवत्वे भगवाननादिनिधनस्स्वाहास्वधासञ्ज्ञिते । यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां विष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ॥ ५७ ॥ विवरणम् – एषः श्लोकः भगवन्नारायणस्य 'हरि' इति नामस्य अर्थद्वयं वर्णयति । सः इति उक्तः यतः सः यज्ञस्य देवता तथाऽपि सः सर्वेषां तस्य भक्तानां पापानाञ्च विनाशकश्च । सर्वयज्ञाः केवल श्रीविष्णुना शक्याः । पुरुषोत्तमेनैव अन्यदेवाः आशीर्वादान् ददन्ति । सोऽपि उपेन्द्रः वामनः यः यज्ञानाम् अभिमानी ॥ 'इलोपहूतं गेहेषु हरे भागं क्रतुष्वहम् । वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरहं स्मृतः' (महाभारते शान्तिपर्वे, अध्यायः ३३०, श्लोकः ३; श्रीमध्वाचार्येण उद्धृतः, तस्य गीताभाष्ये, अध्यायः ११, श्लोकः ९) इति ॥ 'हरणादेव दुःखानां हरिरित्यभिधीयते' इति परमसंहितायाम् (अध्यायः २, श्लोकः ९९) ॥ नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य । नापक्षयं च समुपैत्यविकारि वस्तु यस्तं नतोऽस्मि पुरुषोत्तममीशमीड्यम् ॥ ५८ ॥ तस्यैव योऽनु गुणभुग्बहुधैक एव शुद्धोऽप्यशुद्ध इव भाति हि मूर्त्तिभेदैः । ज्ञानान्वितस्सकलसत्त्वविभूतिकर्त्ता तस्मै नमोऽस्तु पुरुषाय सदाव्ययाय ॥ ५९ ॥ ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय । अव्याकृताय भवभावनकारणाय वन्दे स्वरूपभवनाय सदाऽजराय ॥ ६० ॥ व्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय । पुंसस्समस्तकरणैरुपकारकाय व्यक्ताय सूक्ष्मबृहदात्मवते नतोऽस्मि ॥ ६१ ॥ इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य । प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां सिद्धिम् ॥ ६२ ॥ विवरणम् – इति श्रीविष्णुपुराणस्य अन्तिमांशः सम्पूर्णः । एतैः पञ्चश्लोकैः श्रीविष्णवे तस्य गुणानां सतवम् उदाहरन् श्रीपराशरमुनिः तस्य वचनानि समाप्तं करोति । यथा सर्वेषां शास्त्राणाम् आदेः अन्तस्य च श्लोकाः तेषां तात्पर्य्यं वदन्ति यथा महाभारतभागवतपुराणादि शास्त्रेष्वपि तथा विष्णुपुराणमपि आदौ अन्ते च श्रीनारायणं वन्दते । कायेन वाचा मनसेन्द्रियर्वा बुद्ध्यात्मना वानुसृतस्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ (विष्णुसहस्रनामस्तोत्रस्य उत्तरपीठिकायां; भागवतपुराणेऽपि, स्कन्धः ११, अध्यायः २, श्लोकः ३६; श्रीमध्वाचार्येण उद्धृतः, सदाचारस्मृत्यां, श्लोकः १६) इति श्रीविष्णुपुराणे षष्ठे अंशे अष्टमोऽध्यायः ॥ ॥ इति श्रीविष्णुपुराणे षष्ठो अंशः समाप्तः ॥ ॥ इति श्रीविष्णुमहापुराणं सम्पूर्णम् ॥ -------------------------------------------------------------- FOOTNOTES -------------------------------------------------------------- Adhyaaya 2, Shloka 17: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Punyakeerti' Adhyaaya 4, Shloka 39: Quoted by Shri Yamunacharya, in Aagama Pramaanya, Paragraph 81 Adhyaaya 5, Shlokas 71-72: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam Adhyaaya 5, Shloka 74: Quoted by Shri Madhvacharya, in his Geeta bhaashya, Adhyaaya 2, Shloka 72; Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Bhagavaan' Adhyaaya 5, Shloka 79: Quoted by Shri Ramanujacharya, in Vedaartha Sangraha, Paragraph 47; Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Mahaashaktihi' Adhyaaya 5, Shlokas 83-87: Quoted by Shri Ramanujacharya, in Vedaartha Sangraha, Paragraph 157 Adhyaaya 5, Shloka 84: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, Introduction Adhyaaya 5, Shloka 85: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Mahaadyuti' Adhyaaya 7, Shloka 53: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Brahmanya' Adhyaaya 7, Shloka 62: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Sankshepta' Adhyaaya 7, Shloka 69: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Svayambhu' Adhyaaya 7, Shloka 73: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, Introduction, 'Bhagavatsambandhasya Chetanaachetanadoshanivaarakata' Adhyaaya 7, Shloka 76: Quoted by Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam (Page 69 of the English translation) Adhyaaya 8, Shloka 19: Quoted by Shri Madhvacharya, in Krshnaamrta Mahaarnava, Shloka 65; Shri Vedaanta Deshika, in Rahasyatraya Saara, Chapter 26; Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Punyakeerti' Adhyaaya 8, Shloka 20: Quoted by Shri Madhvacharya, in Krshnaamrta Mahaarnava, Shloka 59; Shri Paraashara Bhattar, in Bhagavat-Guna Darpanam, under the name 'Punyakeerti' *********************************************************************** This document has been provided by Achyuta Bhakti Deets. Visit https://bhaktideets.org or https://elib.bhaktideets.org for more Shaastra related content. © Copyrights 2022-25 Achyuta Bhakti Deets श्री हरये नमः । श्रीकृष्णार्पणमस्तु ॥